________________ वज्रस्वामितम्बन्धः . गुरुणा प्रेषितो वो गत्वा तत्र नराऽबलाः / अलग्नभूपदा वीक्ष्य जगादेति च तान् प्रति // भवन्त्यो देवतामाया-मीदृशीं विदधुः किल / अतो न कल्पते मिक्षे-दृक्षा साधोः क्वचिद् ध्रुवम् // ततः सा देवता प्राहुः(ह)कृत्वा स्वरूपमञ्जसा / स्तुत्वा वनं गुरुोरणे जगाम स्थानके निजे / / क्रमात् सूरिपदस्यैव योग्यं वनमवेत्य च / सूरीश्वरपदं सिंह-गिरिसूरिरदोन्मुदा // शतसङ्खथान् यतीनेका-दशाङ्गी पाठयन् सदा / वनाचार्यों व्यधाद्देव-गुरुतुल्यान् सुविद्यया / / वज्रस्वामी महीपीठे बोधयन् भविकान् बहून् / दीक्षयामास भूयिष्ठ-श्रावकान् श्राविकाः पुनः / / श्राद्धीनां पुरतोऽन्येद्यः श्रीवत्रस्वामिनो गुरोः / सुरूपे वर्णिते साधु कन्यो वरितुमीहते / ततस्तया पितुः पार्वे प्रोक्तं परिणाययाधुना / मां वनस्वामिना सार्द्धं नो चेन्मे शरणं वसुः / / कोटिभिर्भूरिभिर्हेम्नां युतां स्वनन्दिनी धनी / लात्वा दातुं चचाल स्व-गृहानाय सूरये / / कदाग्रहात् कनी तत्रा-यातां वरितुं कामुकाम् / मत्वा वनः कुरूपं स्वं चक्रे शीलावनाय सः / ततस्तत्रागता कन्या कुरूपं सूरिदेहजम् / वीक्ष्याऽऽस्यं मोटयित्वाऽगात् पश्चात् स्वीयनिकेतने // यतः-" कोटी सहिएहिं धणसंचयस्स गुणस्स भरियाइ कन्नाइं / नवि लुद्धो वयररिसी अलोभया एस साहूणं // 1 // " अधीत्य दश पूर्वाणि बोधयन् भव्यमानवान् / तीर्थे प्रभावनां चक्रे वज्रसूरीश्वरोऽनिशम् / / उक्तश्च" गुरोः सिंहगिरेः पार्वे श्रुत्वा धर्म विरागवान् / व्रतं धनगिरिः प्राप तत्पत्नी तत् सुतोऽपि च // 1 // तुंबवणसन्निवेसाउ निग्गयं पिउस्सगास समल्लोणं / छम्मासियं छसु ज माऊइ समन्नियं वंदे // 2 // " यः पालनस्थः श्रुतमध्यगीष्ट षण्मासिके यश्चरिताभिलाषी। त्रिवार्षिकः सङ्घममानयद्यो योऽध्यापयत् साधुगणं प्रकामम् // जो गुज्झगेहिं बालो निमंतिओ भोयणेण वासंते / नेच्छइ विणीयविणओ तं वयररिसिं नर्मसामि // उज्जेणीए जो जंभगेहिं आणक्खिऊण थुयमहिओ। अक्खीणमहाणसीयं सीहगिरिपसंसियं वंदे / / जस्स अणुण्णाए वायगत्तणम्मि दसपुरम्भि नयरम्मि / देवेहिं कया महिमा पयाणुसारिं नमसामि / / जेणुद्धरिया विज्जो आगासगमा महापरिनाओ। वंदामि अज्जवयरं अपच्छिमो जो सुयहराणं // दुर्भिक्षे पतितेऽत्यन्तं सङ्घ संस्थाप्य सत्पटे / माहेश्वरी पुरीं वो नीतवान् सूरिराट् क्रमोत् / / हुताशनाद् यक्षवनात् सुमानि, माहेश्वरी तां तु पुरी निनाय / तत्रैव बौद्धप्रतिबोधनाय, प्रभावनां यो महती चकारः // एवं वनगुरोर्वर्य-विद्याऽम्भोधेर्निरन्तरम् / प्रभावनापरस्यैव बहवो वासरा ययुः // वज्रसूरिगुरोर्वाणी श्रुत्वा के के न मानवाः / त्यक्त्वा मिथ्यात्वमह्नाय जैन धर्मं प्रपेदिरे / / एवमन्येऽपि बहवोऽवदाता सन्ति भूरिशः / तत्रैव च प्रवक्तव्या विद्वद्भिः स्वल्पज्ञप्तये / / अन्येधुर्वनगच्छेशः सोपारकाह्वपत्तने / ययो यावत्तदाऽनेके भव्या वन्दितुमाययुः // तदा श्रीवन आचष्ट दानादिपुण्यमञ्जसा / कतव्यं विधिवद्भव्य-र्मुक्तिसाताप्तये सदा / / यतः-" गोइथिभूमिदाणं सुवण्णदाणं च जे पउंजंति / ते पावकम्मगुरुया भमंति संसारकंतारे / / 1 // बंधण ताडणदमणं तु होइ गाईण दारुणं दुःखं / हलकुलिएसु य पुहइ दारिज्जइ सत्तसंधायं / / 2 // जोवि हु देइ कुमारिं सो विहु रागं करेइ गिद्धिं च / रागेण होइ मोहो मोहेण वि दोग्गईगमणं / / 3 // हेमं भयावहं पुण आरंभपरिग्गहस्स आमूलं / तम्हा वज्जेइ मुणी चत्तारि इमाइं दाणाइ / / 4 / " तदा श्राद्धैः शिवप्राप्त्यै दानानि कानि बोधिदैः / कथ्यन्तेऽतो जगौ वज्र-स्वामी भव्याङ्गिनां पुरः // 5 // " नाणं अभयपयाणं फायदाणं च भेस चेव / एते हवंति दाणाओ उवइद्र वीयरागेण // 6 // " ज्ञानवान् ज्ञानदानेन निर्भयोऽभयदानतः। अन्नदानात् सुखी नित्यं निर्व्याधिर्भेषजाद् भवेत् // 7 // यतः-" नाणेण दिव्वनाणी दीहाउ होइ अभयदाणेण /