________________ 144 शत्रुक्षय-कल्पवृत्ती आहारेण य भोगं पावइ दाया न संदेहो // 1 // लय दिव्वसरीरं साहूणं सज्जभेस दायारो। निरुवहयंगोवंगो उत्तमभोगं च अणुहवइ / / 2 / / जह वड्ढइ वडवीयं पुहइयले पायवो हवइ पुण्णे / तह मुणि वराण दाणं दिन्नं विउलं हवइ पुन्नं / / 3 / जह खेत्तम्मि सुकिठे सुबहुत्तं अब्भुयं हवइ बीयं / तह संजयाण दाणं महंत पुण्णावहं हवइ // 4 // जह ऊसरम्मि बीयं खेत्ते नय होइ तस्स परिवुड्ढी / तह मिच्छत्तमइलए पत्ते अफलं हवइ दाणं / / 5 / / सद्धा सत्ती भत्ती विण्णोणय हवेज्ज जं दिण्णं / तं दाणं विहिदिण्णं पुण्णफलं होइ नायव्वं // 6 // विविहाउहगहियकरा सव्वे देवा स कसायसंजुत्ता / कामरइरागवसगा निच्चं कयभंडणी भरणा // 7 // जे एवमाइ देवा न हु ते दाणस्स होति नेआरो। सयमेव जे न तिन्ना कहं ते तारंति अण्णजणं // 8 // " इत्यादि धर्ममाकर्ण्य भविनो बहवस्तदा / धर्म जिनोदितं भावाज्जगृहे शिवशर्मणे // 9 // श्रीशत्रुञ्जयमाहात्म्यं महन्तं वनसूरिराट् / मत्वा संक्षिप्तवान् सत्त्वाऽनुग्रहाय दिने शुभे // 10 // यतः-"श्रीशत्रुजये गत्वा नौति वाऽर्चति बोधिदान् / तस्य स्वर्गापवर्गादि सुखमेति करे लघु // 1 // एकमेवं पदे दत्त यात्रायै सिद्धपर्वते / श्रियः सोऽचालीत् ध्रुवं मुक्तिपुर्यां पातु संशयम् // 2 // " // 104 / / इति श्रीवज्रस्वामिसम्बन्धः , शत्रुञ्जयकल्पसंक्षेपगर्भितः / पादलिप्तसूरिसम्बन्धः प्रोच्यते, तथाहि पादलिप्तोऽन्यदा सूरि-जगाम सिद्धपर्वते / श्रीयुगादिजिनं नन्तु-मनन्तसुखहेतवे // 1 // तदा मुरंडभूपालो भूरि सङ्घसमन्वितः / शत्रुञ्जये समायातो नन्तुं तीर्थं च पूजितुम् / / 2 // पूजयित्वा प्रभु पुष्पैः स्वामिनः पादुकास्तदा / राजादन्या व्यधाद्भक्त्या महीपालः प्रदक्षिणाम् / / 3 // ततोऽन्यानपि सर्वज्ञान् पूजयित्वा प्रणम्य च / भूपः सफलयामास निजं जन्म सुभावतः / / 4 / / ध्वजां दत्त्वादिमाप्तस्य प्रासादे सङ्घसंयुतः। आरात्रिकं नृपश्चक्रे ततो मङ्गलदीपकम् / / उपदेशं ततः पाद-लिप्तस्य सूरिसनिधौ / श्रोतुं याते नृपे सूरि-स्तीर्थ माहात्म्यमूचिवान् // तदा राजा जगौ शत्रु-जयमाहात्म्यमद्भतम् / महदस्ति ततः सूरेः सङ्पयाधुना किल || बहुव्यापारसामग्रे-भव्यजीवैः शिवार्थिभिः / श्रोतुं न शक्यतेऽतीव विस्तरात् साम्प्रतं समम् // ततः सङ्क्षिप्य सिद्धाद्रि-माहात्म्यं सूरिपुङ्गवः / लघु चक्रे च भव्याना-मनुग्रहाय शिवाप्तये / / प्राग् ' संपइ विक्कम' गाहा मध्ये प्रोक्तोऽस्ति, ततोज्ञेयो विस्तरात् ; इति पादलिप्तसूरिसम्बन्धः / ततो धनेश्वरः सूरिर्माहात्म्यं सिद्धभूभृतः / चकार भव्यसत्त्वानां लघु मुक्तिसुखाप्तये / / तं जह सुयं थुयं मे पहंतनिसुणंतसंभरंताणं / सित्तुंजकप्पसुत्तं देउ लहुं सत्तुजय सिद्धिं // 39 // 'तत्' प्रसिद्ध तीर्थं शत्रुजयाख्यं यथा पूर्वशास्त्रे 'श्रुतम् ' आकर्णितं बहुश्रुतपार्थात् 'स्तुतम्' स्तोत्रपथे नीतं 'मे' मया यत्तदोर्नित्याभिसम्बन्धाद्यत् पठतां शृण्वतां संस्मरतां शत्रुञ्जयस्तोत्रं 'देउ' ददाति लघुः- लघुः शीघ्र शाश्वत् सुखं भव्यानां शत्रुञ्जयं तीर्थं; कथा अत्र