________________ 142 शत्रुअय-कल्पवृत्ती त्यामिति तस्यां तु तदा सिंहगिरिर्गुरुः / अकस्मादाययौ भव्यान् तत्र बोधयितुं किल || गच्छन् धनगिरिर्भिक्षा-हेतोः पुरान्तरे तदा / गुरुणोक्तो लभेयास्त्वं यत्तन्नेयं त्वयाऽत्र हि // भ्रमन् धनगिरिः स्वीय-गेहे यदा ययौ क्रमात् / सुनन्दाऽवक् तदा पुत्रं त्वमात्मीयं गृहाण भोः ! / अनेन सू नुनाऽत्यन्तं रुदता करुणस्वरम् / विलक्षा विहिताहं तु ततोऽमुं लाहि नन्दनम् / / येन जाम्बुनदेनैव त्रुटयतः श्रवणौ लघु / तेन किं क्रियते सद्भिः वाञ्छद्भिर्हितमात्मनः / / जगौ धनगिरिमा सूनुं दत्से बलात्त्वकम् / पश्चाच्चेद्याचसे नैव दास्येऽहं तव निश्चितम् / / ततो धनगिरिः कृत्वा साक्षिणः श्रीगुरोर्वचः / स्मृत्वा झोल्यन्तरेऽक्षेप्सीत् तं शिशुं सुन्दराकृतिम् / / ददौ धनगिरिर्यावद् गुरवे तं सुतं मुदा / तावद्वमिवातीव भारं जज्ञो गुरुर्जगो॥ शिशोरस्याऽस्तु वनेति नाम भूरिभराद् द्रुतम् / तदा स रोदनाद्वालो निवृत्तो मुदितोऽभवत्॥ श्राद्धीपौषधशालायां शायितः पालने स च / स्तन्यपानप्रदानेन श्राद्धीभिः प्रविवद्धितः / / भक्त्या काचि द्वशा स्तन्यं कारयामास पालकम् / काचित् पर्यधापयेद्ववैर्वथै विलोचनाञ्जनात् / / साध्वीपु प्रपठन्तीषु तदाऽङ्गानि निरन्तरम् / वो जज्ञौ क्रमादेका-दशाङ्गी सूत्रतोऽर्थतः // " जले तैलं खले गुह्यं पात्रे दानं मनागपि / प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः / / 1 // " सुनन्दाऽभ्येत्य स्खं पुत्रं रमयन्ति लसगिरो। लातुं ववाञ्छ पश्चाच जगावेहि गृहे सुत ! / / ततो दिने दिने पुत्र गुरुसङ्घसमीपतः / सुनन्दा याचते सङ्घो न दत्ते तं शिशुं गुरुः / / ततो भूपान्तिके गत्वा सुनन्दा याचते सुतम् / सङ्घमाकार्य राजाऽवक पुत्रोऽस्यै दीयतां लघु / / सङ्घः प्राह रुदित्वाऽलं गुरुपार्वे स बालकः / समेतोऽतः कथं याति मातुः पार्वे नरेश्वर ! // यद्येति बालको मात्रा-ऽऽकारितो मातृसन्निधौ / तदा लातुं सुनन्दा तु पुत्रं नैवान्यथा नृप ! // ततो मोदकखजूर-खारिकासुखभक्षिकैः / स्थालं भृत्वा ययौ राज-पार्वे धनगिरिप्रिया // गुरवः सङ्घसंयुक्ता लात्वौघमुखवत्रिके / समेता भूपतेः पार्वे वनोऽप्यागाच्छिशुर्मुदा / मोदकादिषु वर्येपु वस्तुपु स्वान्तहारिपु / मात्रा मुक्तेषु गुरुणा स्ववेषो मुमुचेऽचिरात् / / शीर्षे कृत्वा यतेर्वे स बालो गुरुसन्निधौ / यदा ययौ तदा माता विखिन्नाऽभूत् स्वचेतसि // ततः सुनन्दया ध्यातं पतिपुत्रौ विनाऽधुना / किमु कालो मयाऽग्रे तु नेतव्यो नन्दनोत्तम ! // यतः- " पत्यौ मृतेऽपि या योषि-द्वैधव्यं पालयेत् कचित् / सा पुनः प्राप्य भतारं स्वर्गभोगान् समश्नुते // 1 // " स्त्रियाः कान्तः सुतो वाऽपि शरणं जायते खलु / अतोऽहं संयम सार्द्धं गृहीष्यामि व्रतं द्रुतम् / / ततो वो ललौ दीक्षा मात्रोऽमा गुरुसन्निधौ / यद्यद् शृणोति तत् तच्च समेति तस्य निश्चितम् // उक्तञ्च-"राखइ छविह जीवनिकाय जस दरसिण नासइ बहु पाप / जं जं श्रवणे सुणइ स बाल तं तं आवइ सम विचार // 1 // " एकाकी वसतौ वनः स्थितोऽन्येद्यगुरौ गते / अङ्गचिन्ताकृते चक्रे उपधीः संयतान् वरान् / / उच्चरेकादशाङ्गानि पाठयामास सादरम् / यदा तदा गुरुरि-देशे समोगमत् किल // उपधीः संयतान् विद्या पाठयन्तं प्रगल्भतः / क्षुल्लं वीक्ष्य गुरुश्चित्त चमत्कृति व्यधाद् दृढम् // आगतं स्वं गुरुं मत्वा वनस्तानुपधीः पृथग् / मत्वा स्वस्थानकेऽभ्येत्य लग्नः पठितुमादरात् / / एकादशाङ्गिनं वनं क्षुल्लं मत्वाऽन्यदा गुरुः / गच्छन्नन्यत्र शिष्याणां पुरतः प्रोक्तवानिति / / वाचनामेष वो वनो दास्यत्यङ्गस्य संयताः ! / ततस्ते गुरुणा प्रोक्तं प्रपेदे रुचितं मुदा / / तदा तथा समे वाचं-यमा वत्रेण पाठिताः / तथाऽतो मेनिरे षनः पाठकोऽयं वरोऽस्ति नः॥अरण्ये गच्छतोऽन्येद्यु-गुरोर्मध्यंदिने सति / देवतैका विकुयो सार्थमेत्य जगावदः // भगवन् ! विद्यतेऽस्माकं भिक्षा सुप्रासुका किल / तेन साधून विहां च प्रेषयन्तु गुरुत्तमाः!॥