________________ वज्रस्वामिसम्बन्धः श्राद्धानां प्रतिवोसरम् / उपद्रोतुं न शक्तोऽथ व्यन्तरः स दुराशयः // ततः श्राद्धेष्वभूच्छान्तिः क्लेशा नेशुर्दिशोदिशम् / पार्श्वनाथस्तवं शश्व-दद्यापि पठ्यते जनैः / / सोमचन्द्रनृपोऽन्येछु-र्गत्वा श्रीगुरुसन्निधौ / शत्रुजयस्य माहात्म्यं शृण्वानः प्रोक्तवानिति / / श्रीशत्रुञ्जयमाहात्म्यं ग्रन्थोऽयं विद्यते महान् / श्रोतुं न शक्यते तेन मयेदानी गुरूत्तम ! / अतः सिद्धान्ततः स्वामिन् ! संक्षिप्य सिद्धभूभृतः / कल्पं श्रावय मां मुक्ति-सातसन्ततिहेतवे // ततः कोटिमितश्लोक-सुन्दरसिद्धभूभृतः / कल्पश्चक्रे तदा भद्र-बाहुना गुरुणा महान् // तं कल्पं नृपतिः शृण्वन् श्रीमत् सिद्धमहीधरे / यात्रां विस्तरतश्चक्रे कल्याणसुखहेतवे / श्रीभद्रबाहुसूरीशः कल्पमन्यत्तदा लघु। लक्षत्रयमितश्लोकं रोचिष्णुः विदधे पुनः / / 116 / / इति भद्रबाहुरचितकल्पसम्बन्धः / वनस्वामिसम्बन्धः प्रोच्यते, तथाहि वर्ये तुम्बवने सन्नि-वेशे पृथ्वीविभूषणे / आसीद् धनगिरिश्रेष्ठी धर्मकर्मसु कर्मठः // क्रमात्तस्य सुनन्दायाः पत्न्या गर्भ शुभेऽहनि / देवो जृम्भकदेवेभ्य-अच्युत्वाऽवतीर्णवान् खलु // इतश्चासारसंसारं मत्वा सिंहगिरेगुरोः / लात्वा दीक्षां तपश्चक्रे पठन् धनगिरियतिः // गृह्णानः शुद्धमाहारं कुर्वाणो विनयं गुरोः / धर्मध्यानपरो लीनः सोऽभूत्तपसि सन्ततम् / / इतः सम्पूर्णमासेषु सुनन्दा सुषुवे सुतम् / माता जन्मोत्सवं सूनो-स्तस्य चक्रे स्वशक्तितः // तदा माता जगौ पुत्र ! यदि लाता पिता तव / न दीक्षां तु तदा जन्मोत्सवं ते कारयिष्यते / एकाकिनी गृहे मुक्ता पित्रा तव व्रतेच्छुना / अतस्त्वं नन्दनेदानीं सुखं तिष्ठ ममान्तिके / / गृहीतसंयम तातं मत्वा मातुः समीपतः / जातजातिस्मृतिः पाको दध्यावेवं निजे हृदि // मयो पूर्वभवे दीक्षां गृहीतुं वाञ्छताप्यहो / लातुं शक्तो न तेनात्र गृहीष्ये संयम ध्रुवम् // यदि मे जनकेनात्र गृहीतः संयमः खलु / अतो मयाऽपि लातव्या प्रव्रज्या सुखदायिनी // यतः-"भणाई (नेणीइ) बेटा ते संसारि जाइं जे बाप तणइ अणुसारि। निच्छद लेंइ संयमभारो इम चिंतह सो बाल कुंआरो॥१॥” विना न रोदनं मातुः पार्थान्नहि छुटिष्यते / अतो मम शिशोः श्रेयो रोदनं श्राग् भविष्यति / / अबलानां तु बालानां रोदनं जायते श्रिये / अनाथानां नृणां राजा शरणं गीयते बुधैः / / यत:-"हव मज्झ किमु मोकलिसे माए रोइ करी मेल्हावउं काए / मरु अनेरुं नथि विना ण रोवउ बाल. पणि प्राण // 1 // " ततो दिवानिशं बालो रुदन् बाढं कृपास्पदम् / मातरं रोदयामास पार्श्वस्थानपि मानवान् // क्षणमके क्षणं स्कन्धे क्षणं शीर्षे क्षणं कटौ / क्षणं पालनकेडोल्यां क्षणं लासि प्रसूस्तदा / वत्स ! वत्स ! चिरं जीव त्वं स्वामी मम निश्चितम् / रोदनात्तिष्ठ मे वाञ्छा पूरयाऽऽननदर्शनात् // यतः-" उपाध्यायं दशाचार्या आचार्याणां शतं पिता / सहस्र तु पितुर्माता गौरवेणातिरिच्यते // 1 // " आस्तन्यपानाज्जननी . पशूना-मादारलाभावधि चाधमानाम् / आगेहिकावधि मध्यमाना-माजीवितं तीर्थमिवोत्तमानाम् // एवं रुदति बाले तु तस्मिन् मासेषु षट् सु च / गतेषु जननी दुःखं प्राप्य मर्समना जगौ // यद्यस्य जनकोऽभ्येति तदा तस्मायमुं शिशुम् / वितीर्याहं सुखं स्यां हि यतोऽसौ मेऽस्ति दुखदः // वैरं वालयितुं सूनु-रेष मे समुपागमत् / यसो न रोदनादेव तस्थिवान् क्षणमेककम् // जल्प