________________ शत्रुञ्जय-कल्पवृत्ती काव्यं वराहस्य पुरो जगौ।। युस्मादृशाः कृपणकाः कृमयोऽपि यस्यां, भान्ति स्म सन्तमसमय्यगमन्निशाऽसौ। सूर्यांशुदिप्तदशदिगदिवसोऽधुनाऽयं, भात्यत्र नेन्दुरपि कीटमणे ! किमु त्वम् / / कीटमणिप्रभोऽहं तु जल्पितोऽनेन साम्प्रतम् / अतोऽस्य दीयते शिक्षा भूपपार्थान्मया द्रुतम् / / अत्रान्तरे समायातो भूपः प्राह बुधं प्रति / न शोकः क्रियते सद्भिर्यतोऽस्त्यशास्वतं जगत् / / अत्रान्तरे समायाताः श्राद्धाः प्रोचुरिदं स्फुटम् / अयं बालो गतो मृत्यु स्वल्पायुःकर्मयोगतः / / श्रुत्वेति भूपतिः प्राह भोः श्राद्धा ! यैर्गुरूत्तमैः / स्वल्पायुर्जल्पितं सत्यं जातं शिशोरिहाधुना / / तदा वराह आचष्ट बिलाड्या वदनाच्छिशोः / मृत्युरुक्तो गुरूत्तंसै-नहि तन्मिलितं किल / आकण्यैतद् गुरुस्तत्रा-भ्येत्येति प्रोक्तवान् स्फुटम् / अर्गलाया मुखे रूपं बिलाड्या विद्यते दृढम् / / तादृशीमर्गलां वीक्ष्य भूपोऽस्तावीद् गुरूत्तमम् / नेदृशं विद्यते ज्ञानं सत्यं सम्प्रति कुत्रचित् / / ततः सन्मानिताः श्रीमद्-गुरवो मेदिनीभुजा / यदा स्वस्थानके जग्मुः वराहोऽभूत्तदाऽसुखी // पुनर्दध्यौ वराहश्च कूटं गुरुममु द्रुतम् / करिष्यामि महीशस्य पुरोऽहं शुद्धजल्पनात् / / अन्येारात्ममाहात्म्यख्यापनाय नृपाग्रतः / वराहेणोदितं पश्चा-द्यामेऽद्य दिवसस्य तु / / अकस्मादागते मेघे वप्रस्य पूर्वगोपुरे / निम्बस्य पूर्वशाखायो मध्ये मत्स्यः पतिष्यति ॥युग्मम् // द्विपञ्चाशत्पलमितो गौरवर्णश्चतुर्मुखः। तोलितो निश्चितं भावी सत्यमेतद्वचो मम // श्रुत्वैतद् गुरुणाऽज्ञापि नृपः श्रावकवक्त्रतः / दक्षिणस्यां दिशि श्याम-वर्णः श्वेतमुखच्छविः।। एकनेत्रो द्विवक्त्रश्च पश्चाशत्पलसम्मितः। निम्बस्य याम्यशाखायां पतिष्यति बहिस्तटे॥युग्मम्।। द्वयोः सत्यवचो ज्ञातुं भूपस्तत्रैत्य तदिने / गुरूक्तं पतितं मत्स्य-मपश्यन्मुमुदे ततः // ततोऽपि हसितः सर्वै-वराहः खिन्नमानसः / गत्वा निजालये तस्थौ नाऽऽस्यं कस्याप्यदर्शयत् / / यतः-"माणे पणदुइ जइवि न तणु तो देसगचइज्ज मा दुजणकरपल्लवहिं दसिज्जतु भमिज्ज / / 1 / / तावदाऽऽश्रीयते लक्ष्मीस्तावदस्य स्थिरं यशः / पुरुषस्तावदेवासो यावन्मानान्न हीयते / / 2 / / " राज्ञा जने वृषे तत्र प्रतिपन्ने सति ध्रुवम् / दीक्षां भागवतीमादा-द्वराहः कलुषाशयः / / जिनेन्द्रधर्मविद्विष्टो वराहो मृत्युमागतः / व्यन्तरोऽभूत्ततो द्वेषात् साधुष्बासीद्विशेषतः / / तपस्यतां तु साधूनां विघ्नं कर्तुमशक्नुवन् / व्यन्तरो विदधे मारिं श्राद्धेषु दुष्टमानसः // ततः श्राद्वैरुपेयोक्तं भद्रबाहुर्गुरोः पुरः। कोऽपि देवोऽथवा दैत्यो विघ्नं च कुरुते सदा / / भवोदृशेषु गुरुपु सत्सु पीडा गुरूत्तम ! / कथं विधीयते दुटै-य॑न्तरादिसुररिह // कुम्भिकन्धाधिरूढः किं भक्ष्यते भषणैः पुमान् ? / जलमध्यस्थितो मर्त्यः सिंहेन भक्ष्यते किमु ? // घृक्षशाखास्थितो ना स्त्री भक्ष्यते हरिणा किमु ? / जीवतोऽहेः शिरःस्थं कि रत्नं गृह्येत मानवैः ? // गुरुरोह घरोहः स मृत्वाऽभूद् व्यन्तरोऽधुना / विघ्नं कुर्वन्नसावस्ति भवतां साम्प्रतं सदा / / यूयं मा भैषुः सोऽहाय मया निषित्स्यते सुरः / पापी याति स्वयं मृत्यु-लोकं स्वतमसा किल || उपसर्गहरं स्तोत्रं पार्थाहद्गुणगुम्फितम् / कुत्वा गुरुः प्रदायावा श्रीसङ्घ प्रति सादरम् / / इदं पार्श्वस्तवं यस्तु जपिण्यति नरः सदा / उपद्रोतुं न शक्तः स तं नरं कचिदेव तु // तच्चेदं स्तोत्रम्-" उवसग्गहरं पासं पासं वदामि कम्मघणमुक्कं / विसहरविसनिन्नासं मंगल-कल्लाण आवासं // 1 // विसहरफुलिंगमंतं कंठे धारे जो सया मणुओ। तस्स गहरोगमारि-दुद्वजरा जंति उवसामं / / 2 // चिटुउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ / नरतिरिएसुवि जीवो पावंति न दुक्खदोगच्चं / / 3 // तुह सम्मत्ते लद्धे चिंतामणिकप्पपायवब्भहिए / पावंति अविग्घेणं जीवा अयरामरं ठाणं // 4 // इय संथुओ महायस ! भत्तिभर• निम्भरेण हियएण | तो देव ! दिज बोहिं भवे भवे पोसजिणचंद ! // 5 // " अमुं पपठतां स्तोत्र