________________ भद्रबाहुरचितकल्पसम्बन्धः पतिम् / जितशत्रुमहीशेन रजितेन पुरोहितः। वराहमिहिरश्चक्रे सर्वसेवकसाक्षिकम् / / यतः-" गौरवाय गुणा एव न तु ज्ञातेयडम्बरः / वानेयं गृह्यते पुष्प-मङ्गजस्त्यज्यते मलः // 1 // " वहारमिहिरस्यैक कलाकुशलता तदा / वीक्ष्य लोका जगुर्विद्वा-नेष एवापरो न हि // अमी श्वेताम्बरा काका इव जल्पन्ति किं पुनः / मक्षिकावद्भणभणा-यमानाः प्रवदन्ति च / / कारास्था इव कालं तु कुचेलाः क्षपयन्ति हि / श्वेताम्बरा अमी नित्यं मलक्लिन्नकलेवराः // श्वेताम्बरावहीलां तु श्राद्धानां शृण्वतां तदा / शिरःशूलं समुत्पेदे दुःखमासीच्च चेतसि // मिलित्वा श्रावका एक-स्थाने विचार्य वेगतः / भद्रबाहुं गुरूत्तंसमाह्वयामासुरञ्जसा / / श्रीभद्रबाहुगुरवो यदाऽऽयुः तत्र सूत्सवम् / तदा श्राद्धाः समाजग्मु-धर्मं श्रोतुं सुभावतः॥ यतः- “धम्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः / रोज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत् किं यन्न करोति किं च कुरुते स्वर्गापवर्गावपि / / 1 // " गुरूणां महिमानं च जायमानं निरन्तरम् / वराहमिहिरो दृष्ट्वा बाढं मम्लौ स्वचेतसि // घराहमिहिरो नाप-कर्तुं शशाक तेष्वथ / ततः सर्वत्र विद्वत्त्व-ख्यातिरासीद् गुरोस्तदा / अत्रान्तरे वराहस्य जाते पुत्रे सति क्रमात् / वराहो व्यययामास धनं तस्य जनुर्महे // लोका वर्धापनं तस्य गेहेऽभ्येत्य वितन्वते / वराहो जन्मपत्री तु चकार सुतजन्मनि // आयुर्वर्षशतं मासाः पञ्च घस्राश्चतुर्दश / घटयः पञ्चदशास्यैव भविष्यन्ति सुतस्य तु / / एवं तेन वराहेण भूपादीनां नृणां पुरः। आयुः प्रघोषितं सूनोः स्वस्य ख्यातिरभूत्ततः।। एकदाऽवग् वराहः क्षमा-पतेः संसदि संस्थितः। जगौ सहोदरा एव बाह्या न स्वाः कदाचन // श्रुत्वैतच्छावका एत्य गुरूपान्ते जगुः स्फुटम् / गुरुराचष्ट तं केशकर्ता वारद्वयोगमे / / सप्तमे दिवसे रात्रौ बिलाडिकाननाद् ध्रुवम् / मरिष्यति यदा तत्र तदाऽस्माभिर्गमिष्यते / इयं वार्ता क्रमाद्भमिपतेरऽभवद्यदा / तदा राजा जगौ कस्य सत्यं कूटं भविष्यति / / वराहः प्रोक्तवान् कूटं जल्पन्निति सिताम्बरः / भविष्यति मया प्रोक्त-मायुः सूनोर्ममैव तु // आगते सप्तमे घने सप्तमन्दिरमध्यतः / निष्कासितास्तु मार्जार्यः सर्वाः स्वस्वालयावधि / / बालं पाययितुं स्तन्यं धात्री यावदुपाविशत् / तावद् द्वारार्गला सूनोर्मस्तके न्यपतद् दृढम् // ततो मृते सुते गेहे वराहस्याभिरुद्यते / मित्रादिभिभृशं तार-स्वरं दुःखेन पूरिते // वराहसदने शोको-पनोदाय नरादिषु / गच्छत्सु भद्रबाहुस्तु गत्वेति प्रोक्तवाँस्तदा / / जोतस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च / तस्मादपरिहारार्थे का तत्र परिदेवना / / संयोगाः स्युर्वियोगन्तिा विपत्सीमाश्च सम्पदः / स्यादानन्दो विषादान्तो जन्मापि मरणोन्तिकम् / माता पिता भैषजमिष्टदेवो, विद्या प्रिया नन्दनबान्धवाश्च / गजाश्वभृत्या बल पद्मवासे नेशा जना रक्षितु मन्तकाले // ततो भूपादिलोकेषु जल्पत्सु सर्वतस्तदा / वराहजल्पितं कूटं बभूव निखिलं ध्रुवम् // आकर्येति विखिन्नः सन् वराहः पुस्तकं समम् / यावन्नीरेऽक्षिपत्ताव-द्धात्रा हस्तधृतः करः। उक्तश्चात्मप्रमादेन त्वया श्रीगुरुसन्निधौ / पेठे शास्त्रं विना भक्तिं ततोऽसत्यं वचस्तव // यतः-" अमन्त्रमक्षरं नास्ति नास्तिमूलमनौषधम् / अनाथाः पृथिवी नास्ति आम्नायाः खलु दुर्लभाः // 1 / / प्रतिपच्चन्द्रं सुरभी नकुला नकुलीं पयश्च कलहंसः। चित्रकवल्ली पक्षी सूक्ष्मं धर्मं सुधीर्वेत्ति // 2 // प्रभुप्रसादस्तारुण्यं विभवो रूपमन्वयः / शोर्यं पाण्डित्यमित्येत-दमद्यं मदकारणम् // 3 // " सत्यानि पुस्तकान्येव सन्ति सत्या 'मतिः पुनः / अतो न पुस्तकं क्षेप्यं सलिले भवताऽधुना // निषिद्धः सोदरेणाथ वराहमिहिरस्तदा / यावद्गले शयं दत्त्वा तस्थिवान् दीनमानसः // अत्रान्तरे वराहेण गर्हितः श्रावकः पुरा / अन्योक्तिगर्भिसं