________________ ज्वलनोपशमे विद्याधरकथा उज्जयिन्यां पुरि कन्दर्प-राज्ञः प्रभावती प्रियो / श्रीमती तनया चासीत् रूपनिजितनिर्जरी // सभायामन्यदा भूप उपविष्टोऽनुगान् जगौ / भवतां सम्पदः कस्य प्रभावादभवन् खलु // तेऽप्यूचुस्त्वत्प्रभावेणा-स्माकं स्युः सदने श्रियः / श्रीमत्याहाऽनुगा एते तव मायाविनः पितः ! // यतः-“ सर्वेषां देहिनां पूर्व-कृतात् कर्मसमूहतः / शुभाशुभानि जायन्ते नोन्यत् पित्रादि कर्हि चित् // 1 // " सुखदुःखानां कर्ता हर्ता च न कोऽपि कस्यचिजन्तोः / इति चिन्तय सबुद्धथा पुराकृतं भुज्यते कर्म // धनदो धनमिच्छूना कामदः काममिच्छताम् / धर्म एवापवर्गस्य पारम्पर्येण साधकः // तत्र रुष्टो नृपस्तत्रा-गतं कुष्ठिनरं द्रुतम् / दृष्ट्वा तस्मै ददौ पुत्री जीर्णवस्त्रादिभूषिताम् // नीत्वा च स नरः पुर्या बहिस्तृणकुटीरके / कन्यां प्रति जगौ भद्रे ! गच्छ त्वं स्वपितुर्गहे / / अहं पूर्वकृतं दुष्ट-कर्म भुञ्जन्निहाधुना / अस्मि त्वं तु कथं पृष्ठौ मम लग्नासि भद्रके ! // अहं कुष्ठी महीपाल-पुत्री त्वं चारुरूपभृत् / तेनातो गच्छ भोक्ष्येऽहं स्वकृतं कर्म साम्प्रतम् // कन्यो कर्णौ पिधायावक् स्वामिन् ! न्यायमयं (च्युतं) वचः।मा जल्पाहं न मुश्चे त्वं जीवितव्यात्ययेऽपि हि / / इत्युक्त्वा श्रीमती सुप्ता यावत्तावत्क्षणात् पुनः / उन्निद्रा रैमयं स्फारमपश्यन्मन्दिरं वरम् // माणिक्यमयपल्यङ्के स्थितं स्वं विरुजं पतिम् / दृष्ट्वा सा प्राह किमिदं वीक्ष्यते सद्गृहादिकम् ? // ततः स मानवोऽभाणीत् साहसं चेदृशं तव / यत्त्वया जल्पितो धर्म-मार्ग एव यदि ध्रुवम् / / वैताट्याद्रौ पुरे व्योम-वल्लभे श्रीप्रभः खगः / रात्रौ छन्नं भ्रमन् कस्य-चिदास्यादिदमशृणोत् // सर्वत्र वायसाः कृष्णाः सर्वत्र हारिताः शुकाः / सर्वत्र सुखिनो सौख्यं दुःखं सर्वत्र दुःखिनाम् / / आकर्यैतदहं श्लोक-परिज्ञानकृतेऽधुना। न्यस्य मन्त्रिषु राज्यं तु भ्रमितुं निर्गतः पुरात् // कुष्ठिरूपं विधायाहं भ्रमन्नहं क्षितौ क्रमात् / आगात्तव पितुः पुर्या त्वत्पित्रा त्वं ददे मम // प्रातर्भूपादयो लोकाः समेत्य नगरादहिः / स्मरोपमं सुताकान्तं निरीक्ष्योचुः परस्परम् // धर्म एव सुखं दत्ते दुःखं दुष्कृतमेव तु / यतो वरं वरं प्राप श्रीमती धर्मजल्पनात् // धर्मादेव सुखं जीवाः प्राप्नुवन्तीति सर्वतः। जल्पन् भूपो गजारूढं जामातरं सुतान्वितम् // दददानं सुपात्राय पञ्चशब्दपुरस्सरं / निजावासे समानीय सच्चक्रे स्वन्नदानतः / / राजा पुत्रीमुखाच्छ्रुत्वा जामातुश्चरितं तदा / भक्त्या गौरवयामात्र गजाश्वादिप्रदानतः / / ततो विद्याधरः पत्नी-युक्तः स्वकीयमन्दिरे / समेत्य श्रीजिनप्रोक्तं धर्म वितनुतेतराम् // यतः-"परीक्ष्य सुकुलं विद्या शीलं शोर्य सुरूपताम् / विधिर्ददाति निपुणं कन्या राज्यं दरिद्रताम् / / 1 / / " प्रदीपनेऽन्यदो लग्ने श्रीप्रभो गगनेचरः। ध्यानं शत्रुञ्जयस्याधाद् भूरिलोकसमन्वितः // तदा प्रदीपनं प्रायो प्रशम तीर्थसंस्मृतेः / ततो जयजयोरावः सर्वत्राभूत् पुरान्तरे // ततो विमानमारूढो गत्वा शत्रुञ्जयाचले / अर्चयन् श्रीयुगादीशं श्रीप्रभो व्योमगो मुदा / / सोऽपि विद्याधरः प्राप्य क्रमात् संयममादरात् / क्षीणका ययौ मुक्तिनगर्या विदधत्तपः // 29 // इति ज्वलनोपशमे विद्याधरकथा / तामलिप्तीपुरे सोमोऽन्यदा मित्रेण संयुतः / जगौ न शोभते लक्ष्मी विना वयतनुर्नरः / / " यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः / स एव वक्तो स च दर्शनीयः, सर्वे