________________ 132 शत्रुञ्जय-कल्पवृत्ती गुणाः काञ्चनमाश्रयन्ते // 1 // जाइ रूवं विज्जा तिन्नि निवडंतु कंदरे विवरे / अत्थुच्चिय परिवुड्ढउ जेण गुणा पायडा हुंति // 2 // " विमृश्येति ततः सोमो मित्रयुग वाढिवर्त्मना / ययौ मनोहरद्वीपे पद्मोपार्जनहेतवे। षष्टिलक्षमितं हेमो-पाय॑ जलधिवर्त्मना / चलमानस्य पाथोधि-रुत्कल्लोलोऽजनि भृशम् / / भज्यमाने तदा यान-पात्रे श्रेष्ठी जनान्वितः / ध्यानं कुर्वन्नभूच्छत्रु-अयस्यैकाग्रचेतसा // तदाऽकस्माच्छुभे वाते समायाते पयोनिधौ। यानं सरलमार्गेण चलन् वार्द्धस्तटे ययौ // यतः-" यत्नः कामार्थयशसां कृतोऽपि निष्फलो भवेत् / धर्मकर्मसमारम्भ-सङ्कल्पोऽपि न निष्फलः // 1 // " यावच्चित्तं च वित्तं च यावदुत्सहते मनः / तावदात्महितं कार्य धर्मस्य त्वरिता गतिः // प्रास्त्रादप्रतिमा यात्रा प्रतिष्ठा च प्रभावना / अमायुद्घोषणादीनि महापुण्यानि देहिनाम् / ततः सोमो जिनागारं स्फारं कारयितुं वरम् / पुरोद्याने ललौ भूमी याचित्वा भूपपार्वतः // आनायिता वराइमानः शिलावट्टाश्च पण्डिताः / मुहूर्त रुचिरे सार्वा-गारं तेन विधायितुम् / / उच्चैः कृत्वा शीलामर्द्ध-स्फाटितां कीलिकान्तिके / अवष्टभ्य शिलावट्टा ययुर्जेमनहेतवे // अत्रान्तरे समायातं कपियूथं परिभ्रमन् / क्रीडां वितनुते सर्व-प्रस्तरेषु पृथक् पृथग / / तत्रैको वानरो बाल-भावेन कीलकं हठात् / कर्षयन् वृद्धकपिना वारितोऽपि च न स्थितः!। कीलके चलितेऽकस्मा-त्तदोऽधो वानरः स्थितः / पतन्या शिलया क्षिप्तो ययौ यमनिकेतनम् // तदेकेन समेतेन वानरेणेति प्रजल्पितम् / अव्यापारेपु कुर्वाणो व्यापारं मरणं व्रजेत् // यतः-'अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति / स एव निधनं याति कीलोत्पाटी च वानरः // कारयामास सम्पूर्ण प्रासाद श्रेष्ठिराट् तदा / ततस्तत्रादिदेवस्य बिम्बमस्थापयन्मुदा // शत्रुञ्जयगिरेानात् वारान् द्वादश वारिधौ / उपाय॑ द्रविणं भूरि श्रेष्ठी स्वगृहमीयिवान् / / सप्तक्षेत्रेषु भूयिष्ठां व्ययल्लक्ष्मी निरन्तरम् / क्षीणकर्मा ययौ मुक्तिं सोमः श्रेष्ठीश्वरः क्रमात् // 21 // इति जलधिसमुत्तरणे कथा / तामलिप्त्यां पुरि क्षमापो मित्रसेनोऽभवन्नयी / सुमित्रः सचिवश्वासी-च्चञ्चद्वद्धिनिकेतनम् / / तत्रोद्यानेऽन्यदा धर्म-सेनसूरिक्रमाम्बुजम् / नन्तुं नृपो गतो धम॑ शुश्रावेति कृतादरः / / आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् / धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः / / मिथ्यात्वं सर्वथा हेयं धर्मं वर्धयता सता / विरोधो हि तयोर्बाढं मृत्युजीवितयोरिव // भावेन क्रियते धम्मों येन स्वहितमिच्छुना / स एव लभते खर्गा-पवर्गसम्पदः क्रमात् / / भावेन दानपुण्यादि क्रियमाणं शरीरिभिः / राज्यस्वर्गादिसातानि ददते नात्र संशयः // राजा प्राहान्तरं भावाऽभावयोर्जायते कथम् / गुरुराह पुरे कान्य-कुब्जे सुरपुरोपमः // विद्यते निधिदेवश्च भोगदेवश्च नैगमौ / तयोविद्धि स्वरूपं तु सद्भावाऽभावयोः किल / / युग्मम् // कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोलोमतः, पङ्कात्तामरसं शशाङ्क उधेरिन्दीवरं गोमयात् / काष्ठादग्निरहेः फणादपि मणिगोंपित्ततो रोचना, प्राकोश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना // ततो महीभुजा प्रेषि सुमित्रः सचिवेश्वरः / कान्यकुब्जपुरे ज्ञातुं तयोः स्वरूप