________________ 130 शत्रुञ्जय-कल्पवृत्ती " राजा यतिः सुहृद्वेश्या कुमारी वरवर्णिनी / दधिचन्दनर्वे च गजाश्वसुरभीवृषाः // 1 // " मद्यं मांसं मधुछत्रे चामराक्षतदर्पणाः / गोरोचनो लतापुष्पं वस्त्रालङ्करणानि च // रूप्यताम्रमणिस्वर्णप्रतिमा गोमयं ध्वजः / मृत्तिका शस्त्रशाकोनि घृतमीनप्रदीपकाः // फलं वर्धापणं वीणा पङ्कजानि नृपासनम् / दृष्ट्वैतानि नरः कुर्याद् दक्षिणेन प्रमोदितः / / चीवरी दक्षिणे कांगा दक्षिणे वृद्धतित्तिरः / लघु. विनायको वामो मृगः प्रातः प्रदक्षिणा // एकांगकौशिको वामः शृगालीनिनदस्तथा। हनुमान् दक्षिणकांगे विचार्य परिगृह्यते // ततः पश्चात् समागच्छन् जिनावासे मरुद्रवम् / श्रुत्वाऽभ्येत्य जिनं नत्वा यावत् स न्यविशन् मुदा / तावद्देवद्वयं स्वर्गा-दागत्य पुरतोऽर्हतः। नृत्यं कुर्वन् निरीक्ष्यावग् भूपभूः संयतं प्रति // एको देवः कथं वर्य-रूपवानपरः पुनः / हीनरूपोऽल्पऋद्धिश्च दृश्यते कारणं किमु ? / / अनेन मरुता दानं सुपात्राय ददे पुरा / अतोऽस्य रुचिरं रूपं समृद्धिश्च पराऽभवत् / / द्वितीयेन कुपात्राय दानं विश्राणितं ननु / अतोऽन्यस्याधमं रूपं स्वल्पर्द्धिरभवत्पुनः // कुमारोऽवग् मया प्रायः सुपात्राय मुनीश्वर ! / देयं दानं यथाशक्ति कुपात्राय कदापि न // यतः--" अभयं सुपत्तदाणं अनुकंपा उचिय कित्तिदाणं च / दोहि वि मुक्खो भणिओ तिन्नि वि भोगाइयं दिति / / 1 // " प्रातर्गृहे व्रजन् शेष-बन्धु भिर्हसितस्तदा / कुमारो न रुषं चक्रे प्रमोदं न हि चेतसि // इतः कोर्पटिकः कश्चित् राजद्वारे जगावदः / मुषितो वसति ग्रामे ततो जगौ महीपतिः / / किं गतं ते स च प्रोह वार्डों द्वादशवारकान् / गतोऽहं मेऽभवद्रत्न-चतुष्कं विलसद्युति / / रत्नकोटिचतुष्केण लभ्यते तन्न केनचित् / वंशजाल्यन्तरेऽमोचि तदद्य दिवसात्यये / / तत् कोऽपि मनुजो रत्न-चतुष्कं दिवसात्यये / लात्वा ययौ ततः सद्यो वाल्यतां 'मेदिनीपते ! / / ततश्च दापितो भूमि-भुजेति पटहः पुरे / येनात्तान्यस्य रत्नानि चौरदण्डोऽस्तु तस्य तु / / तदा मीनध्वजो रत्न-चतुष्कं तन्महीभुजे। दत्त्वा प्राहास्य माणिक्य-चतुष्कं विद्यते पितः!॥ ततो रुष्टेन भूपेन वधाय चालितो द्रुतम् / कुमारस्तातमानम्य हृष्टोऽचालीच्च भूपतिम् // प्रत्यक्षीभूय देवेन तदेति गदितं किल / पुण्यवानेष ते पुत्रः त्वं धन्योऽसि नरेश्वर ! // सत्यवादी नृरत्नं तु पितृभक्तो दृढं पुनः / असौ तव सतः श्लोध्यो विद्यते मरुतामपि / / मया वंशावलीमध्ये मुक्त्वा रत्नचतुष्टयम् / परीक्षितोऽस्ति ते पुत्रो नृरूपेण मयाऽधुनो।अहमादिदिवोऽत्रागा तव पुत्रं परीक्षितुम् / मीनध्वजाय दातव्यं राज्यं त्वया नरोधिप ! // ततो राज्यं महीपालो मृग (मीन) ध्वजाय सूनवे / दत्त्वा लात्वा व्रतं स्वर्गे चतुर्थे समुपेयिवान् // तस्मिन् पुरेऽभितोऽन्येा-र्नदीपूरेण भूयसा // वेष्टिते जीविताशायां सन्देहे पतिता जनाः // तदो भूपः पुरीलोक-युतः सिद्धाचलं हृदि / ध्यायन्नेकाग्रचित्तोऽभू-जल्पंश्च सिद्धपर्वतम् // ततो वंशस्थलीभूतः प्रवाहः सरितोऽचिरात् / अभूजयजयारावः सर्वत्र नगरेऽभितः // ततो मीनध्वजो भूरि-सङ्घलोकसमन्वितः / यात्रां शत्रुञ्जये चक्रे जिनेन्द्राणां नतिं पुनः // क्रमाच्छत्रुञ्जयध्यानात् कृत्वा कर्मक्षयं लघु / तस्मिन्नेव भवे मीनध्वजो मुक्तिं समीयिवान् // 42 / / इति जलोपसर्गनिवारणे मीनध्वजभूपकथा /