________________ 124 शत्रुञ्जय-कल्पवृत्ती सद्मसु / कुर्वन् पूजोत्सवं शत्रु-जयोपान्ते स ईयिवान् // तत्र स्नात्रोत्सवं कुर्वन् ददद्दानमनर्गलम् / आरुरोह शिवक्षोणी-धरस्योर्ध्वं स सघयुग / / तत्रादौ ऋषभस्यार्चा कृत्वातिविस्तरात् स च / प्रभोः पादुकापूजां च चक्रे प्रियालुपादपे // ततोऽन्येषु जिनौकस्सु जिनानामर्चनं व्यधात् / ततोऽनु ज्ञो जिनस्याचा कृत्वा मृगपरिधापनम् / / भूरिधनव्ययाचक्रे तत आरात्रिकं पुनः / ततो मङ्गलदीपं च भावपूजां व्यधात्ततः // युग्मम् / / ततो रैवतके क्ष्माभ्रे नेमि नत्वाऽतिविस्तरात् / समेत्य स्वपुरे चागात् निःपुण्यको वणिग्वरः / / स्वपुत्राय वितीयौँको-भारं लात्वा व्रतं मुदा / शत्रुञ्जये समायातो निःपुण्यकयतिस्ततः। तत्र क्षिप्त्वाऽखिलं कर्म लक्षसाधुसमन्वितः। लात्वा व्रतं ययौ मुक्ति-नगाँ सुन्दरेऽहनि / / यदा मुक्तिपुरी यातो निःपुण्यकयतिः किल / बदा जगुर्जना एष सुपुण्योऽजनि साम्प्रतम् // 84 // इति तिरश्चामपि मुक्तिगमने निःपुण्यककथा // जस्स सयाऽऽईकप्पे वक्खाए झाइए सुए सरिए / होइ सिवं तइयभवे तं सित्तुंजय महतित्थं // 36 // _ 'यस्य' शत्रुञ्जयस्य ‘सया' सदा 'आइकप्पे' आदिकल्पे-सर्वकल्पमुख्ये 'व्याख्याते विस्तरात् ध्याते शुद्धमनसा 'श्रुते ' कर्णाभ्यां -- सरिए ' स्मृते उपयोगादिना 'होइ' भवति ‘शिवं ' मुक्तिा, अर्थात् पुरुषस्य स्त्रियो वा तृतीयभवे, तत् शत्रुञ्जयाख्यं महातीर्थ जयताच्चिरम् / तथाहि पद्माकरपुरे चैत्र-पुत्री मनोहराभिधा / विज्ञा दरिद्रिणं चैकं नरं वीक्ष्य जगावदः // कि नास्ति सदने तेऽथ कोकिण्येकापि नैगम! / दरिया हैकया किं स्यात् काकिण्योदरपूर्तये ? // यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते / / तावन्माता पिता तावत तावत् सर्वेऽपि बान्धवाः / तावद्भार्याः सदा हृष्टा यावल्लक्ष्मीप्रेहे स्थिरा // मनोहरा जगावेका यदि स्यात् काकिणी गृहे / तदा भवति दारिद्रयं (किं) नरस्य स्त्रियोऽथवा ? / / दरिद्री प्रोक्तवान् प्रोयो धनवान् मानवो नृपः / न वेत्ति वेदनामन्य-सत्कां दारिद्रयसम्भवाम् // यतः" लक्ष्मीवन्तो न जानन्ते प्रायेण परवेदनाम् / शेषे धराभराक्रान्ते शेते लक्ष्मीपतिः स्वयम् // 1 // " भक्ते द्वेषो जड़े प्रीति-ररुचिर्गुरुलधनम् / मुखे कटुकताऽत्यन्तं धनिनां वरिणामिव // श्रुत्वैतद् भूपतिइछन्नं भीमोऽन्येधुर्मनोरमाम् / परिणीय निजावासेऽनैषीत् परीक्षणाकृते // अन्येधुनिशि भूपाल: पत्न्या वस्त्राञ्चले रहः / बध्वैकां काकिणीमन्य-स्थाने सद्यः समीयिवान् // विनिद्रा वसनप्रान्ते बद्धा चैकां च काकिणीम् / दृष्ट्वा मनोरमा दध्यौ दरिद्रयाग्रे पुरा हि यः // काकिण्यो अर्जनोदन्तः सोऽश्रावि भू भुजा कचित् / तेन कुर्वे निजप्रोक्तं सफलं द्रविणार्जनात् / / युग्मम् // लात्वा तां काकिणां छन् निर्गत्य नगरात्ततः / मनोरमा ययौ लक्ष्मी-पुरे मालिकमन्दिरे // काकिण्या पश्च पुष्पाणि लात्वा सा मालिकाकृतिः / गत्वा राज्य ददौ राज्ञी हृष्टाउदात् टङ्ककाष्टकम् // तैः टक्कैः कुसुमानि लात्वा (न्यस्वा) कृत्वा चरणकं च सा / राज्य पुनर्ददौ हृष्टा राज्ञी टङ्कशतं तदा / ततः पुष्पाणि तैर्टकैलात्वा सा नर. रूपभूत् / पुरसृष्टिं व्यधाद् भूप-महेभ्यावाससुन्दराम् // पुरःसृष्टिं तु भूपाय प्राभूतीकृतवान् स /