________________ तिरश्चामपि मुक्तिगमने नि:पुण्यककथा 123 द्वीपे गते याने वरेऽहनि / दध्यौ निःपुण्यको भाग्यं ममाद्योद्घटितं ध्रुवम् // न भग्नं वहनं मय्यारूढे सति पयोनिधौ। तन्नूनं विद्यते भाग्यं मदीयमिह साम्प्रतम् / / यदि वाऽहं विधेरत्रे-दानी विस्मृत एव तु / चलनावसरे क्षेमाद् गम्यते चेत्तदा वरम् / / यानेश्वरोऽथ विक्रीय क्रयाणं स्वं च तत्रजम् / लात्वा पयोधिमार्गेण चचले स्वपुरं प्रति // चलमानस्य यानस्य प्रचण्डपवनाहतम् / आस्फाल्य पर्वते भग्नं पर्पटौघ इवाचिरात् / / दैवान्निष्पुण्यकः प्राप्त-फलकोऽम्भोनिधेस्तटे / गत्वा चन्द्रपुराधीश-भीमस्य सेवते क्रमौ / / तदा तत्रागता धाटी लुण्टयन्ती च तत्पुरम् / जघान ठकुरं भीमं धृतो निःपुण्यकः पुनः / / धाटीश्वरो निजे ग्रामे गतो यावन्निशि ध्रुवम् / तावदग्धं गृहं तस्य भूरिलक्ष्मीसमन्वितम् // द्वितीये दिवसे गोषु चालितेषु स पल्लिपः / रिपुपृष्ठौ व्रजन् - द्विभियुध्यन् नीतो यमालयम् // ततो निःपुण्यको ह्येष कृत्वेति पल्लिमानवैः / निष्काशितो गतोऽन्यत्र विषये दुःखिताशयः // तत्रैकस्मिन् मरुद्गेहे कुर्वन् क्षपणमन्वहम् / प्रमार्जयन् मरुत्सद्म यक्षं लक्ष्मी स याचते / / क्षपणैरेकविंशत्या तुष्टो यक्षो जगावदः / प्रगे यो रैमयूरस्तु मत्पुरो नृत्यति स्फुटम् / / नृत्यान्ते स्वर्णपिच्छं तु मुश्चत्येकं प्रगे प्रगे / तच्च त्वया गृहीतव्यं निःपुण्यक ! निरन्तरम् // ततः प्रतिदिनं प्रातरेकं पिच्छं च रैमयम् / मयूरात्पतितं गृहन् शतमेकमलाच्च सः॥ निःपुण्यकोऽन्यदा दध्यौ कोऽत्र नित्यं समेष्यति / एकमुष्टयैव सर्वाणि स्वर्णपिच्छोनि लाम्यहम् / / विमृश्येति गृहीतुं स तानि यावत् समुत्थितः / तावत्केकी द्विकीभूत उड्डीय क्वचिदीयिवान् / त्वरितं स्वगृहे गत्वा पिच्छानि योवदीक्षते / तावत्काकस्य पिच्छानि वीक्ष्य खिन्नोऽभवच्च सः॥ यतः-" दैवमुल्लङ्घय यत्कार्य क्रियते फलवन्न तत् / सरोम्भश्चातकेनाऽऽत्तं गलरन्ध्रेण गच्छति // 1 // " निर्भाग्योऽहमिति ध्याय-स्ततो निःपुण्यको व्रजन् / दृष्ट्वकं ज्ञानिनं साधुं नत्वाऽप्राक्षीत् कृताञ्जलिः / / मयो किं विहितं कर्म प्राग्भवे येन कर्मणा / दुःखितोऽहमभूवं तु भृशं ततोऽगदन् मुनिः॥ काकिणीनां सहस्रं तु जिनेशद्रव्यमध्यतः / क्रय-विक्रयतो लातं त्वया नालोचि तत्तदा // कुर्वन् देवगृहे कर्म स्वयमेव निरन्तरम् / दीनारान् कोटिमेकां तु वालय त्वं वणिग्यदि // तदा तव ततो देव-द्रव्यात् स्याच्छुट्टनं द्रुतम् / श्रुत्वेति स जितावासे कर्म चक्रे तथाऽऽदरात् // यथाऽभवदृणाभावो देवद्रव्यस्य तस्य तु / ततो निःपुण्यकश्चक्रे व्यवसायं नयात्तथा / / क्रमालक्षत्रयी हेम्ना जाता तस्य निकेतने / ततश्चक्रे विशेषेण देवद्रव्यस्य रक्षणम् / / ततो लक्षद्वयेनैकं जिनागारं महत्तमम् / स तत्र कारयामास शान्तेर्बिम्बं प्रातिष्ठिपत् // ततो दिने दिने लक्ष्मी-वर्द्धमाना तदालये / हेमकोटयष्टकमिता बभूव पुण्ययोगतः // सारां जिनौकसां कुर्वन् कारयन्ननुमोदयन् / वर्द्धयामास देवस्य द्रव्यं देवधनावनात् // त्रिसन्ध्यं जिननाथस्य पूजां कुर्वन् वरैः सुमैः / निःपुण्यकोऽर्जयामास भूरिपुण्यं शिवप्रदम् // अन्यदा श्रीगुरूपान्ते गतो निःपुण्यको वणिम् / शत्रुअयस्य माहात्म्यं शुश्रावेति कृतादरम् / / प्राणिभिर्य समोरूढ-लोकाग्रमधिरुह्यते / प्राप्यते स गिरिः शत्र-अयो भाग्येन देहिभिः // अनादितीर्थमेतद्धि सिद्धास्तीर्थकृतोऽत्र वा / अनन्ता मुनयश्चापि क्षिप्त्वा स्वं कर्म निवृताः // ये च शत्रुञ्जये शैले पक्षिणः पशवोऽथवा / सेवन्ति तेऽपि निर्वाणं लभन्तेऽल्पभवैः किल // मुक्तिं गतेषु सर्वेषु गते ज्ञाने महीतले / लोकानां तारकः सोऽयं श्रवणास्कीर्तनादपि / / दुःषमाख्येति समये गते ज्ञानेऽपि केवले / धर्मे विसंस्थूले जाते तीर्थमेतज्जगद्धितम् // पूजाऽहतां गुरोभक्तिः शत्रुञ्जयस्य सेवनम् / चतुर्विधस्य सङ्घस्य सङ्गमः सुकृतैर्भवेत् / / आकण्यैतद् गुरोरास्या-निःपुण्यकः सुधर्मवित् / यात्रां शत्रुञ्जये कर्तुं सङ्घ बहुममेलयत् / / सुमुहूर्ते पुरे ग्रामे सर्वसर्वज्ञ