________________ 122 शत्रुञ्जय-कल्पवृत्ती पश्चादनुत्तरगतिं समुपैति धीरः // श्रुत्वेति धनदेवस्तु चिकारयिषुरादरात् / सर्वज्ञसदनं भीम-श्रावकस्य पुरो जगौ // मम श्रीजिनगेहस्य चिकीर्षा विद्यतेऽधुना / ततो मत्तो धनं लात्वा कारयाईद्गृहं महत् / / सूत्रधारादिमानां चैत्यकर्मविधायिनाम् / मद्दत्तं द्रविणं देयं भवता प्रतिवासरम् // भीमः प्राह करिष्यामि त्वदुक्तं श्रेष्ठिपुङ्गव! / कारयार्हद्गृहं स्फारं शिवसौख्याप्तिहेतवे / / सोऽपि लोभाभिभूतः सन् सूत्रधारादिकस्य तु / दत्ते रोक्यं न द्रव्यं हि किन्तु सर्पिगुंडादिकम् // समर्याणि क्रयाणानि लात्वा महाय॑जल्पनात् / ददत् स्तेभ्यः सदा भीमो लाभं गृह्णाति किंचन // देवद्रव्यक्रयाणं तु मध्याद् भीमो वणिग्वरः। काकिणीनां सहस्रं च लाभेऽन्तरान्तरा ललौ।। देवद्रव्याद्धनं सेन-भीमोऽर्जयन् घोरतरं तमः / मेलयामास नैवाऽलात् प्रायश्चित्तं गुरोः पुरः॥ यतः-"जिणपवयणवुढिकरं पभावगं नाणदसणगुणाणं / भक्खतो जिणदव्वं अणंतसंसारिओ होइ / / 1 // " वड्ढंतो जिणदव्वं तित्थयरत्तं लहइ जीवो० // 2 // " ततो मृतोऽभवद्भीमो जलमानुप एव तु / ततो ययौ तृतीये तु नरके भूरिदुःखदे // वेदान्तेऽप्युक्तम्- " देवद्रव्येण या वृद्धि-गुरुद्रव्येण यद्धनम् / तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् // 1 // " निर्गत्य नरकान्मत्स्योऽभवद्भीमासुमान् क्रमात् / चतुर्थे नरके जातो नारकी मकरस्ततः // पञ्चमे नरके षष्ठे सप्तमे चान्तरान्तरा / प्राप्य मत्स्यभवं भीमो दुःखी जातो निर. न्तरम् // यतः-" भक्खणे देवदव्वस्स परस्थिगमणेण य / सत्तमं नरकं जंति सत्तवारा य गोयमा ! // 1 // " स ग शूकरो जातो भूरिवारान् रुषोऽपि च / एडको हरिणः सर्पः शशो मार्जारमूषकौ / / शृगालः शबरो विष्ठा-कृमिः ऋछकवृश्चिकौ / सिंहश्चित्रकरः इवानो गृहकोलद्विकः शुनी // पृथिव्यम्बुबृहद्भानु-वनस्पतिषु भूरिशः / उत्पद्य शुक्तिका जाता जलौका कीटिका खरः॥गर्दभो वेसरः शङ्खः धृषभी महिषो गजः / तुरङ्गो महिषी व्याघ्रो नकुलो नकुली ततः / / युग्मम् / एवं भूरिभवेष्वेव सहित्वा दुःखसन्ततिम् / भीमजीवोऽभवच्छत्रु-अयाद्रौ हरिणः क्रमात् / / तत्र प्रभोर्मुखं पश्यन् पश्यन् स हरिणस्तदा / मृत्वाऽभूत् त्रिदशः स्वर्ग भूरिदेवनिषेवितः। ततश्च्युत्वाऽभवत् स्वर्ण-पुरे सोममहीपतेः। पुत्रो धनामिधो वर्य-रूपः प्रवरविक्रमः / / तत्र जीववधासक्तो मृत्वा कनकपत्तने / वसुदत्तस्य पुत्रोऽभूत् कनकाहो शुभेऽहनि / / मासस्यातिक्रमे माता परलोकमसाधयत् / न्याभावात्ततो दुःखी बभूव कनको भृशम् // पञ्चमे मासि जनको मृतस्तस्याशुभोदयात् / ततः कोटिमितं स्वर्णं गतं शीघ्रमदृश्यताम् / कयाचित् कृपया नार्या वर्द्धितः स्तन्यपानतः / निःपुण्यकेति नामाऽदात् तस्य लोकस्तदाऽखिलः / / रङ्कवृत्त्या ततो भिक्षां मार्गयंश्च गृहे गृहे / वर्धते स तु दीनात्मा हक्यते च निरन्तरम् / / भक्षयन्नन्यदा नीतो मातुलेन निजालये / यदा तदा गृहं स्तेनै-मुषितं दिवसात्यये // ततो निष्कासितस्तेन मोतुलेन स यत्र तु / गृहे तिष्ठेद् गृहं तच्च दह्यते मुष्यतेऽथवा // यतः- " यदा कोऽपि क्षणं स्थातुं न दत्त स्वगृहे क्वचित् / तदा स दुःखितोऽत्यन्तं निःपुण्योऽजनि मानसे // 1 // " तस उद्विग्नचेताः स निःपुण्यो दूरनीवृति / ताम्रलिप्ती पुरीं प्राप्तो धनेभ्यसदने स्थितः // तदिने तद्गृहे दग्धे गृहेशेनाथ कर्पितः / अलकश्वानवत्कस्य गृहे स्थातुं लभेत न / ततोऽतिदुःखितो दीन-मना निःपुण्यको भृशम् / स्वकर्म प्राककृतं भूयो भूयो निनिन्द दीनबाग् / / " कम्मं कुणंति सवसा तस्सुदयम्मि अ परवसा हुँति / रुक्खं चडइ सवसो निवडइ परव्वसो तत्तो // 1 // " गन्तव्यं नगरशतं विज्ञानानीक्षितव्यानि / नरपतिशतं च सेव्यं स्थानान्तरितानि भाग्यानि।। ध्यात्वेति जलधौ यान-मारुह्य वहनेशितुः / भृत्यभावं प्रपन्नः स तदा निःपुण्यकोऽचलत् / / क्षेमेण कनक