________________ तिरचामपि मुक्तिगमने नि:पुण्यककथा 199 यावत् 'पउमनाहतित्थं '-पद्मनाभतीर्थ यावत् , अप्रेतनचतुर्विशतिकाप्रथमजिनस्य तीर्थं श्रीसङ्घोत्पत्ति पावत् 'तं' तत श्रीशत्रजयमहातीर्थ जयसादित्यवधार्यम् / / अत्र कथा पद्मनाभजिनोपान्ते जितारिमेदिनीभुजा / प्रक्ष्यते भगवन् ! तीर्थं विद्यते प्रवरं च किम् ? // पद्मनाभजिनाधीशो वक्ष्यतीति तदप्रतः। सुराष्ट्राविषयो वर्यो विद्यते धनधान्यभृत् // तत्र शत्रुञ्जयः शैलः सप्तहस्तमितोऽधुना / विद्यते स पुराऽशीति योजनानि निगद्यते // तत्र मुक्तिं ययुः सङ्ख्या-तीता एव जनाः पुरा। यास्यन्ति साम्प्रतं यान्ति तीर्थमोहात्म्यतः खलु / अधुना श्रीपुराधीश-श्चन्द्रचूडो महीपतिः। त्यक्त्वा राज्यं व्रतं लात्वा ययौ सिद्धमहीधरे / तत्र तस्य तपोऽत्यन्तं कुर्वाणस्य निरन्तरम् / उत्पेदे केवलज्ञानं भूयिष्ठसाधुशालिनः / / मदनाढे पुरे भीम-सेनो राज्यं नयाध्वना / कुर्वन् शिवङ्कराचार्य-पार्वे श्रोष्यति सादरम् // न्यग्रोधे दुर्लभं पुष्पं दुर्लभं स्वातिजं पयः / दुर्लभं मानुषं जन्म दुर्लभं देवदर्शनम् / / अनाण्यपि रत्नानि लभ्यन्ते विभवः सुखम् / दुर्लभं रत्नकोटयापि क्षणोऽपि मनुजायुषः // " दिवसनिसा घडिमालं आउसलिलं जियाण घित्तूणं / चंदाइच्चबइल्ला कालरहट्टं भमाडंति / / 1 / / " श्रुत्वेति श्रीगुरूपान्ते भीमसेनो महीपतिः / त्यक्त्वा राज्यं सुते राज्य-भारमारोपयिष्यति // सप्तशत्या महीपालैः सार्धं सुन्दरसेवकः / सहस्रैः सप्तमिर्दीक्षां गृहीष्यति शुभेऽहनि / / ततः सूरिपदं प्राप्य लक्षसाधुसमन्वितः / सिद्धक्षेत्रावनौ मुक्तिं गमिष्यति तमःक्षयात् // वर्द्धमानोद्रिरेखस्तु अशीतियोजनप्रमः / भविष्यति समस्तानां सुराणां सेव्य एव तु // अस्मदीयो गणाधीशो धर्मघोषाभिधो ननु / गमिष्यति शिवक्षोणी-धरे भूयिष्ठसाधुयुग // प्रासादा अत्र सिद्धाद्रौ बहुभिर्मेदिनीधवैः। रैव्ययात् कारयिष्यन्ति प्रतिमाश्चाईतां पुनः।। अस्य तीर्थपतेः स्पर्शात् दर्शनोत् स्तवनात् पुनः। अनेके भविनो मुक्तिं याता यास्यन्ति यान्ति च / / यत :-" मयूरसर्पसिंहोद्या हिंस्रा अप्यत्र पर्वते / सिद्धाः सिद्धयन्ति सेत्स्यन्ति प्राणिनो जिनदर्शनात् // 1 // " तेषां जन्मं च वित्तं च जीवितं सार्थकं च ये। सिद्धक्षेत्राचलं यान्ति परेषां व्यर्थमेव तत् // श्रुत्वैतद्वहवो भव्या यात्रा सिद्धमहीधरे / करिष्यन्ति जनाः स्वीया-मर्जिष्यति शिवश्रियम् // 20 // इति 'वुच्छिन्ने वि अ' गाथाकथा समाप्ता / पायं पावविमुक्का जत्थ निवासीअ जंति तिरियावि / सुगईए जयउ तयं सिरिसित्तुंजय महतित्थं // 35 // 'प्रायः' सामान्येन 'पापविमुक्ताः' पापरहिता यत्र तीर्थे निवासिनो-वसनशीलाः 'सुगतौ' उत्तमगतौ गच्छन्ति * तिर्यश्चोऽपि' पशवोऽपि जयतात्तत्तीर्थं श्रीशत्रुञ्जयाख्यं महातीर्थम् / / अत्र कथा __ श्रीपुरे धनदेवाह-श्रेष्ठी भूरिधनो वरः / एकदा श्रीगुरूपान्ते शुश्रावेति जिनागमम् // रम्य येन जिनालयं निजभुजोपात्तश्रिया कारितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा / वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनगतं गोत्रं समुद्योतितम् // अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानघृषभादिजिनेश्वराणाम् / स्वर्गप्रधानविपुलर्द्धिसुखानि भुक्त्वा,