________________ 120 शत्रुजय-कल्पवृत्ती सततं कारयिष्यति // मेलयित्वा बहुं सङ्घ ग्रामे ग्रामे पुरे पुरे / कुर्वन् स्नात्रोत्सवं मेघ-घोष. भूपश्चलिष्यति // गत्वा शत्रुञ्जये शेले श्रीनाभेयजिनालये / वृषभं प्रथमं पुष्पैः पूजयिष्यति भूपतिः // सर्वेषु जिनगेहेषु कुर्वन् पूजां जिनेशितुः / अर्जयिष्यति कल्याण-गमयोग्यं वृषं नृपः / तत्र श्रीमरुदेवाया श्रीशान्तेर्वरमन्दिरे / कारयिष्यति भूपालो मेघघोषो धनव्ययात् // ततो रेवतके शैले गत्वा नेमिजिनेशितुः / करिष्यत्रार्चनं सङ्घ-सहितो मेघभूपतिः // आगत्य स्वपुरोपान्ते श्रीसङ्घ वसनैवरेः। सन्मानयिष्यति क्षोणी-पतिः कुर्वन् महोत्सवम् / ततो विसृज्य निःशेष सङ्घ मेघमहीपतिः / पुरप्रवेशमोतन्वन् स्वीयावासं समेष्यति // स्वपदे मेघसेना पुत्रं न्यस्य सदुत्सवम् / मेघघोषो गुरूपान्ते चारित्रं लास्यति क्रमात् / / मेघघोषयतिः कुर्व-स्तपस्तीवं निरन्तरम् / गत्वा शत्रुञ्जये शैले स्वर्ग क्रमाद् गमिष्यति // मेघसेनो महीपालः पालयन् पृथिवीं नयात् / साधयिष्यति निःशेष-विद्विषो भुजलीलया / क्रमाच्छत्रुञ्जये यात्रां कृत्वा विस्तरतो नृपः। प्रासादं प्रथमाप्तस्य कारयिष्यति रैव्ययात् / / चन्द्रसेनं सुतं स्वीयपदे न्यस्य सदुत्सवम् / मेघसेनो नृपो स्वर्ग-लोके क्रमाद् गमिष्यति // चन्द्रसेनोऽपि भूपालः पालयन् मेदिनी नयात् / साधयिष्यति निःशेष-शात्रवान् भुजलीलया / / शत्रुञ्जयस्य माहात्म्य निशम्य गुरुसन्निधौ। चन्द्रसेनो ययौ सिद्ध-शैले नन्तुं जिनेश्वरम् / तत्र स्नात्रार्चनादीनि कार्याणि रुचिरोत्सवम् / विधाय नृपतिश्चक्रे सफलं स्वीयजन्म च // तत्रादिमजिनेशस्य प्रासादं प्रवरं तदा / कारयित्वा प्रभोर्बिम्ब स्थापयिष्यति सोऽवनिराद / / मल्लसेननृपं न्यस्य पट्टे लसदुत्सवम् / चन्द्रसेनो व्रतं लोत्वा श्रीचन्द्राचार्यसन्निधौ / / मल्लसेनो बहुं सङ्घ मेलयित्वा शुभेऽहनि / शत्रुञ्जये जिनं नन्तुं गमिष्यति नरेश्वरः / तत्र श्रीकुन्थुनाथस्य प्रासादं व्योमगं वरम् / कारयिष्यति कल्याण-सुखहेतोर्नरेश्वरः / / ततोऽन्येऽपि नृपा जैन-धर्मसक्ताश्च भूरिशः / सिद्धाद्रौ कारयिष्यन्ति प्रासादान् गगनाध्वगान् // पञ्चमारकपर्यन्तं यावद् भूपा अनेकशः। धर्मं कृत्वाऽऽहंतं प्रायो गमिष्यति सुरालयम् // पञ्चमारकपर्यन्ते भूपाला लोलिनो जनाः / स्वल्पायुषो भविष्यन्ति रोगग्रस्तशरीरिणः // तस्मिन् काले तु सिद्धाद्रौ भूपो विमलवाहनः / कारयिष्यति नाभेय-प्रासोदं प्रतिमांश्रितम् // स राजा पुण्डरीकाद्रौ गुरोर्दुःप्रसहस्य तु / उपदेशात् करिष्यति यात्रां सङ्घसमन्वितः // आचार्यों दुःप्रसहाख्यो फल्गुश्रीर्यतिनी पुनः। नागिलः श्रावको नाम्ना सत्यश्रीः श्राविका पुनः // विमलाद्वाहनो भूपो मन्त्रीशः सुमुखाभिधः / पञ्चमारकपर्यन्ते सङ्घ ईदृग् भविष्यति / / विमलाद्वाहनो भूपः ससङ्घः सिद्धपर्वते / गत्वाऽऽदिमाहतः सद्मो-द्धारं च कारयिष्यति // तदानीं बहवः श्राद्धाः कृत्वा यात्रां सुविस्तरात् / कारयिष्यन्ति सर्वज्ञ-प्रासादान् प्रवरान् क्रमात् / / एतेषां मेदिनीशाना-मन्तरा ये महीभुजः / करिष्यन्ति मुदोद्धारं तेषां सङ्खथा न ज्ञायते // 44 // इति मरुदेवीसंतिभवणगाथासम्बन्धः // वुच्छिन्ने वि य तित्थे जं होही पूयजुयमुसहकूडं / जा पउमनाहतित्थं तं सिरि सित्तुंजय मह तित्थं // 34 // 'तित्थे' तीर्थे साधुसाध्वीश्रावकश्रोविकारूपे, चतुर्विधे व्युच्छिन्ने-विच्छिन्नं गते क्षयं याते 'होही ' भविष्यति 'जं' यत् पूजायुतं ' उसहकूडं ' ऋषभकूटं प्रमाणं सप्तरत्नि-सप्तहस्तप्रमाणं जा