________________ मरुदेवीसंतिभवणगाथासम्बन्धः शमनं व्याघ्रोरगस्तम्भनम् / श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् // 1 // " ततः सङ्घोऽखिलो यात्रां शत्रुञ्जये समागतः / ललितासरसः पार्वे समुत्तरति सन्ततम् // पुण्डरीकनिव है विराजितं पुण्डरीकगिरिराजसन्निधौ। कारितं ललितया मनोहरं भाति यत्र ललिताभिधं सरः / / स्तुवतीति कवयः-यस्य पोलितरौ शाखा-संस्थिताः पक्षिणः सदा / आगतं सङ्घमालोक्य हर्षन्ति च रवन्ति च // ते इलाध्याः पक्षिणो ये तु ललितासरसि स्थिताः / तीर्थं पश्यन्ति सङ्घ च शत्रुजयसमागतम् / / वस्तुपालामिधः स्वर्गा-रोहणावार्हदालयौ / कारयित्वा तु द्रव्यस्याष्टादशैः कोटिभिस्तथा // षण्णवत्याधिकैलझै- वस्तुपालः ससोदरः / आद्यार्हत्प्रतिमे यत्र तीर्थेऽद्यास्थापयन्मुदा / / 73 // - इति अणुवमसरचेइयमजियठाणे' इत्यादि ललितासरोऽनुपमासर:सम्बन्धः समाप्तः // मरुदेविसंतिभवणं उद्धरिही जत्थ मेहघोसनिवो / ककिपपुत्तो तं इह सिरि० // 32 // पच्छिम उद्धारकरो जत्थ विमलवाहणो निवो होइ। दुष्पसहगुरुवएसा तं सिरिसित्तुंजय महतित्थं // 33 // ___जत्थ ' यत्र तीर्थे ' मरुदेव्या ' ऋषभदेवजनन्या ' भवनं ' प्रासादं शान्तिनाथस्य षोडश तीर्थङ्करस्य प्रासादं पूर्वमभूतामनयोरुद्धारं ' मेघघोषनृपः' कल्किपुत्रः शक्तिस्तत्पुत्रो मेघघोषः ‘कल्कि प्रपत्रि' उद्धरिष्यति तत्तीथ जयताचिरम् / पश्चिमश्चरम उद्धारः-उद्धृत्तिः पश्चिमोद्धारकरो विमलवाहनो नृपो मेदिनीपालो दुःप्रसहगुरूत्तमानां सूपदेशात् ' होइ' भविष्यति, यत्र तीर्थे तत् श्रीशत्रुञ्जयाहूं तीर्थं जयताच्चिरम् / अनयोर्गाथयोः कथो सक्षेपात् कथ्यते मया, तथाहि कल्किभूपसुतः शक्ति-क्षोणीशो न्यायवर्त्मना / पालयन् जिननाथस्य धर्ममेव करिष्यति // पत्नी प्रीतिमती प्रीति-भाजनं मेदिनीपतेः / विनयेन तथा रञ्ज-यिष्यति स्वान्तमन्वहम् // भविष्यति तयोर्मेघथोषाहो नन्दनो वरः। रूपलावण्यसलक्ष्म्या जयन् चेतोभवश्रियम् / / धर्मकर्मकलाः सर्वाः पाठितः पण्डितान्तिके / भविष्यति बुधाचार्य इव विज्ञो नृपाङ्गजः // शत्रुञ्जयस्य माहात्म्यं शक्तिभूपः समाहितः / आकर्ण्य सङ्घसंयुक्तः सिद्धशैले समेष्यति // तत्र सधेशकृत्यानि कृत्वा शक्तिमहीपतिः / वस्त्रोणि सङ्घसंयुक्तं गुरुं गौरवयिष्यति / / कदा किल भविष्यन्ति मद् गृहाङ्गणभूतयः / श्रीसङ्घचरणोद्भूत-रजोराजिपवित्रिताः / / येन सङ्घ गुरुश्चापि भक्तितोऽन्नादिदानतः / स एव लभते स्वर्गा-पवर्गसुखसन्ततिम् / / तत्र शक्तिविहाराहू प्रासादं सम्भवार्हतः / शक्तिभूमिपतिर्लक्ष्मी व्ययेन कारयिष्यति // ततः शक्तिनृपो गत्वा रैवताभिधभूभृति / विस्तारान्नेमितीर्थेश-मर्चयिष्यति सादरम् // ततो मार्गेऽखिलं / सङ्घ-मन्नपानादिदानतः / गोरव्यस्वपुरे शक्ति-महीपतिः समेष्यति / / क्रमाच्छक्तिनृपो लक्ष्मी व्ययन् क्षेत्रेषु सप्तसु / स्वपुरे श्रीजिनावासं महान्तं कारयिष्यति // शक्तिभूपः स्वपुत्राय मेघघोषाय शालिने / राज्यं दत्त्वाऽहतो धर्म निश्चितं च करिष्यति / / धर्मकर्मपरः शक्ति-भूपाल आयुषः क्षये / गमिष्यति मरुद्गेहे विधायाराधनां मुदा // ततो रक्षन् प्रजां मेघ-घोषक्षोणीपतिर्नयात् / रामभूमीपतिलोकोन्