________________ 'ध्याते' कथा 225 राजा हृष्टो ददौ ग्रामोन् दश तस्मै मनोहरान् // सोऽपि लात्वा नरो ग्रामान् दश तस्थौ समाधिना / इतस्तत्राऽऽगतो भूष-पतिदृष्टस्तया तदा / / निमन्त्रितो महीपालो मनोरमेण भूभुजा / जेमितो रुचिराऽन्नादि-दानादादरपूर्वकम् // एककाकिणीकापूग-नागवल्लिसमन्वितम् / बीटकं वनिता रूप-धराऽदात् सा नृपाय तु // काकिणीं नृपतिर्वीक्ष्य स्वां पत्नीमवलक्ष्य च / यावज्जल्पति तावत् सा पदयोय॑पतन्मुदा // ततो भूमीभुजो पृष्टा ग्रामोपार्जनकारणम् / आमूलचूलमाचष्ट पत्नी तु नृपतेः पुरः // ततो भूमिपतिर्नीत्वा स्वगृहे तां सधम्मिणीम् / पट्टराज्ञी व्यधाद् भूरि-वस्त्रा-: भूषणदानतः // मनोरमा प्रसूते स्म सुतं शोभनवासरे। जन्मोत्सवे कृते तस्य सोमेत्याा नृपो ददौ // क्रमात् सोमं निजे पट्टे न्यम्य भूमिमहीपतिः / लात्वा दीक्षां धनाचार्यो-पान्तेऽपाठीज् जिनागमम् // प्राप्ताचार्यपदस्तत्र विहारं मेदिनीतले / गत्वा शत्रुक्षयेऽनंसी-नाभेयादिजिनाधिपोन् / / ततो प्रामे पुरेऽटव्यां वने पर्वतमस्तके / शत्रुञ्जयस्य तीर्थस्य माहात्म्यं ख्यातवान् स च // यः शत्रुञ्जयतीर्थे तु जिनानर्चति नौति च / नमत्यादरतो मुक्तिं स याति मानवोऽचिरात् // “छठेणं भत्तेणं अपाणएणं तु सत्त जत्ताए / जो कुणइ सित्तुंजे तइए भवे लहइ सो मुक्खं॥ 1 // " श्रीतीर्थपोन्थरजसा विरजीभवन्ति तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति / तीर्थे व्ययादिह नराः स्थिरसम्पदः स्युर्भवन्ति (पूज्या भवन्ति ),जगदीशमथार्चयन्तः / / " नवि तं सुवण्णभूमी भूसणदाणेण अन्नतित्थेसु / जं पावड पुण्णफलं पूजा ण्हवणेण सित्तुंजे॥१॥” इत्यादि शिवशैलस्य माहात्म्यं वर्णयन सदा / भीमसूरीश्वरः प्राप मृत आद्यं दिवं तदा / / ततश्च्युत उमापुर्या रामनामाऽभवन्नृपः / क्रमादाक्षगुरूपान्ते दीक्षां प्राप्याऽभवद् गुरुः।। ततः प्रबोधयन् भव्य-जीवान् सर्वज्ञधर्मणि / शत्रुञ्जयधरित्रीभ्रे ययौ रामयतीश्वरः // सर्वकर्मक्षयाद् भूरि-साधुसन्ततिसंयुतः। रामयतीश्वरो मुक्ति-नगरी समुपेयिवान् // 35 // इति शत्रुञ्जये व्याख्याते भीमकथा 'झाए ' ध्याते कथा श्रीपुरे श्रवणश्रेष्ठि-पते: कमलसेवकः / आसीच्चचाल सोऽम्बुधौ श्रेष्ठी सेवकसंयुतः / / उपाय॑ द्रविणं भूरि चलमानस्य तस्य तु / योनं भग्नं तयोः पाण्योः फलकं चटितं द्वयोः // देवयोगात्तटं: सिन्धो-स्तौ लभेते स्म दिनत्रये / मूञ्छितं श्रेष्ठिनं दृष्ट्वा कमलोऽलाच्छ्यिं ततः / / गच्छन् स कमलो. लक्ष्मी-पुरे निर्नन्दके नृपे / मृते राज्यं पृथु प्राप पश्चदिव्यप्रयोगतः // इतः सचेतनीभूतो भ्रमन् श्रेष्ठी रमापुरे / बुद्धिहढे ललौ बुद्धि-त्रयं रैत्रितयार्पणात् // नीचोऽप्यवसरे मान्यो लथीयान् भवता ध्रुवम् / कार्य दृष्टमदृष्टं च शुभं वाप्यशुभं त्वया // जेमनायार्थितेनैव मान्यं वावसरे ध्रुवम्। ततः श्रेष्ठी चलन् लक्ष्मीपुरोपान्ते समीयिवान् // आयान्तं श्रेष्ठिनं ताह-गवस्थापतितं तदा / दृष्ट्वा राजाऽनमाि -दुत्तीर्य तातवत् किल॥ त्वं मे श्रेष्ठिन् ! पितुः स्थानेऽधुनाऽऽसीति गदन्नृपः। नीत्वा गोरवयामास भक्तदानाच्च तं तदा // श्रेष्ठयपि श्रयते भूपं भूपोऽपि मन्यते तकम् / श्रेष्ठराट् प्रथमा बुद्धिं सश्लाघाऽनघमानसः॥ कुत्रचिद् भूपतौ याते भूपपनि पुरोधसा / सार्दू भोगसुखासक्तां ददर्श श्रेष्ठिराद् स्फुटम् // ताभ्यामपि