________________ 22 भगीरथनामोपरि सगरचक्रिपुत्रभगीरथकथा .00000000000000 मरुदेवनृपस्याऽभून नन्दनश्चन्दनाभिधः / धर्मकर्मरतोऽकार्षीद् जिनार्चा च दिवानिशम् // 16 // जिनधर्मरतं भूप-सूनुवीक्ष्य प्रजाऽपि च / जैनधर्म वितन्वन्ति कल्याणसातहेतवे // 17 / / मरुदेवः सुतं गज्ये विन्यस्य संयमश्रियम् / लात्वा गुर्वन्तिकेऽपाठीद् भूरि शास्त्राणि यत्नतः // 18 // मरुदेवं विनीतं च सर्वशास्त्राब्धिपारगम् / मत्वा सूरिपदं सरिर्ददौ शोभनवासरे // 16 // क्रमात् पञ्चशती वाचं-यमानां शुद्धचेतसाम् / सेवते मरुदेवस्य सूरीशस्य पदाम्बुजम् // 20 // क्रमेण विहरमाणो मरुदेवो यतीश्वरः / तीर्थे शत्रुञ्जये देवान् नन्तु साधुयुतो ययौ // 21 // तस्मिस्तीर्थे शुभध्यानान्मरुदेवो यतीश्वरः। प्रापाऽऽदौ केवलज्ञानं ततोऽन्येऽपि यतीश्वराः // 22 // प्रबोध्य भूरिशो जीवान् मरुदेवो यतीश्वरः / सिद्धशैले ययौ मुक्ति-मन्येऽपि भूरिसाधवः // 23 // शिवप्राप्तिं पितुः श्रुत्वा तस्मिन् सिद्धमहीधरे / चन्दनक्षमापतिभूरि-सङ्घयुक् चलितोऽध्वनि // 24 // गत्वा शत्रुञ्जये पूजां कृत्वा स्तुत्वार्हतः पुनः / पितुमुक्तिगमस्थाने प्रासादं चन्दनो व्यधात् // 25 // पितुमुक्तिगमस्थानं मत्वा शत्रुञ्जये गिरौ / मरुदेवेति तीर्थस्य तस्य नाम ददौ नृपः // 26 // . चन्दनमापतिस्तीर्थ-पूजां कृत्वाऽतिविस्तरात् / स्त्रपुरेऽभ्येत्य सस्मार शश्वच्छत्रुञ्जयं गिरिम् // 27 // चन्दनोऽपि स्मरन् नित्यं तीर्थ शत्रुञ्जयं हृदि / स्वपुरस्थोऽपि सम्प्राप्य ज्ञानं मुक्तिपुरी यथौ // 28 // 1 इति चन्दनमहीपतिदत्त-मरुदेवभूधरेति सम्बन्धः शत्रुञ्जयस्य कथा / // अथ भगीरथनामोपरि सगरचक्रिपुत्रभगीरथकथा // सगरक्षोणीनाथस्य पुत्रो भगीरथाभिधः / यात्रां कृत्वा निजं नाम तीर्थस्याऽदाद् वरोत्सवम् // 1 // अयोध्यानगरे चक्री द्वितीयः सगरोऽजनि / भूनु भगीरथो नाम्ना तस्याऽऽद्योऽजनि रूपवान् // 2 // श्रन्येऽभूवन सुताः पष्टि-महस्रप्रमिता वराः / तस्यैव चक्रिणोऽशेष-विद्याम्भोनिधिपारगाः // 3 // सगरश्चक्रिराट् तीर्थ-माहात्म्यमजितान्तिके / श्रुत्वा श्रीआदिदेवस्य सद्म स्फारमकारयत् // 4 // मेलयित्वा बहुँ सङ्घ सगरश्चक्रिराट् क्रमात् / शत्रुञ्जयादितीर्थेपु यात्रां विस्तरतो व्यधात् // 5 // भगीरथोऽन्यदा यात्रा कर्त्त शत्रुञ्जये गतः / सङ्घशः सर्वकृत्यानि विधिवद्विदधेतराम् // 6 // कोटीकोटियतीशानां तत्र ध्यानं वितन्वताम् / बभूव केवलज्ञानं तदा विश्वावलोककम् // 7 // तत्र तेषां क्रमादायुः क्षयान्मुक्तिरजायत / सिद्धोत्सवः सुरैश्चक्रे गोतनृत्यपुरस्सरम् // 8 // यत्र स्थाने गता मुक्तिं साधवश्वायुषः क्षयात् / कोटाकोट्यभिधं सम तत्र व्यधाद् भगीरथः // 9 // अजितस्वामिनं मूल-नाथं तत्र जिनालये / सगरस्याऽऽदिमः पुत्रोऽतिष्ठिपत् रुचिरोत्सवम् // 10 // प्रासादमादिदेवस्य कारयित्वा भगीरयः / विम्ब रत्नमयं पञ्च-कोटिस्वर्णैरतिष्ठिपत् // 11 // तीर्थरक्षाकृते दण्ड-रत्नेन मेदिनी क्रमात् / खनित्वाऽब्धिप्रवाहं तु तत्रानयद् भगीरथः // 12 // तदा तत्र समेत्येन्द्रः प्रोवाच भो ! भगीरथ ! / अब्धिना वेष्टिते तीर्थे नन्तुको जन एष्यति ? // 13 // भगीरथः सुरेशेन वारितो नाग्रतोम्बुधिम् / अनैषीत् सलिलं तत्रा-धाप्यब्धौ दृश्यते जनैः // 14 //