________________ चन्दनमहीपतिदत्त-मरुदेवभूधरेति सम्बन्धः श्रीशत्रुञ्जयकथा 21 aaasana.0000000000000 3000390000000000000000000000000000000000000000000 बर्द्धमानः क्रमाद्राहु-बलिः पण्डितसन्निधौ / अशिक्षयन् कला वर्यास्तथाऽजनि यथा बुधः // 4 // तत्रोद्याने समायाता मानमर्दनमूरयः / ददते देशनां भव्या-ङ्गिभ्यः शिवसुखप्रदाम् // 5 // जन्तूनामवनं जिनेशमहनं भक्त्याऽऽगमाफर्णनं, साधूनां नमनं मदापनयनं सम्यग् गुरोमाननम् / मायाया हननं कधश्च शमनं लोभद्र मोन्मूलनं, चेतः शोधननिन्द्रियाश्वदमनं यत्तच्छिनोपायनम् // 6 // तदा राजा प्रियापुत्र-मित्रादिपरिवारयुग / धर्म श्रोतु ययौ श्रेया सुखसन्ततिदायकम् / / 7 / / कुमारो बाहुवल्याह्वः कृत्वा पूजां जिनेशितुः / कुर्वन् ध्यानं सितं प्राप्य केवलज्ञानमञ्जसा / / 8 / / विहिते केवलज्ञानो-सवे देवैः प्रमोदतः / बाहुबलिर्ददौ धर्मोपदेशमिति सादरम् / / 6 / / तदा वाचंयमाः कोटि-मिताः प्राप्य व्रतश्रियम् / क्रमात् क्षीणतमोबाताः प्रापुर्ज्ञानमनुत्तरम् / / 10 / / तत्रैव क्षीणनिश्शेषा-युषो वाचंयमाः समे / मुक्तिपुर्यां ययुर्देवाश्चक्रुश्वारूत्सवं पुनः / / 11 / / तत्राऽऽयुषः क्षये बाहु-बलिमुक्तिं यदा ययौं / तदा राजा ददौ बाहु-बलिनाम्नाऽस्य भूभृतः / / 12 / / अथवा श्रीऋषभजिनस्य बाहुबलिपुत्रोऽत्र तीर्थे सिद्धिं गतः अतोऽप्य तीर्थस्य बाहुबलिनाम दत्तं देवैः // इति बाहुबलिनामोपरि केलिप्रियभूपकथा . // अथ चन्दनमहीपतिदत्त-मरुदेवभूधरेति सम्बन्धः श्री शत्रुञ्जयकथा / मुक्तिगतं निजं तातं मत्वा चन्दनभूपतिः / सिद्धाद्र मरुदेवेति नामाऽदात् लसदुत्मवम् // 1 // तथाहि वीगढ नगरेऽनङ्ग सेनस्य धरणीपतेः / मरुदेव्यभिधा पत्नी बभूवाऽनघशीलभाग // 2 // राज्यन्यदा मुखं सुप्ता मरुदेवा लमत्तनुः / स्वप्नेऽपश्यत्तमां नाभि-नन्दनं पूजितं सुमैः / / 3 / / प्राता राज्ञी नृपस्याग्रे स्वप्नवृत्तान्तमृचुपी / राजाऽऽचष्टात्मनः पुत्रः पुण्यवाँश्च भविष्यति '4|| ततो राज्युदरे पुण्य-वति प्राणिनि महिने / अवतीर्णेऽभवन्नेवं दोहदाः प्रतिवासरम् / / 5 / / अर्चयामि जिनं दानं शुद्धं ददामि साधुषु / यात्रां कुर्वे सुतीर्थेषु सुश्राद्धान् भोजयाम्यहम् / / 6 / / उच्चस्थे तरणौ चन्द्र राज्यम्त सुतं वरम् / तस्य नाम महीपालो मरुदेवेत्यदान्मुदा / / 7 / / यथा यथा कुमारोऽय ववढे मदनोपमः / तथा तथाऽवनीपाल-राज्यं वृद्धिमुपति च // 8 // चन्द्रपुरे हरच्माप-नन्दिनी कमलाभिधाम् / पित्रा परिणायितः पुत्रो मरुदेवो वरेऽहनि / / 6 / / कृत्वा जिनार्चनं भावान् प्रतिलाभ्य यतीन मुदा / भोजयित्वा वरश्रद्धान् कुमारोऽत्ति निरन्तरम् // 10 // यतः- 'पढमं जणं दाऊण अप्पणा पणमिऊण पारेइ / अमई असुविहियाणं भुजेइ अ कयदिमालोगो॥११॥ माहण कप्पणिजज नवि दिन्न कहिंचि किंपि तहिं / धीरा जहुत्तकारी सुपावगा तं न भुजंति // 12 // "वसहीसय णासणभत्तपाणभेसजवत्थपत्ताई / जइ वि न पजत्नधणो थोवावि हु थोवयं देइ" // 1 // राजा राज्येऽभिषिच्य स्वं नन्दनं सूरिसन्निधौ / प्रव्रज्यामग्रहीत् मुक्ति-सुखसंपत्तये क्रमात् // 13 // मरुदेवनृपो न्याया-दपालीजनतां तथा / यथाऽभूत् सुखिनी वाढं धम्म फम्मणि कर्मठा / / 14 / / यतः-"राज्ञि धम्मिणि धम्मिष्टाः पापे पापाः सम समाः / राजानमनुवर्तन्ते यथा राजा तथा प्रजा" // 15 //