________________ जावडिप्रबन्धः मधुमत्यभिधं श्रुतम् // ततो भावडभूर्भूत्वा महेभ्यः कमलां स्वीयाम् / विलसद्धर्मकृत्यानि व्यस्मार्षीत् पितुरञ्जसा // यत :-" प्रायः स्मरति धर्मं तु दारिद्रये समुपागते / पुण्यं विस्मरति प्राप्ते धने पुंसां न संशयः // 1 // निर्दयत्वमहङ्कार-स्तृष्णा कर्कशभाषणम् / नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः / / लक्ष्मीर्लक्षणहीनस्य जातिहीनस्य भारती / कुपात्रे रमते नारी गिरौ वर्षन्ति माधवाः // इतः कपर्दिकोऽ. भ्येत्य जगाद जावडिं प्रति / विस्मारितं त्वयेदानी पितुर्मनीषितं धनम् / / उत्तमैर्जल्पितं यद्धि तदेव पास्यते दृढम् / अतो मनीषितां लक्ष्मी व्यय त्वं सिद्धपर्वते // यतः-" सत्कृजल्पन्ति राजानः सत्कृजल्पन्ति साधवः / सकृत् कन्या प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् / / 1 // " जगाद जावडिः कुत्र व्ययामि विभवं वद ? / कपर्दी प्राह सिद्धाद्रौ व्यय पित्रुदितां श्रियम् // व्ययिता कमला धर्म-स्थाने शत्रुञ्जयादिके। अनन्ता जायते मुक्ति-सुख्खं दत्त क्रमात्पुनः॥ यतः-“दायादा स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो, गृहणन्ति छलमाकलय्य दहनो भस्मीकरोति क्षणात् / अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठाद् दुर्वृत्तास्तनया नयन्ति निधनं धिग् बह्वधीनं धनम् // 1 // " क्लेशाय विस्तराः सर्वे सक्षेपास्तु सुखावहाः / परार्थ विस्तराः सर्वे त्यागमात्महितं विदुः / / गोशतोदपि गोक्षीरं मानं मूढशतादपि / मन्दिरे मञ्चकस्थानं शेषाः परपरिग्रहाः // जावडिः प्रोक्तवॉस्तर्हि पुण्यं किं सिद्धपर्वते / करोम्यहमद्य प्रोह कपर्दी जावडिं प्रति.॥ पूर्या तक्षशिलायां तु सूत्रधारगृहान्तरे / कारितं भरतेनादि-जिनबिम्बं समस्ति हि // तदत्र शिवशैले त्वं समानीय धनव्ययात् / स्थापय मूलनाथस्य स्थाने जावडि नैगम ! // कल्येऽत्र सुरगाः पञ्च-वर्णाः पञ्चशतीमिताः। समेष्यन्ति च ते ग्राह्या भवता बहुमूल्यतः / / पुनस्तुरङ्गमाः पञ्च-वर्णा रोगप्रपीडिताः। समेष्यन्ति शतान्यष्टौ तेऽपि ग्राह्यास्त्वयाऽचिरात् / / वीरमानीतधूल्याम्बुसिक्ता रोगविमुक्तताम् / यास्यन्ति च ततस्तक्ष-शिलायां तान् नयाचिरात् / / तत्र पुरे प्रगे भूमी-पतेरश्वान् पृथक् पृथग् / प्राभृतीकुर्वतस्ते भू-नाथस्तुष्टो भविष्यति / / ततो भूभीपतिबिम्ब तत्र तव प्रदास्यति / आनीयात्र त्वया स्थाप्यं निर्विघ्नं नैगमोत्तम ! // यक्षोक्तान् घोटकान्नीत्वा पञ्चवर्णान् धनार्पणात् / गत्वा सम्मिन् पुरेऽश्वानां पृथक् पृथक् प्रढौकनात् // अनुकूल्य महीपालं सूत्रधारनिकेतनम् / ययौ च जावडिः सूत्र-धारस्तस्मै ददाति च / / नव लक्षा सुवर्णानां मार्गिते निजसद्मनः। सूत्रधारेण वणिजो सत्यङ्कारे ददेऽगुली / / तदैत्य गोमुखो यक्षः सूत्रधारान्तिके जगौ। कोट्या हेम्नां न लभ्येत त्वदीयं सद्म साम्प्रतम् / / यत:-" यतोऽस्ति तव गेहस्य मध्ये भूमिगतं स्फुटम् / आद्यार्हत्प्रतिमा भूरि-कोटथा सैव न लभ्यते // 1 // " बह्वीभिः कोटिभिर्हेम्नां त्वया जावडये मनाग / दातव्यं स्वगृहं नैव कोटाकोटी च मागय // न दास्येऽहं गृहं तुभ्य-मित्युक्त सूत्रधारिणा / विवादोऽभूद् द्वयोः शस्वद् वर्ष यावन्नृपाग्रतः / / एकदा सूत्रधारस्य मुखेऽवतीय वेगतः। कपर्याह ददस्व त्वं नव लक्षान् गरुत्मताम् / / ततः साक्षिणमर्वीशं कृत्वा जावडिनैगमः। यावल्लमान्नवादत्त तावद् गोमुख ईयिवान् // भोः सूत्रकृत त्वयाऽदायि समर्घ स्वगृहं किमु ? / सूत्रधारो जगौ कुर्वे दत्तं गेहं मया मुधा // साक्ष्याऽत्राजनि भूपालो गृहीतं तु धनं मया / अतो न शक्यते वक्तु-मन्यदेवाधुना मनाग / / ततो रथकुले यत्ना-दारोह्य शोभनेऽहनि / तद् बिम्बं जावडिः शत्रु-जयं प्रत्यचलन्मुदा // ततो भावडभूर्गच्छन् यामिन्यां यत्र तिष्ठति / निनाय प्रतिमा पश्चाद गोमुखः स्थानकात्ततः // एवं मासद्वये तस्मिन् कुर्वाणे गोमुखे हठात् / खिन्नोऽभूज्जावडिर्याव-तोवत् कपर्यवग् ध्रुवम् / / गोमुखो यक्षराट् शत्रु-अये युगादिसेवकः / सहते न मनाग बिम्बं