________________ 116 शत्रुञ्जय-कल्पवृत्तौ तत्रागच्छद् वणिग्वर ! // अधो रथकुलस्य त्वं पश्चात्तिष्ठ प्रियायुतः / यथा रथकुलः शीघ्रं सिद्धाद्रौ याति भद्र ! भोः ! // सती तु विद्यते पत्नी तव त्वं च सुशीलवान् / अतो न गोमुखो विघ्नं कर्तुं शक्नोति तत्र तु / / यतः-" देवदाणवगंधव्या जक्खरक्खसकिन्नरा / बंभयारिं नमसंति दुक्करं जे करंति तं // 1 // " ततः कपर्दियक्षोक्त-विधिना भावडाङ्गजः। अनैषीत् प्रतिमा सिद्ध-शैलस्योवं प्रयत्नतः // तदा गोमुखयक्षस्तु कृत्वा विघ्नानि जावडौ / असमर्थोऽभवत् खिन्न-स्तस्थौ च प्रभुसन्निधौ / मेलयित्वा जनान् कोटोः सप्ताष्टप्रमितान् वरान् / जावडिविभवं भूरि व्ययन् सिद्धाद्रिमीयिवान् / / स्नात्रं कृत्वादिदेवस्य प्रतिमां तां पुरातनीम् / यदोत्थापयितुं लग्नो जावडिः सङ्घसंयुतः // ततः स्वस्थानकादुत्था-प्यमानबिम्बमर्हतः / नोत्तस्थौ गोमुखेनैवा-धिष्ठितं स्वप्रभावभृत् / / तदा जावडिना सङ्घ-युक्तेनेति निवेदितम् / पूजादौ मूलनाथस्य कार्याऽन्येषां ततोऽर्हताम् // उक्तञ्च- " आदौ नतिः स्नात्रपूजा-ध्वजाऽऽरात्रिकमङ्गले। विधाय मुख्यनाथेऽस्मिन् ततोऽस्मिँश्च करिष्यति // 1 // " ततो जावडिना सङ्घयुक्तेन च कपर्दिना / उत्थापितः प्रभुर्मुख्य-स्तथा राटिय॑धाद् दृढम् / / यथा द्विधाऽभवन्मुख्यं शृङ्गं सिद्धमहीभृतः / ततो जोवडिनाऽस्थापि बिम्बं तत्र निजं मुदा // शुभोदर्कामिमां देव-प्रतिमां मुक्तिशंप्रदाम् / प्रत्यतिष्ठिपदाचार्यो वनस्वामी शुभेऽहनि 'तत्र वज्रगुरुः प्रत्यतिष्ठिपद् रुचिरेऽहनि' पाठान्तरम् , // विक्र मार्काद्वसुव्योम-चन्द्रप्रमितवत्सरे / जावडिः स्थापयामास विम्ब नव्यं शिवाचले / तदा मुदा समागत्य देवा अपि निजालयात् / महोत्सवं व्यधुर्विश्व-चमत्कारकरं नृणाम् // अथ ध्वजादिरोपं तु कृत्वा पत्नीसमन्वितः। यावन्नृत्तं विधातुं हि प्रवृतः शिखरस्थितः / / यतः-" सयं पमज्जणे पुण्णं सहरसं च विलेवणे। सयसाहस्सिआ माला अणंतं गीयवाईए / / 1 // " तदा उत्पाटथ यक्षेण गोमुखेन प्रियायुतः। मुक्तोऽरण्ये व्यधाद् ध्यानं सिद्धभूमीभृतो हृदि / तत्रापि कुर्वतो धर्म-ध्यानं वयं च जावडेः / सप्रियस्याभवत्तुर्य स्वर्गे गमनमञ्जसा / / यतः- " एकाग्रचित्तस्य दृढव्रतस्य, पञ्चेन्द्रियप्रीतिनिवर्तकस्य / अध्यात्मयोगे गतमानसस्य, मोक्षो ध्रुवं नित्यसुखं न कस्य ? // 1 / / उक्तञ्च-" बाहुल्यावर्षसम्पत्ते-रायुषः क्षयतोऽपि तौ / हृदयस्फोटनतस्तुथै स्वर्गेऽभूतां सुरौ वरौ // 1 // " एके चैवं वदन्ति / ध्वजारोपादनूत्पाटय जावडिः प्रेयसीयुतः / गोमुखेनोत्तरश्रेणौ मुक्तो वैताढ्यभूभृतः / / जावडेः स्वर्गतिं ज्ञात्वा श्रीवनस्वामिपार्वतः / तत्पुत्रो जाजनागश्च तत्याज शोकमञ्जसा / जाजनागस्ततः सङ्घ पुरस्कृत्य तमादरात् / रैवते नेमितीर्थेशं ननामाऽनघमानसः / / स्नात्रपूजाध्वजारोपा-वारिकादिविधानतः / जाजनागो निजं जन्म सफलीकृतवान् मुदा / / यतः- " पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं, पुण्यं सञ्चिनुते श्रियं वितनुते पुष्णाति नीरोगताम् / वैराग्यं विदधोति पल्लवयति प्रीतिं प्रसूते यशः, स्वर्ग यच्छति निर्वृति च रचयत्यर्चाहतां निर्मिता // 1 // " जाजनागः पुरे स्वीये समेत्य रुचिरोत्सवम् / परिधाप्य समं सङ्घ विससर्जाऽन्नदानतः।। जाजनांगो जिनावासान् कारयित्वा रमाव्ययात् / सुकृतान्यर्जयामास मुक्तिश्रीदानि भावतः।। श्रीसुव्रतगुरूपान्ते मण्डयित्वा मनोहराम् / नन्दिमुच्चीर्णवान् श्रीदं सम्यक्त्वं जोवडिर्मुदा / तदा सहस्रं सश्राद्धा श्राद्धयः पञ्च शतानि च / सम्यक्त्वं जगृहुमुक्तः सातसन्ततिदायकम् // जाजनागो वितन्वानो धर्म प्रत्यब्दमादरात्। वारत्रयं सुसाधर्म्य-वात्सल्यं तनुते स्म स॥ सङ्घपूजा गुरूणां तु वारत्रयं प्रमोदतः / जाजनागो व्यधाचारु-विस्तरात् स कुटुम्बयुग / / एकां शत्रुजये यात्रां गिरिनारगिरावपि / जाजनागो व्यधोद् भूरि सङ्घयुक्तः सदुत्सवम् // 345 // इति जावडिप्रबन्धः समाप्तः॥