________________ शत्रुञ्जय-कल्पवृत्ती जावडिः स्वगृहोत् प्रगे। गत्वा माण्डविकोपान्ते जगादेति मुदश्चितः // अद्यैष्यन्ति मदीयानि यानानि कुशलेन हि / अर्द्ध शुल्कमहं दास्ये समेतस्यार्थवस्तुनः॥ जगुर्माण्डविका हास्याज् जावडिः श्रेष्टिराडयम् / सुप्तो व्योम्नि निशीथिन्यां निःस्वत्वाद् ग्रथिलोऽजनि // यतः-" निद्रव्यो ह्रियमेति हीपरिगतः प्रभ्रश्यते तेजसा, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति / निविण्णः शुचमेति शोकसहितो बुद्धेः परिभ्रश्यते, निर्बुद्धिः क्षयमेत्यहो ! निधनता सर्वापदामास्पदम् // तेषां हास्यवचः श्रुत्वा जावडिः प्रोक्त. वानिति / जायते भरितं रिक्तं रिक्तं च भरितं पुनः // अरघट्टेषु नाड्यो रिक्ताश्च भरिताः क्रमात् / युष्माभिर्वीक्षिताः किं न भो ! माण्डविकाः किल ? // मदो न क्रियते लक्ष्म्याः सद्भिः स्वहितमिच्छभिः। अहं निःस्वोऽभवं पूर्वो-पार्जितासुकृतोदयात् / / सत्यामपि श्रियि प्रायो दुःखिनो मनुजा घनाः। दृश्यन्ते स्वेप्सिताभाव-सिद्धिामे पुरे पुरे // यतः-“निद्रव्यो धनचिन्तया धनपतिस्तद्रक्षणे चाकुलो निःश्रीकस्तदुपायसङ्गतातः श्रीमानपत्येच्छया। प्राप्तापत्यपरिग्रहोऽपि सततं रोगैरभिद्यते जीवः कोऽपि कथंचनापि नियतं प्रायः सदा दुःखिनः // 1 // " तथापि क्रियतामई शुल्क भवद्भिरञ्जसा / ततो मोण्डविका हास्य-परास्तं प्रत्यवदन्निति // जावडे ! गच्छ ते प्रोक्त-मस्माभिर्मानितं दृढम् / जावडिः प्रोक्तवान् कोऽत्र साक्षी सम्प्रति कथ्यताम् // ततो हास्यपराः शुल्क-ग्राहिणो जगदुः स्फुटम् / अयं वारिनिधिः साक्षी भवतात् प्रकटोदयः।। ततोऽम्भोधितटे गत्वा स्थित्वोच्चस्थानके तदा। यानानि प्रतिवीक्ष्येत पुनः पुनः स जावष्टिः॥ हसन्ति स्म तदा लोका जावडिं मुदिताशयः। त्वं किं मह्यामम्बरे सुप्तोऽथवाऽभूर्यथिलः किमु // न द्वथैतियिने याते येषां शुद्धिः श्रुता मनाग / यानानि तानि किमद्य आगच्छन्त्यद्य जावडे ! // चिन्तितं त्वरितं केषां न शुद्धयति विना वृषम्। पुण्येन जायते चित्त-चिन्तितं तरसो वणिग् // एवं लोकेषु जल्पत्सु वार्द्धिमध्येऽतिदूरतः / प्रादुर्भूतानि यानानि समाजग्मुर्दशां पुरः // तत्रस्थजावडे-ना-दुत्तीर्य वीरमो यदा। अमिलच्च तदाऽनंसी-द्वीरमाशी स जावडिः / / धूल्यानया भावस्वर्णमित्युदन्तं स वीरमः / जावडेः पुरतोऽप्राक्षीत् (प्राह) ततो जहर्ष जावडिः / / यानेभ्यो निखिला धूलीरुत्तार्ययत्ततस्तदा / रहः स्वर्णगेहेऽनैषी-द्यानायातं स वीरमः // बोहित्था हि समस्तापि नाविकेभ्यः स वीरमः / वितीर्य प्रीणयामास स्वन्नवस्त्रप्रदानतः / तदा लोका जगुर्दूली-रभाग्याजावडेगुहे। समागादन्यगेहेषु यानानि निखिलान्यपि / / धमं धर्म ततो धूली-र्जावडिवीरमान्वितः / चक्रे स्वर्णं यदा जगु-स्तदा ते शुल्किनश्च ते // लोभात्ते शुल्किनः शुल्कं पूर्ण जावडिपार्वतः / जगृहुर्हठतो दूनोऽजनिष्ट जावडिस्तदा / / यतः- " तृष्णा खानिरगाधेयं दुःपूरा केन पूर्यते / या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते / / 1 // " मुखं वलिभिराक्रान्तं पलितैरङ्कितं शिरः / गात्राणि शिथिलायन्ते तृष्णैका तरलायते / / ततः खिन्नो भृशं चित्ते जावडिः सिन्धुसन्निधौ / गत्वोपालब्धवान् वार्द्धि तादृशैर्वचनैरिति / / त्वयि साक्षिणि देवे तु सबलेऽपि पयोनिधे ! / शुल्किभिर्वश्चितोऽहं हि पूर्णशुल्कस्य लानतः // प्रादुर्भूय तदो सिन्धु-निर्जरः प्रोक्तवानिति / त्वमितो नगराद्वाह्य-देशे वासं विधेहि भोः ! // ततो जावडिनाऽन्यत्र कृते गेहे पुरावहिः / लोका जगुस्तदा लक्ष्म्या श्रेष्ठयभूद् प्रथिलः किमु // यतः-" अन्धा इव धनान्धाः स्यु-रिति सत्यं तथापि ते / अन्योक्तेनाध्वना गच्छन्त्यन्यहस्तावलम्बिनः // 1 // मदिरामदमत्तो हि किं शृणोति च पश्यति / कमला मदमत्तम्तु न शृणोति न पश्यति // महद्वेलाछलाद्वार्चि-सुरो रुष्टमनास्तदा / लोकान् माण्डविकादीश्च स्वमध्ये प्राक्षिपत् क्षणात् / / ततो मधुमतीलोको जावड़ेः स्वप्नतोऽभितः / उवासान्तः पुरं तच्च