________________ সায়মঃ गुरुमि-मध्ये च समुपेयिवान् // शकुन्यास्यात्तसपस्या-ननात् क्ष्वेडं सुरान्तरे / न्यपतत् सोऽपि तां मौढयात् पपौ मृत्युं गतः क्षणात् / / पातालभवने तन्तु-वायुम॒त्वा तदो क्षणात् / यक्षेष्वजनि यक्षः स कपर्याह्वो लसतनुः / / दृष्ट्वा मृतं पति पत्न्यौ गत्वा मध्ये पुरं द्रुतम् / आलं दत्त्वा गुरोः कारा-गारे प्राक्षिपतां नृपात् // यत :- " पापी रूपविवर्जितः पिशुनवाग् यो नारको नाऽभवत् , तिर्यग्योनिसमागतश्च कपटी नित्यं बुभुक्षातुरः। मानी ज्ञानविवेकबुद्धिकलितो यो मर्त्यलोकागतो, यस्तु स्वर्गपरिच्युतः स सुभगः प्राज्ञः कविः श्रीयुतः॥१॥" ज्ञात्वा कपर्दियक्षस्तु पातालस्थो निजं गुरुम् / कारागारस्थितं ग्रामो-परि प्रस्तरमादधौ / बलिना प्रीणितो यक्षो जगावेष गुरुर्मम / निरागः किं नृप ! क्षिप्तो गुप्तिगेहे त्वयाऽधुना ? / / रोज्ञोदितं गुरुस्ते को-ऽक्षेपि कारागृहे मया। ततः स्वगुरुसम्बन्धं स सुरः प्रोक्तवान् समम् / / देवेन कथिते स्वीय-गुरुसम्बन्ध आदितः। भूपतिः कर्षयामास तं गुरुं सेवते स्म च // अपसार्य शिलां नत्वा गुरुं यक्षो जगावदः / अहं त्वयो गुरो ! नीतः स्वर्गसौख्ये मनोहरे // यतः-" मंसासी मज्जरउ इक्केण चेव गंठिसहिएणं / सोहं तु तंतुवाओ सुसाहुवाओ सुरो जाओ॥ 1 // " मया तमः कृतं भूरि पुरा ह्यविरतितः खलु / निष्पापोऽहं कथं स्यां तु ततः पापाद् गुरो ! वद? // गुरुर्जगाद पापानि लगन्ति देहिनां खलु / छुट्यते तु ततस्तीर्थ-सेवया पुण्यकृत्यतः / / यतः- “वरमेकदिनं सिद्धि-क्षेत्रे सर्वज्ञसेवनम् / न पुनस्तीर्थलक्षेषु भ्रमणं शभाजनम् / / 1 // " एकैकस्मिन् पदे दत्ते पुण्डरीक गिरिं प्रति / भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते / / न रोगा न च सन्तापो न दुःखं न वियोगिता। न दुर्गतिर्न शोकश्च पुंसां शत्रुञ्जयस्पृशाम् // शत्रुजये महातीर्थे श्रीयुगादिजिनक्रमौ / सेवस्व त्वं तथा सङ्घः पद्या निर्विन एति च / / ततो नत्वा गुरुं यक्षो यदाऽगात् सिद्धपर्वते / श्रयितुं वृषभं सार्वं पूर्वपातकपिष्टये / / तदाऽऽदिदेवपादाब्ज-सेवको गोमुखः सुरः / न स्थातुं ददते तत्र कूणं-तस्य कपर्दिनः // ततो दध्यौ कपर्दी च गोमुखं यक्षमजसा। दूरीकृत्य मया सेव्यं तीर्थं शत्रु जयाभिधम् // ततो जावडिना धर्मव्ययं मनषितं पितुः / ज्ञात्वाम्भोधौ गतो नेतुं यानानि मधुके पुरे // आकाशस्थः सुरोऽवादीद् भो वीरम ! वणिग्वरः। मम पृष्ठौ तथाऽऽगच्छ यथा त्वां स्वपुरे नये / तदा यक्षवचः श्रुत्वा वीरमो वहनानि तु। तस्य शब्दानुसारेणा-वालयद्धर्मतत्परः / / इतो जावडिरत्यन्त-दौस्थ्येन पीडितः क्रमात् / बभारोदरमात्मीयं दुःखात्प्रान्ते दिनस्य हि / / मलक्किन्नतर्नु जीर्ण-वस्त्रं दुर्बलविग्रहम् / जावडिं वीक्ष्य जनता हसन्ति प्रतिवासरम् // यतः-“ यस्याऽस्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः / स एव वक्ता स च माननीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते // 1 // निर्दयत्वमहङ्कार-स्तृष्णा कर्कशभाषणम् / नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः॥२॥" भक्त द्वेषो जडे प्रीति-ररुचिगुरुलङ्घनम्। मुखे कटुकता नित्यं धनिनां ज्वरिणामिव // केऽपि सहस्रम्भरयो लक्षम्भरयश्च केऽपि केऽपि नराः। नात्मम्भरयः केचन फलमेतत् सुकृतदुःकृतयोः // पितुर्मनीषितं च यत्पुरा मयका किल / तत्कथं पूर्यते लक्ष्म्यभावाद् दध्यौ स जावडिः / / ततोऽन्यदा निशीथिन्यां सुप्तस्य जावडेः सतः। अभ्येत्यावक् कपर्दी स यक्षो जागृहि जावडे ! // लक्ष्म्यभावात्त्वया खेदः कर्त्तव्यो न हि चेतसि / एष्यन्ति तव यानानि कुशलेन न संशयः / / जावडे ! तरसोत्तिष्ठ पितुर्मनीषितं दृढम् / त्वं पूरय समेष्यन्ति कल्ये यानानि दूरतः। ततस्त्वरितमुत्थाय कपर्दिकवचो दृढम् / स्थिरीकृत्य हृदि स्वीये जावडिर्मुमुदेतराम् // स्मरन् पश्चनमस्कारान्