________________ जावडिप्रबन्धः भूषयत्यन्तरात्मानं वर्णरूपापि भारती // रूपयौवनसम्पन्ना विशालकुलसम्भवाः / विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः // यौवने धनदश्रेष्ठि-सुतां सीताभिधां वराम् / परिणिन्ये शुभे लग्ने जावडिः शम्भुवत् सतीम् // कुर्वाणा विनयं पत्युः श्वश्रु-श्वशुरयोरपि / सीता वितनुते जैन धर्म शिवसुखप्रदम् / / यतः-" शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपातिवित्तमनघं शीलं सुगव्यावहम् / शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निवृतिहेतुरेव परमं शीलं तु कल्पद्रुमः // 1 // " पुण्डरीकाचले तीर्थे चतुर्दशीदिने सदा / गत्वा युगादिदेवस्य जावडिविदधेऽर्चनाम् / / त्रिवारं श्रीजिनेन्द्राचा प्रतिक्रान्ति करन् सदा / वन्दनानि गुरोः पाद-युग्मे दत्ते स्म भावडः // पितृवज्जावडिरपि धर्मकर्माणि भावतः / कुर्वन् धम्मिष्ठलोकानां धुरि रेखामवाप्तवान् / / यतः-" स्थाने निवासः सकलं कलत्रं, पुत्रः पवित्रः स्वजनानुरागः / न्याय्यात्त. वित्तं स्वहितं, च चित्त, निर्दम्भधर्मस्य सुखानि सप्त // 1 // " पित्रा साद्धं गतोऽन्येचुर्जावडिः सिद्धपर्वते / श्रुत्वा तीर्थस्य माहात्म्यं जगादेति पितुः पुरः॥ एकोनविंशतिर्लक्षा रैणां तीर्थे इह ध्रुवम् / व्ययनीया मया र्चायाः स्थापनाच्छिवशर्मणे / / ततो भावड आचष्ट प्रतिज्ञा या कृता त्वया / पालनीया च सा लोह-वनरेखादिवद् दृढम् / / तत्र प्रभोविधायाऽर्चा भावडः सुतसंयुतः। आगत्य सन्ततं धर्मं जैनं चक्रे सुभावतः / / अन्येशुर्भावडो मत्वा जातकात् स्वायुरल्पकम् / गुरूनाकारयामासा-राधनाकार्यहेतवे // सम्यगाराधनां कृत्वा क्षङ्क्त्वा जीवावली समाम् / कारयामास सार्वाचा भावडो जिनसद्मसु / / यत:-" जननं यदि जोतमङ्गिना, मरणं तन्नियतं भविष्यति / इति निश्चयतः प्रमोदभाग् , तदिदं पण्डितमरणमाश्रय // वीरममित्रमाकार्य क्षमयित्वा यथोचितम् / भावड़ोऽवक् सुतोऽयं ते खोलके स्थापितो मया / आमस्तु वीरमेणोक्ते प्रपद्यानशनं तदा / भावडः श्रीजिनाधीश-स्मृत्येकाप्रमना अभूत् / / जगौ सुललिता कान्तं त्वयेष्यामि सहाऽधुना। भावडोऽवक कुलेऽस्माकं न चास्ति काष्ठभक्षणम् / / काष्ठभक्षणतो नार्यों नरा अपि निरन्तरम् / लभन्ते दुर्गतिं भूरिदुःखसन्ततिदायकम् / / यत :-"रज्जुग्गहविसभक्खण जलजलणपवेसतण्ह छुहदुहओ। गिरिसिरपडणाउ मुआ सुहभावा हुंति वंतरिया // 1 // " प्रपाल्याऽनशनं सप्त-विंशतिं वास रान् क्रमात् / भावडः स्वरगोद्यावत्तावत्पन्यशृणोत् स्वयम् // पत्युर्मृतेः श्रुतेऽकस्मात् हुङ्कारवननन्दिनी / भावडप्रिया कुर्वाणा समं सुध्यानमानसाः / / परलोकस्य कृत्यानि मातापित्रोस्तयोस्तदा / जावडिः कृतवानेकस्थानके धर्मशेखरः।। संसारासारतां ध्यायन् शोकं विहाय जावडिः। धर्मकर्मपरो जातो देवगुर्वोनिषेवकः॥ हायनेषु गतेष्वेव कियत्सु जावडिर्जगौ। अद्य वीरम ! मद्गेहे स्तोकैव श्रीनिरीक्ष्यते // पितुः पार्वे मयाऽप्युक्तं लक्षा एकोनविंशतिः / स्वर्णानां व्ययितव्यैव सिद्धाद्रौ पुण्यहेतवे / / गृहलक्ष्मी विलोक्याथ यानान्यष्टादश द्रुतम् / जावडिः सज्जयामास यातुं पाथोधिवर्त्मनि // यत:-" तावन्माता पिता तावत् तावत् सर्वेऽपि बान्धवाः / तावद्भार्या सदा हृष्टा यावल्लक्ष्मीर्गहे स्थिरा // 1 // " आवगप्लवगौ कृत्वा नानाविधक्रयाणकैः / भृत्वा यानानि पाथोधि-मार्गेण वीरमोऽचलत् / / जावडिविहृतिं कुर्वन् धर्मध्यानपरायणः / गुरून् शुश्रूषयामास चक्रे देवार्चनं पुनः // गत्वाऽऽदो सिंहलद्वीपे व्यवसायं वितन्वतः / वीरमस्याभवल्लाभः चतुःपञ्चगुणः क्रमात् / / ततो यानानि गच्छन्ति स्वर्णकूलं प्रति त्वरा / वातेन निन्यिरे दूरं तथा यथाऽध्व वेत्ति न // गोमुखो जावडेर्यान-पात्राणि समीरैस्तदा / चिक्षेप दूरतस्तूलपुजवत् क्रुद्धमानसः / / यानानि यान्ति पाथोधौ समैयुरुद्वसे तटे / क्रमेण तुटितं सर्व