________________ शत्रुञ्जय-कल्पवृत्ती भावाद् जिनदत्तो महीभुजे / ग्रोमान् सर्वान् वितीर्याऽभूद् धनी विहृतिकृत पुनः / / गृहभारं समारोप्य भावडो निमनन्दने / संसारासारतां मत्वा जिनदत्तो ललौ व्रतम् / / यत :-" संज्झरागजलबुब्बु ओवमे जीविए जलबिन्दुचंचले। जुव्वणे नईवेगसंनिभे पावजीव किमियं न बुज्झसे // 1 // " इत्यादि / / जिनदत्तो गुरूक्तानि वैयोवृत्यानि नित्यशः / कुर्वस्तपः परः प्राप देवलोकसुखं क्रमात् // भावडो व्यवसायं तु कुर्वाणो धनमर्जति / दुष्टदोहदसंसूचि गर्भ सुललिता दधौ // दुःस्वप्नैर्दुनिमित्तैश्च मत्वा दुष्टं सुतं निजम् / जातमात्रमभूत् त्यक्तु-कामो भावडनैगमः // सूनोर्जन्मनि विज्ञाय मृत्युयोगं स नैगमः / माल्हाणिसरितः कूले लात्वा पुत्रं समीयिवान् // अनामकतरोः स्कन्धे मुक्त्वा दासीसमीपतः / सुतं श्रेष्ठी रहस्तस्थौ ज्ञातुं तच्चरितं तदा / / रुदित्वा क्षणमेकं स हसित्वा वालको जगौ। स्वर्णलक्षं मया लभ्यं किमदत्त्वा विमुञ्चथ / / तददाने महानर्थो भावडस्य भविष्यति / ज्ञात्वैतच्छ्रेष्ठिराड्दास्यौ जग्मतुः स्वके सद्मनि // कृत्वा वर्धापनं लक्ष्मी व्ययन् स भावडो वणिग् / षष्ठीघोऽव्ययत् स्वर्णलक्षमेकं सुभावतः // रात्रौ स्खलहनं लात्वा पितुः पाश्र्वात् स बालकः / जगाम त्रिदशावासं क्षीणे सर्वायुषि क्षणात् / / यत :-" सीदन्ति सन्तो विलसन्त्यसन्तः, पुत्रा म्रियन्ते जनकश्चिरायुः / दाता दरिद्रः कृपणो धनाढ्यः, पश्यन्तु लोकाः ! कलिचेष्टितानि // याचित्वा पूर्ववत् स्वर्ण-लक्षत्रितयमङ्गजः / स्थितो यावत्तदा धर्मेऽव्ययीत् तदपि भावडः // यतः " एकस्य दुःखं म यावदन्तं, गच्छाम्यहं पारमिवार्णवस्य / तावद् द्वितीयं समुपस्थितं मे, छिद्रेष्वना बहुलीभवन्ति // 1 // " एवं सून्वोयोर्मृत्युं गतयोरपि क्षणात् / भावडो गेहिनीयुक्तो धत्ते शोकं मनाग न हि // यत:-" जे जिणधम्मह बाहिरा ते जाणो वाचारि / उगी उगी खयगया संसारीया संसारी // 1 // " अनित्यानि शरीराणि विभवो नैव शाश्वतः / नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्मसङ्ग्रहः। षष्ठीजागरणे तत्र कृते मृत्यु गते सुते / जनाः प्रोचुर्गहे नास्याभाग्याच्च तिष्ठतः सुतौ // भावउस्य गृहे षष्ठी-जागरी सहते न हि / दुष्टो या निर्जरो कोऽपि श्रेष्ठिनोऽस्याऽऽलये खलु // "अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियः समः / अप्रियैः सम्प्रयोगश्च सर्व पापविजृम्भितम् / / कियत्यपि गते काले गर्भ तृतीयकं शुभम् / दधौ सुललिता सुष्ठु स्वप्नोपसूचितं क्रमात् // शुभेऽह्नि सुनिमित्तैश्च पूर्णै रुचिरदोहदैः। सुषुवे भावङप्राण-प्रिया पुत्रं सुलक्षणम् // ततोऽनामकवृक्षस्या-धस्ताद मुक्तः सुतः स च / हसित्वाऽवग मया रैणां लक्षा एकोनविंशतिः / / देया सन्ति पितुस्तेनाऽवतीर्णोऽस्मीह साम्प्रतम् / अतो हर्षो विधातव्यो मातापित्रादिभिः सदा / युग्मम् // षष्ठीजागरणं कर्तु-कामोऽभूद्भावडो यदा / जिनदत्तसुताऽभ्येत्य जगादेति तदा स्फुटम् // षष्ठीजागरणं सूनो-रस्य चेद्धि करिष्यते / तदा विषोदनान्मृत्युं साधयिष्यामि साम्प्रतम् / / नाम्ना जावडिरेषोऽस्तु जीवतान् म्रियतां च वा। मिथ्यात्वं मुच्यतां जैनो धर्मोऽत्र क्रियतां दृढम् // यत :-" मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः / मिथ्यात्वं परमः शत्रुः मिथ्यात्वं परमं विषम् // 1 // " जन्मन्वेकत्र दुःखाय रोगो वान्तं विषं रिपुः / अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् // षष्ठीजागरणं मुक्त्वा धर्मकृत्यान्यनेकशः / भावहः कारयन् कुर्वन् वर्द्धयामास नन्दनम् // पाठयोग्यं सुतं मत्वा भावडः पण्डितान्तिके / पठनायाऽमुचत्पुत्रं जावडिं विनयान्वितम् // जावडिः प्रपठन् शश्वच्छास्त्राणि गुरुसन्निधौ। सुराचार्य इवाभीक्ष्णं जल्पति स्म बुधः समम् // यतः-“ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन / स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पुज्यते // 1 // " लक्ष्मीः स्वर्णरूपापि पाणिपादेषू योज्यते