________________ आवडिप्रबन्धः पुरतो देशान् साधितुं कोणिको नृपः / गच्छन् लोभान्मृति प्राप वैताढ्याद्रिगुहान्तिकात् // दोषे-गोशालकादयो लोका निघ्नन्तो जिनपादिकान् / दोषलक्षयुता एव दृश्यन्ते शतशो नराः // रागाद्दशाननः सीतां सती नापजहार किम् / द्वारकां नादहत् कृष्ण-द्वीपायनद्विजो रुषा / / व्यसनानि निषेवन्ते प्रायो नराः स्त्रियो न च / प्रायश्चौर्य नराः कुर्युन नार्योऽमलमानसाः // पुण्यश्लोको नलो राजा गुताद्राज्यमपाहरत् / सुप्तां पत्नी वने त्यक्त्वा किं जगाम न दूरतः 1 / / भावडोऽवग गृहिण्या तु प्रदेशी मेदिनीपतिः / विषप्रदानतः किं न निहतः श्रूयते जने ? // जगौ सुललिता पाण्डु-पुत्रान् दुर्योधनो नृपः। हन्तुं नैच्छत् किमु क्ष्वेड-वह्निप्रमुखदानतः // पाण्डवप्रेयसी शील-शालिनी द्रुपदात्मजाम् / वस्त्रापहारतः किं न व्यगोपयञ्च कौरवः ? / / स्त्रीणां कुक्षौ समुत्पन्ना जिनेशाद्या नरोत्तमाः / भारतीयोषितो विज्ञा ज्ञायन्ते च नरा न किम् ? // आदो च लेखशालायां शास्त्राणि पठता त्वया / आराधिताऽऽदराद् ब्राह्मो पुण्यपूजादिदानतः / / सुरापा द्यूतकाराश्च चौरा बन्धकरा नराः / स्त्रियः क्वाऽपि न दृश्यन्ते तादृशोऽतोऽबला वराः / / नोर्यो हीना भृशं पुम्भ्य इति जल्पन्ति दुर्धियः / जननी मरुदेवी तन्निराचक्रे हि तत्क्षणात् // सेवते देववत् कान्तं मृते तस्मिन् मृतिं ब्रजेत् / पत्नी न च पतिः पत्न्यां मृतायां स म्रियात् कचित् // मृते पत्यौ प्रिया सर्व शृङ्गारं त्यजति ध्रुवम् / न कापि दृश्यते मुञ्चन् शृङ्गारं पुरुषः खलु / / मृतायां सहचयां तु नवीनार्याः कृते पुनः / परिधत्ते नरो वर्य-वस्त्राभरणसञ्चयम् // मृते पत्यौ पति चान्यं नारी नाङ्गीकरोति हि / मृतायामपि पत्न्यां तु नरोऽन्यां घृणुते प्रियाम् / / प्रिया लक्षमिता अङ्गी-कुर्वन्नपि वरो नरः। द्वितीयं पुरुष चाङ्गि-कुर्वती निन्द्यतेऽबला ॥धारयन्ति धृतां नारी ये तेऽपि स्युर्जना वराः / विंशविझोपकान् स्वस्मिन् ख्यापयन्ति सदा जने॥धृतपत्नीभवाः सर्वे विशोपका दश स्फुटम् / श्रूयन्ते कुतुकं ह्येतत् यत् कूटपरा नराः॥ एवं पुंसां चरित्रं तु चमत्कारकरं भृशम् / अन्यायो निर्मितोऽन्येन पतेदन्यस्य मस्तके // प्रेयस्यैवनराः प्रायः ख्याताः स्युः सुखिनः पुनः / गृहं च शोभते नार्या वर्यया सन्ततं ध्रुवम् / / यत :-" विधाता विश्रुतो ब्राहम्या गिरीन्द्रो गिरिजातया / समुद्रोऽपि श्रिया जज्ञे कृष्णोऽपि रमया श्रुतः॥ स्वस्मादन्यगृहे यान्ती स्त्रीभवत्यसती किल / नरो गृहशतेष्वेव भ्रमन्नपि च सन् स्मृतः / / गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणं / किं किं न फलति गृहिणां गृहिणी गृहकल्पवल्लीवत् // विद्यायाः क्रियते नैवा-हङ्कारो विदुषा कचित् / यतोऽहङ्कारतोऽमुत्र परत्र वाऽसुखं श्रयेत् / / यत :-" ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः? / अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? / / विषभारसहस्रेण वासुकिः नैव गर्जतिः। वृश्चिकस्तृणमात्रेणाप्यूचं वहति कण्टकम् / / बलिभ्यो बलिनः सन्ति वादिभ्यः सन्ति वादिनः / धनिभ्यो धनिनः सन्ति तस्मादप्पं त्यजेद् बुवः / / अतस्त्यक्त्वा गुणिद्वेषं त्वं मुक्त्वा स्वं कदाग्रहम् / विमृश्य चेतसा सम्यग् गुणिरागत्वमाश्रय / / असङ्ख्यैरपि नात्मीयैः स्वल्पैरपि परस्थितैः / गुणैः सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् // यथा यथा परां कोटि गुणः समाधरोहति / सन्तः कोदण्डधर्माणो विनमन्ति तथो तथा // एवं तस्या वचोयुक्त्या जितमात्मानमजसा / मन्यमानोऽनुरागं स दध्यौ सुललितास्त्रियि // मातापित्रोर्द्वयोः प्रीतौ जातायां तत्र तत्क्षणात् / हर्षाद्वैतमभूद् बोढमिन्दुः सिन्धोरिवामितः // ततो महोत्सवाद्वैतं भावडस्तां कनीनिकाम् / परिणिन्ये शुमे लग्ने सर्वसज्जनसाक्षिकम् / / इतः श्रीविक्रमादित्ये धर्मध्यानपरायणे / दिवं गतेऽभवद् भूपो विक्रमाच्चरितामिधः // पालयन् स नृपः पृथ्वी न्यायमार्गेण सन्ततम्। याचते स्म गजं श्वेतं जिनदत्तं धनाधिपम् / वलक्षकुञ्जरा