________________ 108 शत्रुञ्जय-कल्पवृत्ती माराध्य विलसद्विधि / वरं प्रापेति सा कन्या सरस्वत्याः समीपतः।। गच्छ तत्राधुना वत्से ! यद्यद् वक्षि वचः स्फुटम् / तत्तत् सर्वं विजेतैव भावडस्य भविष्यति // यत :- अमोघा वासरे विद्यदमोघं निशि गर्जितम् / नारीवालवचोऽमोघममोघं देवदर्शनम् // ध्यात्वेति भारती नत्वा कन्या सुललिता क्षणात् / सखीयुता ययौ वादं कर्तुं मधुमतीपुरि / / श्रेष्ठिनो जिनदत्तस्य गृहोपान्ते कनी तु सा। तृणपूलं विमुच्याम्बु-घटमुच्चजगाविति / / यो जेजेति तु वादेन मामत्र स्त्रीनृसाक्षिकम् / तं घृणीषेऽन्यथा वह्निः शरणं मेऽत्र भवे ध्रुवम् // न यो जयति मा मो वादे वचनयुक्तिभिः। खादतात् तृणपूलं स पिबतात् सलिलं पुनः / / जल्पन्तीं तां कनीं दृष्ट्वा भावडः प्रोक्तवानिति / रे मूर्ख ! किं त्वयालज्जा मुक्त्वैवं जलप्यते स्फुटम् / लज्जा चेन्मुच्यते नार्या सतीत्वप्रतिपादिका / गच्छ तातगृहे वादं मुक्त्वा श्रेष्ठितनूभवे ! / / यत :-" आवतः संशयानामविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् / अग्राह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं, स्त्रीयन्त्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् // 1 // " अलीकं वचनं माया लोभं दम्भं कदाग्रहम् / कुर्वाणा योषितो वश्च-यन्ति स्वीयजनानपि / / यत :-" स्त्रियोऽलीकवचोमाया-विन्योऽतिनिर्दया सदा / अपवित्रा जडा लोभ-बहुला दोषमन्दिरम् // 1 // " ततस्तासां कथं स्त्रीणां सङ्गः सद्भिर्विधीयते ? / स्त्रीमिर्जना न केऽनर्थे पात्यन्ते पातिताः पुनः / / अत्र कपटमायादिविषये मयूरिकाकथा // अनृतं साहसं माया मूर्खत्वमतिलोभता / निःस्नेहो निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः // श्रुत्वैतद्वचनं सोचे सत्याऽऽसील्लौकिकी श्रुतिः / पश्यत्यद्रौ ज्वलत् सर्वः पदाधो नैव कश्चन / “राइसरिसवमित्ताणि परछिद्दाणि पाससे। अत्तणो बिलमित्ताणि पासंतो न वि पाससे // 1 // " दोषाधैर्दूषिता नार्यः शास्त्रैर्वर्ण्यन्त एव तु / पुरुषा अपि नारीभ्यो-ऽधिका दोषैर्भवन्ति हि // पुराणे कथ्यते सत्यवादी राजा युधिष्ठिरः / धर्मपुत्रो दयाशाली नरचूडामणिश्च यः। स एव सङ्गरे द्रोणं गुरुं वृद्धं द्विजोत्तमम् / हतवान् वाक्प्रपञ्चेन वेत्तीदं निखिलो जनः / / अश्वस्थामा हतः पार्थबाणैराग युधिष्ठिरः / क्षणाधुधिष्ठिरः प्राह न नरः कुञ्जरः पुनः / / मायाविन्यः स्त्रियः प्रायः पुमांसः सरलाशयाः / इत्युक्तिर्वणिजां पुंसि समग्रापि निराकृता / / श्रुत्वा दुर्वाक्यमुच्चैर्हसति मुषति च स्वीयमप्यन्यलोकं, द्वयर्द्धं गृह्णाति पण्यं बहु किमिति वदन्नर्द्धमेव प्रदत्तम् / स्वीयान्यायेऽपि पूर्वं ब्रजति नृपगृहं लेखके कूटकारी, मध्ये सिंहप्रतापी प्रकटमृगठगः स्याद्वणिग धूर्तराजः / / दारुमातङ्गकौटिल्यात् प्रद्योतः काननोन्तरे / बबन्धोदयनं यच्च न ख्यातं विद्यतेऽभितः ? / / कूटप्रद्योतरचनात् प्रद्योतं भूमिभुगपथि। यच्चाभयोऽहरन् मन्त्री तद्धि मायाविजृम्भितम् / / निर्दयत्वेकंसोऽनैषीद्यमावासं वसोर्बालकसप्तकम् / मण्डयित्वा छलं सार्द्ध वसुदेवेन भूभुजा / / 'विश्वामित्रो जगत्ख्यातस्तपस्वी करुणोपरः / वशिष्टं हतवान् क्रोधात्तथा पुत्रशतं पुनः।। अपावित्र्ये-नायर्यो यान्ति विना कच्छां जिनावासादिषु स्फुटम् / सुस्नाता अपि नो यान्ति नराः किमत्र कारणम् ? / / मूर्खत्वे-मूर्खत्वात् सचिवाः के के वेद्य वेदिततोहिताः / नियोगितां पुनर्लान्तो दृश्यन्ते सर्वतो जनैः / / लोभे-हन्तुं बाहुबलिं स्वीयं भ्रातरं ऋषभाङ्गजम् / चक्रं न भरतोऽमुञ्चल्लोभेन किं हि भावड ! // सोदरं मानितं वाचा चिन्तितं चापि मानक्म् / न नन्ति योषितः प्रायः घ्नन्त्येव पुरुषाः पुनः // यतः-" सहोदरः सहाध्यायी मित्रं वा रोगपालकः / मार्गे वाक्यसहायस्तु भ्राता पञ्चविधः स्मृतः // 1 // " लोभेन धातकीखण्डं साधितुं वारिधौ प्रजन् / स भूपः सार्वभौमोऽपि ममज्ज किं न सैन्ययुग ? | वैताढयात्