________________ আমি 107 स्थानकुण्डलनामभिः। विख्यातं विद्यते स्थान-कुण्डलं नगरं वरम् // तत्र भीममहीपालः परमारकुलोद्भवः। न्यायाऽध्वना महीं रक्षन् विख्यातोऽजनि सर्वतः // नेमदत्तधनेशस्य नेमिदत्ता प्रियाऽजनि / क्रमात्तयोः सुतो वों जिनदत्ताभिधोऽभवत् // छलं कृत्वाऽन्यदा भूपः स्वर्णलक्ष हठाद् ध्रुवम् / जग्राह जिनदत्तस्य समीपात् स्तन्यतत्परः // यतः-" लोकेभ्यः करमादाता चौरेभ्यस्तैन्यरक्षिता / तदीयेलिप्यते राजा पातकैरिति च स्मृतिः // 12 // जत्थ राजा सयं चोरो भाँडओ य पुरोहिओ। दिसं वयह नागरया जायं सरणओ भयं // 2 // " आलोच्येति ततः श्रेष्ठी मधुमत्यां पुरि क्रमात् / अर्द्ध वास व्यधालक्ष्मी-समुपार्जनहेतवे / / व्यवसाय वितन्वानो जिनदत्तो निरन्तरम् / यानानि प्रेषयामास वाडौं विभवहेतवे / / यतः- “पाषाणेर्वाहनैस्ताक्ष्यैः कर्पासैः परसद्धनैः / लक्ष्मीमर्जयति स्मैव प्रायो जनोऽखिलः खलु / / 1 // " बोहित्थेनान्यदा श्वेत-गजः शक्रगजोपमः। आगतो जिनदत्तस्य गृहे स्वरतरुवद् वरः।। श्रेष्ठी दध्यौ गजः श्वेतो घटते भूपमन्दिरे / न तिष्ठत्यपरेषां तु गेहेष्वेव कदाचन / / " सव्वत्थ अत्थि टाणं रासहतुरयाणमहिसमेसाणं। इक्कं गयंदरस पुणो रायहरं अहव वणवासो॥१॥" तेनैव हस्तिना श्रेष्ठी विकमार्क महीपतिम् / तोषयामास पाथोदो मयूरगर्जितेन वा॥ प्रामैश्चतुरशीत्या तु सहितं मधुकं पुरम् / प्रददौ जिनदत्ताय मुदितो मेदिनीपतिः // समेत्य मधुमत्यां तु प्रामान् सर्वान् विभज्य सः / दत्त्वा स्वकेभ्य आमोदाज्जैन धर्म सदा व्यधात् // जिनदत्तप्रियाऽसावीद् देवी जयतलामिधा / नन्दनं मदनं पद्म-वासेव शुभवासरे // जन्मोत्सवं पिता कृत्वा भावडाह्वां प्रमोदतः / सूनोर्ददौ ततः शश्वल्लाल्यते स्वजनैः सदा // यत :" उत्पतन् निपतन् रिङ्खन् हसन् लालावलों वमन् / कस्याश्चिद् देव ! धन्यायाः क्रोडमाक्रमते सुतः॥ त्रिवार्षिके क्रमाजाते भावडे नन्दने सति / ययौ जयतला देवी देवस्य मन्दिरे रयात् // यत :" आयुषो राजचित्तस्य पिशुनस्य धनस्य च / खलस्नेहस्य देहस्य नास्ति कालो विकुर्वतः // 1 // " ज्योतिष्ककास्सुतस्यैव तस्य मत्वा शरच्छतम् / जिनदत्तोऽग्रहीद् ब्रह्म-व्रतं धर्मगुरोः पुरः // यत :" अक्खाण रसणी कम्माण मोहणी तह वयाण बंभवयं / गुत्तीण य मणगुत्ती चउरो दुक्खेण जिप्पंते // 1 // " क्रमेण भावडो वर्द्ध-मानः पण्डितसन्निधौ / विनयेनाऽपठद् भक्त्या शास्त्राणि धर्मकर्मणः / / मधुमत्या समीपस्थे प्रामे आसमनामके / श्रेष्ठी वाकरोऽसावीत् पुत्री स ललिताभिधाम् // वर्द्धमाना क्रमात्पुत्री तन्वती मोदमन्वहम् / मातापित्रोः सुशास्त्राणि पपाठाऽमलमानसा // यत :-" तृतीयं लोचनं ज्ञानं द्वितीयो हि दिवाकरः। अचौर्यहरणं वित्तं विना स्वर्ण विभूषणम् / / 1 / / ज्ञानाद् विदन्ति खलु कृत्यमकृत्यजातं ज्ञानाचरित्रममलं च समाचरन्ति / ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं हि मूलमतुलं सकलश्रियां तत् // 2 // " पुत्रीं यौवनसम्प्राप्तां वीक्ष्य दध्यौ पिता हृदि / बिलोक्यते घरो वयर्यो यस्याः पुत्र्याः पुरे पुरे // ताहगवर्यवराप्राप्त्या श्रेष्ठी पनाकरस्तदा / दोदया तनते तीन. हृदय वीक्ष्य नन्दिनीम् // यत :-" जम्मंतीए सोगो वड्ढेतीए वड्ढए चिंता / परिणीयाइ दंडो जुवइपिया दुक्खिओ निरचं // 1 // " गत्वा वाकरः श्रेष्ठी मधुमत्यां पुरि क्षणात् / जिनदत्तालये पुत्र्या विवाहाथं गतो जगी। ममास्ति नन्दिनी पुत्रो पर्योऽस्ति तव भावडः / अतस्तयोर्विधीयेत विवाह आत्मभितम् / विवाहो मेल्यते यावत्ताभ्यां तावत् स भावडः। तत्रत्यावर विवादेन यो मा जयति भामिनी // तामेवाहं लसद्रूपामपि चश्चत्कुलोद्भवाम् / परिणेष्येऽन्यथा नैव प्रतिक्षेति कृता मया // ततः वत्राकरः कृष्णा-नन उत्थाय तगृहात् / ययौ निजे गृहेऽऔषी-दिदं सुललिता तदा // ततः सरस्वती देवी