________________ शत्रुक्षय-कल्पवृत्ती प्रणम्य प्रोक्तवानिति / अहं वृद्धोऽभवं सूरे ! गृहाम्यनशनं द्रुतम् // यद्यायुर्मे भवेत् स्तोकं गृह्णाम्यनशन तदा / ततो विलोक्य सूरीशो द्विजस्य पुरतो जगौ / सागरद्वयमानं तु तवायुर्विद्यते द्विज ! / तेन त्वं प्रथमस्वर्ग-स्वाम्यसि द्विजसप्तम ! // द्विजपृष्टस्तदा सूरि-निगोदस्याखिलस्य हि / विचारं प्रोक्तवान् सीम-न्धरस्वामिवदाऽऽदरात // ततः स प्रकटीकृत्य रूपं शक्रो गुरोः पदौ / नत्वोवाच यथा सीम-धरोऽवग् त्वं तथा भवान् / / यथा त्वं स्वामिना सोम-न्धरेणोक्तस्तथाऽसि भोः! / शत्रजयस्य माहात्म्यं प्रभुणा जगदे पुनः // अहं वन्दितुमिच्छामि साधूंस्ते शिवहेतवे / तेन यावदिहाऽऽयान्ति साधवोऽस्थामहं प्रभो ! // गुरबो जगदुः शक्क ! रूपं वीक्ष्य तवाधुना / निदानं स्वर्गर्वाचं-यमैश्च बन्धयिष्यते / / अन्येषां रूषसम्पत्ति-प्रभृतीन् केचनाङ्गिनः / बाह्यारघट्टमेवेह विक्रीणते तपो निजम् // पूर्व चन्द्रपुरे चन्द्रो नैगमो दुस्थितो भृशम् / गुरुपाइर्वे वृषं श्रुत्वा जग्राह व्रतमञ्जसा / / गुरुणोक्तं तपस्तीनं कुर्वाणः स यतिः सदा / तृणायैव निजं देहं मन्यते कचिदेव तु / / यतः-" यहरं यदराराध्यं यच्च दूरे व्यवस्थितम् / तत् सर्व तपसा साध्यं तपो हि दुरतिक्रमम् // 1 // " धर्मसम्बलतः स्वर्गः श्वभ्रं पापफलोद् भवेत् / सुखं दुःखं विदित्वा च यदिष्टं तत् समाचर // कुर्वाणं तं तपस्तीबं श्रुत्वा भूपादयो जनाः / अहमहमिकापूर्व सेवन्ते प्रतिवोसरम् / / अन्यदा भूपतिः सान्तः-पुरो भूर्यनुगान्वितः / वन्दितुं तं यति पुर्यां समागान्मुदिताशयः॥ भूपः सान्तःपुरो भक्त्या वन्दित्वा तं यतीश्वरम् / स्थितो यावत्तदा धर्म-लाभं स ददौ किल / / भूपते ऋद्धिमालोक्याऽच्युतस्वर्गगमोचितम् / अर्जितं स्वतपः साधुळययामास वेगतः।। यद्यसि तपसः किश्चिन्माहात्म्यं जायते स्खलु / तदा ममेदृशी ऋद्धिर्भूयाद् भवेऽग्रिमे द्रुतम // मृत्वा प्रान्ते यतिः सोऽपि राज्यमग्रे. तने भवे / प्राप्य पापं तथा चक्रे यथाऽगान्नरके क्रमात् / / ततो धर्मस्य शालाया द्वारमन्यत्र वासवः / कृत्वा स्वर्गेऽगमन्नत्वा गुरोश्चरणवारिजे / / विहृत्य साधवो द्वारमवीक्ष्योचुर्गुरुत्तम ! / क्वास्ति द्वार ततः प्रोचुर्गुरवो विद्यतेऽन्धितः / द्वारे गुरूदितेऽभ्येत्य साधवो जगदुर्गुरुम् / अन्यत्राभूत्कथं द्वारं शालायाः साम्प्रतं गुरो ! // ततो गुरूदिते शक्रा-गमोदन्तेऽखिले तदा / साधवो बभणुः शक्रः कथं स्थाप्योऽभवत्त्वया // गुरुः प्राह मरुद्रूपं दृष्ट्वा कचिच्च साधषः। निदानं बध्नतेऽतो न तस्थौ शक्रोऽत्र संयताः ! // श्रुत्वैतत् साधवो वक्त्राद् गुरोः प्रतिदिनं तदा / तथा चक्रुस्तपो मुक्तिर्यथा स्यादप्रतः क्रमात् // 36 / / . इति कालकसूरिसम्बन्धः / जावडि बिंबुद्धारे अणुवमसरमजियचेइअट्ठाणे / जहिं होहि जयउ तयं सिरि सित्तुंजय महातित्थं // 31 // 'जावडेः ' भावडपुत्रस्य सौराष्ट्प्राग्वाट्कुलोद्भवस्य बिम्बोद्धारोऽजनि तथा क्रमादजितनाथचैत्यस्थाने अनुपमसरो भविष्यति, वस्तुपालतेजःपालौ मन्त्रिणौ तयोर्ललितादेवीअनुपमे पत्न्यौ जाते, ललितया ललितासरः कारितम्, अनुपमया-अनुपमसरः कारितमजिततीर्थप्रासादस्थाने, ‘होही' भावष्यति यत्र गिरौ तत्तीर्थं शत्रुञ्जया जयतात् // आदौ जावडिबिम्बोद्धारः कथ्यते, तथाहि पाश्चालविषये क्षोणी-भामिनीभालभूषणम् / स्थानकुण्डलनामाऽभूत पुरं सुरपुरोपमम् / / तस्य चत्वारि नामानि विख्यातानि महीतले / बभूवुर्लोकदत्तानि चतुर्युग्या क्रमादिति / / कुडुकुण्डोलकम्पिल्लि