________________ शिलादित्यभूप-धनेश्वरसूरिसम्बन्धः जग्रोह भोजभूपालः सम्यक्त्वमूलमात्मना / पुरमध्ये जिनागारं दुन्दुका मनोहरम् / कारयित्वाऽऽदिदेवस्य बिम्ब न्यवीविशन्मुदा // विहारा अर्हतां वर्या अनेके मेदिनीतले / भोजेन कारिता मुक्ति-सोतसन्ततिहेतवे // नन्नसूरीश्वरोऽन्येधुर्भोजस्य पुरतो जगौ / यः पुण्डरीकभूमिधे स स्याच्छिवंगमी ध्रुवम् / / यत :-" शत्रुजये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् / सागराणां सहस्रं तु ध्यानालक्षमभिग्रहात् // 1 // " नमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः / गजेन्द्रपदजं नीरं निर्द्वन्द्वं भुवनत्रये // यो दृष्टो दुर्गति हन्ति प्रणतो दुर्गतिद्वयम् / सङ्घशाहत्यपदकृत् स जीयाद्विमलाचलः // " आरम्भोणां निर्वृतिर्द्रविणसफलता सङ्घवात्सल्यमुच्चै निर्माल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् / तीर्थोन्नत्यं सम्यक जिनवचनकृतिस्तीर्थसत्कर्मसत्त्वं, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि // 1 // " पल्योपमसहस्रतु ध्यानालक्षमभिग्रहात् / कर्म क्षीयते मार्गे सागरोपमसञ्चितम् / / श्रुत्वेति नन्नसूरीश-पार्वे भोजमहीपतिः / शत्रुञ्जयादितीर्थेषु यात्रां विस्तरतो व्यधात // पूर्वराजर्षिभूपानां यशांसि विपुलान्यपि / उद्धार करन् धर्म-कृत्यानि भोजभूपतिः / / भोजभूपं वितन्वानं धर्मं वीक्ष्यान्यमानवोः / विशेषतो मुदा चक्रुः धर्मकृत्यानि भूरिशः / / इति आमभूपतत्पुत्रदुन्दुकभोजबप्पभट्टिसूरिसम्बन्धः // अमुक्तोऽपि सक्षेपात शिलादित्यभूप-धनेश्वरसूरिसम्बन्ध उच्यते / तथाहि-शशिगच्छनभःसूर्यः सूरिरासीद् धनेश्वरः / अनेकशास्त्रपाथोधि-पारगो विमलाशयः // वलभिनगराधीशं शिलादित्य नरेश्वरम् / बोधयामास सर्वज्ञ-धर्मं सूरिधनेश्वरः // तीर्थं शत्रुञ्जयं बौद्ध-गृहीतं वादसङ्गरे / जित्वा बौद्धान् लसद्वाद-बाणैरवालयद् गुरु: // शिलादित्येन भूपेन स्वकीयमण्डलात्तदा / बौद्धा निष्कोशिता जग्मु-रन्यत्र विषये रयात् / / सप्तसप्तत्यधिकचतुः-शतेषु विक्रमात् / शिलादित्योऽभवद्राजा यात्राकृत सिद्धपर्वते / / वीरनिर्वाणतो वर्ष-शतेष्वेकोनविंशतौ। चतुर्दशसु वर्षेषु गतेषु केकिनन्दनः // चैत्राष्टम्या नृपे विष्टो पाटलीपुत्रपत्तने / कल्की भावी चतुर्वक्त्रो नामत्रयसमन्वितः / / रुद्रश्चतुर्मुखः कल्कीति नाममित्रिभिः स च / वर्द्धिष्यतेऽथ चाण्डाल-सदने प्रतिवासरम् // तस्य जन्मनि वातेन स्तुपौ गोगलिकृष्णयोः / पतिष्यतः कुठारेण छिन्नभूमीरुहाविव // ततः सप्तेतयो भीति-दुर्भिक्ष डम्मरोदयः / महीभुजविरोधश्च भविष्यन्ति महीतले / / अतिवृष्टिरनावृष्टि-मुख्यकाः शलभाः शुकाः। स्वचक्रं परचक्र च सप्तता ईतयः स्मृताः / / वर्द्धमानः क्रमादश्म-मयमश्वं चदिष्यति / यदा कल्की तदाऽश्वः स चलिप्यति चतुःपदैः / / अरिष्टमेतदित्युच्चैर्जल्पद्भिर्मानवैर्यदा / हन्तुमागत्यैत्यावत्तावन्नष्टः पुमान् स च // तमेव देवताऽधिष्ठा-तृकं तुरङ्गमं वरम् / आरुह्य चलितः कल्की चतुर्वक्त्रोऽभ्रमद् भुवि / / स च षोडश वर्षाणि सामान्यनृपतिर्भवन् / पत्रिंशत्वत्सरान्ते स राजा कल्की भविष्यति // पाटलिपुत्रनगरे तस्य राज्याभिषेचनम् / करिष्यन्ति नृपा एत्य शतसङ्ख्याः प्रमोदतः // त्रिखण्डं मेदिनीपीठं साधयिष्यति सोऽचि. रात् / खानयिष्यति नन्दस्य राज्ञः स्तुपांश्च रैमयान् // द्रव्यार्थं नगरपाम-मेदिनी खानयन् सदा / प्राप्स्यति भूरि विभवं निर्द्रव्यान्तां करिष्यति // खन्यमाने पुरे कस्मिन् धेनु-लवणसंज्ञिकाम् / निस्सरिष्यति भूम