________________ 102 शत्रुअय-कल्पवृत्ती " तवनियमसुट्ठियाणं कल्लाणं जीवियंपि मरणं / जीवंति जंति गुणा मुयावि पुण सुग्गई जंति // 1 // " इतो दुन्दुकभूपेन सूरिभिः सह येऽनुगाः / प्रपितास्ते समाजग्मुः दुन्दुकक्षोणिपान्तिके / / गुरूणां मृतमाकर्ण्य तेभ्यो दुन्दुकभूपतिः / वज्रोहत इवातीव दुःखितोऽजनि चेतसि // मन्त्रिभिः स्फुटितः शोको दुन्दुकस्य महीपतेः / बप्पभट्टिगुरोर्वर्य-गुणान् भूपोऽस्मरत् सदा // भोजेन मातुलावास-स्थितेन पितृ. चेष्टितम् / बप्पभट्टिगुरुस्वान्त-चेष्टितं ज्ञातमेव च // बप्पभट्टिगुरोर्मृत्यु श्रुत्वा भोजो नृपाङ्गजः / क्षणं वाहतो भूत्वा दुःखं वितनुतेतराम् / / बप्पभट्टिगुरोस्तुल्यो विद्यतेऽन्यो गुरुर्नहि / अस्मदथे यतो मार्गे देवलोकं समागमत् // एकदा मालिकः पूर्व-भृत्यो भ्रान्त्वा भुवस्तलम् / भोजं नत्वा जगौ भीमवनेऽहं समुपागमम् // गुरोर्मुखान्मया तत्र विद्यैका प्रापि सुन्दरा / तयाऽभिमन्यते मातु-लिङ्गं सूर्यदिने किल / / तेनाहता हया मात-ङ्गजा नरा बलान्विताः / निर्वला आशु जायन्ते वश्यो वैरी भवेद् द्रुतम् / तेन दत्तं तु भोजेन गृहीतं वीजपूरकं / भूरि तस्मै ददे दानं सद्वस्त्रादिपुरस्सरम् // अभिमन्त्र्य बहून् मातु-लिङ्गान् भोजोऽजयद् रिपून् / यदा तदा जगौ मातृ-भ्राता राज्यं पितुः श्रय // मातुलोत्साहितो भोजः कियदलसमन्वितः। मातुलिङ्गप्रयोगेण जयन् शत्रून् चचाल सः॥ ओगत्याऽथ पितुर्दश-पार्वे ज्ञापितवानिति / राज्यार्थमिहायातो रोज्यं वितर सूनवे // त्वं पूज्योऽसि पिता मे तु राज्यं त्वत्तोऽथवा मृतिः / सुतस्य वचसा राजा तुष्ट आकारयत् सुतम् / / बीजपूरेण भूपस्य कुबुद्धिदायिनी धुरि / कण्टिकां गणिका भोजोऽप्रेषयद्यमसद्मनि / / दुन्दुको बलिनं पुत्रं विज्ञाय राज्यमजसा / वितीय सूनवे तीर्थयात्रां च तनुतेतराम् / / गत्वा शत्रुञ्जये तीर्थ क्रमादनशनं तदा / गृहीत्वा निर्जरावास-मलंचक्रे सुभावतः / / उपविष्टः पितूराज्ये भोजो मातुः पदाम्बुजम् / सेवते स्म गुरोः पादौ पालयन् पृथिवीं नयात् / / प्रत्यर्थिनो महीपाला विभ्यतोऽभ्येत्य सत्वरम् / सेवन्ते भोजभूपाल-चरणम्बुजयामलम् / / भोजोऽथ स्वानुगान् प्रेष्य मोढेरकपुरे वरे। श्रीनन्नसूरिगोविन्द-सूरी व्यज्ञपयद्यथा / / मोढेरकंपुरे गोप-नगराद् भोजभूपतिः / श्रीननसूरिगोविन्द-सूरी व्यज्ञपयद्यथा // श्रीवप्पट्टिसूरीशाः प्रज्ञागङ्गाहिमाद्रयः / प्रबोधितजगल्लोका वाणीनिर्जितसूरयः / / महाशया लसत्सामा-चारीकरणतत्पराः / आराध्य सुचिरं दीक्षां स्वर्गलोकं समागमन् / तत्स्थाने साम्प्रतं दीर्घा-युषो यूयं गुरूत्तमाः / सर्वशास्त्राब्धिपारीणा वर्तध्वे जगतीतले // दृष्टविज्ञप्तिमात्रेण विधाय करुणां मयि / अत्रागम्यं वयं सद्यो वन्दाप्या गुरुभिः किल / / वाचयित्वा तदा लेखं प्रेषितं भोजभू भुजा / मुक्त्वा मोढेरके-सूरिगोविन्दं नन्नसूरयः / / सुसाधुश्रेणिसं युक्ताः सङ्घमापृच्छय वेगतः। शुभेऽनि चलिता गोप-गिरि प्रति कृतत्वराः / / युग्मम् / / नन्ननरिं समायातं निशम्य भोजभूपतिः / पादचारी पुरात् स्वीयात् सन्मुखं निर्ययौ रयात् / भोजभूपो गुरोः पादौ नत्वाऽ. थिभ्यो ददद्धनम् / अग्रे कृत्वा गुरुं राज-मार्गेऽचलन्मुदन्वितः।। स्थाने स्थाने वितन्वानो नृत्यादि गणिकान्तिकात् / पूरयन् मौक्तिकैर्भोजश्चचाल स्वस्तिकं वरम् // हारो हार हुंदावस्थो बाहुभिर्वाहुरेव च / आस्फो. लन्तो जनाश्चेलुगुरुभिः सह तत्र तु / / भोजो लक्षमितान् टङ्कान् प्रवेशे श्रीगुरोः पुरे। व्ययामास मुदा सङ्घभक्तिं कुर्वन् पदे पदे।। उपाश्रये समागत्य सिंहासने मनोहरे। उपविष्टा गुरूत्तंसाः प्रददुर्धर्मदेशनोम् / / राज्य सुसम्पदो भोगाः कुले जन्म सुरूपता। पाण्डित्यमायुरारोग्यं धर्मस्य तत्फलं विदुः।। धनदो धनमिच्छूनां कामदः काममिच्छताम् // धर्म एवापवर्गस्य पारम्पर्येण साधकः॥ भोजः प्राह मया तातं हिंसितुं चिन्तितो भूशम् / तस्मात् पापा-मम श्वभ्र-पात एव भविष्यति / / आलोचनां गुरोः पार्वे लात्वा धम्म जिनोदितम् /