________________ आमभूप-तत्पुत्रदुन्दुक-भोज-बप्पभट्टिसूरिसम्बन्धः तत् त्वं कुरु यथोचितम् // ज्ञात्वैतद् दुन्दुको भूपो वाहत इव क्षणम् / स्थित्वा दत्त्वा धनं ज्योति-षिकं विसृष्टवाँस्तदा // एनां वार्तां तदा भोज -जननीदासिकाऽशृणोत् / ततस्तयोदिता भोज-जननीसन्निधौ च सा / / कलावती मृतेः पत्यु-भिया सूनोश्च शङ्कया। सचिन्ता मुद्विषोदाभ्यां व्याप्ता बभूव तत्क्षणात् / / कण्डिका गणिका प्राह राजन् ! श्याममुखं किमु ? / राजोऽवक क्रियते किन्तु कृतान्तः कुपितो मयि / / ज्ञानिनोक्ता मृतिम तु भोजपुत्रस्य पार्वतः। कण्टिका प्राह भोज तु मारयाऽऽशु दुराशयम् / / राज्यलुब्धः सुतं हन्ति मातरं पितरं गुरुम् / यो हन्ता ते सुतः सोस्ति सुतरूपात् स शात्रवः / / कण्टिकोक्तेः सुतं हन्तुं छन्नं वाञ्छति दुन्दुकः / इतो भूपमनो जज्ञौ भोजमाता कलावती // ततः सा भोजजननी पाटलीनमरे वरे। लेखेनाऽज्ञापयद् भ्रातु-श्चन्द्रस्य पतिचिन्तितम् / / भाग्नेयो भवतः सद्यो विनंक्ष्यति स्वभावतः / त्वयि सत्यप्यहं पुत्र-रिक्ताऽभविष्यमञ्जसा / ततश्चन्द्रपुरे तत्र समेत्य सोत्सवछलात् / भाग्नेयं पाटलीपुर्या भोज निनाय तत्क्षणात् / / ततस्तत्र स्थितो भोजः शस्त्राभ्यासं करन् सदा / धनुःकलाप्रवीणोऽभूद् विशेषान्मातुलान्तिकात् // इतोऽवक् कण्टिका भूपं शत्रुरूपसुतस्तव / वर्द्धते मातुलस्यैव गृहे बलिमतल्लिका / / ततश्छन्नमत्रानोय पुत्रं नय यमालये / राजा प्राह त्वया सत्यं प्रोक्तं शत्रुसमः सुतः // त्त आकारितो भोज दुन्दुकेनाथ मातुलः / नाप्रेषयत्ततो भूपः सचिन्तो दुन्दुकोऽभवत् / / चन्द्रोऽवक शरणायातं भोजं भाग्नेयमत्र तु / प्रेषयिष्याम्यहं नैव तत्र भूरिप्रजल्पनात् / / क्षत्रियः शरणायातो रक्षितव्योऽन्य एव तु / भाग्नेयस्तु विशेषेण रक्ष्यो जीवितदानतः / / करिष्यसि बलात्कारं यदि त्वं दुन्दुकाऽधुना / तदा युद्धं विना भोज नार्पयिष्याम्यहं तव / / भोजो जनकदुष्टत्वं ज्ञापितो मातुलेन तु / प्रोह कर्म प्रमाणं स्यात् सुखासुखविधापने / / ततोऽवग दुन्दुको बप्प-भट्टिसूरेः पुरो रहः / भोजसूनोः शयान्मृत्युः प्रोक्तो ज्योतिषिकेन मे / / तत्र गत्वा पुरे भोजं मानयित्वाऽत्र पत्तने / आनयाऽऽशु तथा मातु कुरु मानयते यथा // गुरवो भूपवचनाच्छलिता अर्द्धवर्त्मनि / प्राप्ता दध्युर्मम गिरा भोज एष्यति निश्चितम् // यद्योयातोऽत्र हन्येत भोजो दुन्दुकभू भुजा / तदा मे जायते श्वभ्र-गमनं दुर्यशः पुनः / / इतो भान इतः कूलं न्यायं ध्यात्वा गुरूत्तमाः। तत्रैवास्थुः क्रमादायुः स्तोकं स्वं जगुरेव हि // तस्मादनशनं मे तु शरणं मृतहेतवे / विमृश्येति जगुः सूरी-इवराः संयतसन्निधौ // श्रीनन्नसूरिगोविन्द-सूरी स्तो दूरतोऽधुना / अतस्तेषां मम प्रोच्यं मिथ्यादुःकृतमेव हि // सङ्घस्यान्यस्य दातव्यं मे मिथ्यादुःकृतं पुनः / अहं कम्यापि नो मे को नास्ति प्रीतिं ममाऽस्तु च / / न वयं युष्मदीयाः स्मो-ऽस्मदीया न हि यूयकम् / सम्बन्धाः कृत्रिमाः सर्वे क्षणनश्वरवीक्षणात् // अर्हत्पादान् जगद्वन्द्यान् सिद्धान् विध्वस्तबान्धवान् / साधून् श्रीजैनधर्मं च प्रपद्ये शरणं त्रिधा / / महाव्रतानि पञ्चैव षष्ठं च रात्रिभोजनम् / विराधितानि यत्तत्र मिथ्यादुष्कृतमस्तु मे // इत्याद्युक्त्वा समां जीव-रोशिं क्षन्त्वा स्वभावतः / स्मृतपञ्चनमस्कारा गुरवो बप्पभट्टयः / / विक्रमार्कनृपात्पञ्च-नवाष्टाब्दशतेषु च / अलंचक्रुः सुरावासं शत्रुमित्रसमन्वतः // युग्मम् // बप्पभट्टिगुरोः स्वर्ग-गतिं श्रुत्वा नराननात् / मोढेरकस्थिता नत्रसूरयः शोकमादधु // यत :" शास्त्रज्ञाः सुवचोन्वितो बहुजनस्याधारतामागताः, सद्वृत्ताः स्वपरोपकारनिरता दाक्षिण्यरत्नाकराः / सर्वस्याभिमता गुणैः परिवृता भूमण्डनाः सज्जनाः, धातः ! किं न कृता त्वया गतधिया कल्पान्त दीर्घायुषः // 1 // " तदा वृद्धः समागत्य नन्नसूरीशतुः स्फुटम् / शोकशङ्कुच्छिदे दत्त उपदेश इति ध्रुवम् // हित्वा जीर्णमयं देहं लभतेऽङ्गी पुनर्नवम् / कृतपुण्यस्य मूर्त्यस्य मृत्युरेव रसायनम् / /