________________ शत्रुअंय-कल्पवृत्ती भट्टिना गुरुणा समम् / गोष्ठां शश्वद्वितन्वानोऽजीगमत् समयं बहु // तथाहि-" न करोतु नाम रोपं न वदतु पौरुषं न हत्वयं शत्रून् / रक्षयति महामखिलां तथापि वीरस्य धीरस्य / / 1 // शरदिन्दुकुन्दधवलं नमनिलयरतं मनोरमं देवम् / यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति // 2 // " कर्तृ गुप्तम् / / एकदाऽऽमनपोऽप्राक्षोदायुर्मे विद्यते कियत्। गुरो ! दृष्ट्वोच्यतां सूरिस्ततो लग्नं व्यलोकत / लग्नाज्जगौ गुरुर्मासान् षडायुर्मेदिनीपते ! / तता विशेषतो ज्ञातं तच्च ध्यानं समाश्रयेत् // ध्यानेनाकर्षिताऽभ्येय गुरुं नत्वाऽम्बिका जगौ / किमर्थं भवता ध्याता गुरुः स्वचिन्तितं जगौ / / अम्बिकाऽवग् नृपस्यायुः मासाः षट् सन्ति सत्तम!। अतो विशेषतो धर्मः कर्त्तव्यो मेदिनीभुजा / गुरोमुखात् स्वकीयायु-त्विाऽऽममेदिनीपतिः / सप्तक्षेच्यां धनं भूरि व्ययति स्म विशारदः।। ततो दिने दिने देव-गेहेषु जिनार्चनाम्। कुर्वाणः कुरुते वर्य-ध्यानारूढं स्वमानसम् / / वन्दिनो निखिलान् कारा-गृहाद्विमोच्य भूपतिः। सन्मान्य स्वजनान् दानं ददावर्थिभ्य आदरात् / / आकार्य भूपतीन् भूरीन् बप्पभट्टि गुरुत्तमम् // दुन्दुकाय स्वपुत्राय भूपो राज्यं ददौ मुदा // अनृणं विषयं कृत्वा क्षमित्वाऽखिलमानवान् / दीनदुःस्थादिलोकेभ्यो ददौ दानं. नृपो बहु // स्मरन् पञ्चनमस्कारान् सर्वज्ञदृष्टिगोचरे / गृहीतानशनोऽसार-संसारं ध्यातवान् नृपः / / विक्रमार्कात् खनन्दाष्ट-मिताब्देषु गतेषु च / भद्रस्य शुक्लपञ्चम्या-मामोऽलङ्कृतवान् दिवम् / / सूरयोऽपि तदा तत्त्व-ज्ञातारोऽपि विशारदाः / रुरुदुर्मुक्तपूत्कारं जल्पन्त इति भूरिशः // हा वदान्य ! कृपागार ! शरणागतवत्सल ! / सत्यवाग् धर्म-पुत्र त्वं मां मुक्त्वाऽत्र कथं गतः // आलब्धा कामधेनुः सरसकिसलयश्चन्दन चूर्णितो हा !, छिन्नो मन्दारशोखी फलकुसुमभृतः खण्डितः कल्पवृक्षः / दग्धः कापूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भौमः ( भिन्नः ) कुम्भः सुधायाः कमलकुवलयैः केलिहोम कृतोऽयम् / / पूर्वाहणे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः, कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा / मध्याह्ने सरितां जलं प्रवितततैरापीय दीप्तैः करैः, सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् // इति जल्पन् गुरुः शोकं त्यक्त्वा गोपगिरौ पुरे / दुन्दुकस्य शुचं चित्ता-दुत्तारयदिति स्फुटम् // धर्मशोकभयाहार-निद्राकामकलिक्रधः / यावन्मात्रा विधीयन्ते. तावन्मात्रा भवन्त्यमी / दुन्दुको भूपतिः शोकं त्यक्त्वा गुरुवचश्रुतेः / धर्म जीवदयामूलं चकार प्रतिवासरम् / / दुन्दुकः सिद्धिभूभिधे भूरिसङ्घसमन्वितः। यात्रां विस्तरतश्चक्रे भूरिलक्ष्मीव्ययात्तदा // दुन्दुकोऽपि महीपालो महावीरजिनालयम् / अचीकरद् धरापुयाँ व्ययित्वा विभवं बहु॥ तत्र वीरजिनाधीश-बिम्बं शोभनवासरे। भूपकृतोत्सवे बप्प-भट्टिसूरिरतिष्ठिपत् / / बप्पभट्टिगुरूत्तंसः प्रबोधयन् वसुन्धराम् / / अर्जयामास पुण्यानि मुक्तियोग्यानि शीघ्रतः // भूपालो दुन्दुकोऽन्येयुगच्छन् भूपतिवम॑नि / कंटिकाहां वरां वेश्यां दृष्ट्वा रागातुरोऽभवत् // नीता सान्तःपुरे राज्ञा भूपो वशीकृतस्तया / न करोति मनागू राज-चिन्तां तव सेवते / / यतः-" न पश्यति हि जात्यन्धः कामान्धो नैव पश्यति / न पश्यति मदोन्मत्तः अर्थी दोषं न पश्यति // 1 // " तया वशीकृतो भूपो लीलावती कलावतीम् / श्रीमती पट्टराज्ञी तां न मन्यते मूनागपि // कलावतीप्रियाजातो भोजः पुत्रो महीभुजा / धर्मकर्मादिशास्त्राणि शिक्षितः पण्डितान्तिके // यतः-" आहारनिद्रो-भयमैथुनानि सामान्यमेतत् पशुभिर्नराणाम् / ज्ञानं विशेषः खलु मानुषाणां ज्ञानेन हीनाः पशवो मनुष्याः // 1 // " एकदो रहसि क्षोणि-पतेरग्रे कलाकरः / नैमित्तिको जगौ तात भोजोभूवं वयं भृशम् / अयं तव सुतो भोजो नीत्वा त्वां यमसद्मनि / राज्यं गृहीष्यते सद्यो