________________ आमभूप-तत्पुत्रदुन्दुक-भोज-बप्पभटिसूरिसम्वन्धः देवं प्राणान्तेऽपि दिगम्बर ! / स्वीये गोमण्डले देशे गमिष्यामि कदापि न || चिन्तायां पतिते सङ्के धाराक उचिवानिति / चिन्ता त्वया न कर्त्तव्या नेमिनमस्यते जिनः // सप्तभिनन्दनैर्योद्धैः सहितश्चटितुं गिरौ। यदाऽऽरब्धं तदो भूयः खङ्गारोऽप्रेषयद् बलम् // दिग्वासो भक्तिभृद्भूप-भृत्यानां बलतस्तदा / दिगम्बरा बलं किञ्चिदानिन्युः स्वीयसन्निधौ / / आदौ सङ्घपतेः पुत्रा यदेव चटितुं गिरौ / लग्ना यदा तदा योद्धमेयुः साद्धं च तद्रुतम् / / धारापुत्रास्तदा युद्धं कुर्वाणास्तैः समं दृढम् / भनाः केचिन्मृता भृत्याः कैचिन्नष्टाश्च दूरतः // ततः सङ्घयुतो धारो नो जेमति यदा मनाम् / उपवासत्रयं जातं सङ्घस्यैव तदा ध्रुवम् // तदाऽम्बिका समेत्यावग् यदीच्छाऽस्ति तवाधुना / नेमि नन्तुं तदा गच्छ गोपालनगरे द्रुतम् // तत्रामभूपतेर्बप्प-भट्टिसूरीश्वरा वराः। विद्यन्ते गुरवो भूपः स चास्ति बलवान् दृढम् / / यद्यत्रामनृपो बप्प-भट्टिसूरि युगेष्यति / तदा नेमिः सुखेनैवोजयन्ते वन्दयिष्यते / / एते दिगम्बरा मन्त्र-तन्त्रछद्मपरायणाः / विद्यन्ते तेन नो सार्द्ध वादं कर्तुं हि युज्यते // श्रुत्वेति तत्र तं सङ्घ मुक्त्वा श्राद्धाष्टसंयुतः / गत्वा गोपगिरौ बप्प-भट्टिसूरिनति व्यधात् / / धर्मं शृण्वतमामं तु नत्वा स्थानं यथोचितम् / उपविष्टोऽशृणोत् सूरि-पार्वे धम्मोपदेशनाम् / / तीर्थस्य गिरिनारस्य स्वरूपं प्रोच्य धारकः / जगौ गुरुमहीशाभ्यां तीर्थं च वाल्यते बलात् // अम्बिकाजल्पितोऽत्राह-मागतोऽस्मि नरेश्वर ! / तत्राऽऽगत्य ततस्तीर्थं सद्यः सम्प्रति वाल्यताम् // वर्णिते रैवते तीर्थ सूरीशैरामभूपतिः / ललावभिग्रहं नेमि नत्वा भोक्तव्यमेव तु // तदा कमलदेवी तु भूपपत्नी जगाविति / नेमिसोमेश्वरौ देवौ नत्वोवाह्यं मया पुनः / / सहस्रभावकै राज्ञः पृष्ठे च नियमो ललौ / श्राविकाभिश्च बह्वीभिगृहीतोऽभिग्रहो मुदा / / देवालयाः शतान्यष्टौ रथा लक्षमिताः पुनः / पृष्ठवाहाश्च लक्षं तु शतानि सप्त कुञ्जराः / / सहस्राविंशतिश्चोष्ट्रा लक्षत्रयं तुरुङ्गमाः। पञ्चलक्षमिता भृत्याः श्राद्धा लक्षाष्टकं पुनः / / राज्ञस्त्रिंशत्तमे जाते क्षपणे सति सन्ततम् / स्तम्भतीर्थे पुरे रात्रा-वम्बकेति जगौ नृपम् // भूपाल ! तव सत्त्वेन प्रगे श्रीनेमिनायकः / एष्यत्यभिमुखं पूर्णी-कर्तव्योऽभिग्रहस्त्वया // प्रभाते सम्मुखे नेमौ समायोते सति प्रभौ। भूपेनाऽमाभिग्रहोऽपूरि सङ्घन चार्चनाकृतेः / ततः सोमेश्वरे लिङ्गे समेते सम्मुखे सति / राज्ञाऽप्यभिग्रहोऽपूरि सोमेश्वसुरार्चनात् // कारयित्वा प्रासादं च श्रीनेमिजिननायकम् / अस्थापयन्नृपः प्रौढ-प्रतिष्ठादिपुरस्सरम् // ततश्चलन्नृपः शत्रु-जये नत्वा जिनेश्वरम् / ययौ रेवतकोपान्ते भूरिसङ्घसमन्वितः // तदा तत्रैत्य दिग्यास-सेवका योद्धमुद्यताः। दृष्ट्वा दध्यौ नृपो भूरि-जीवनिर्वहणं भवेत् // विचार्येति भिथः श्वेता-म्वरदिग्वसनौ गुरू / प्रोचतुर्यो जयेत् तस्य तीर्थमेतन्न संशयम् // सभ्येष्वुपविष्टेपु केनापि हारितं नहि / यदा तदाऽऽमभूपेन प्रोक्तं जाता दिना घनाः // ततः श्वेताम्बराकाश-वस्त्राचार्यनृपादिभिः / उक्तं च मण्डिते कुम्भे मोच्यते पत्रिकाद्वयम् // यस्य स्यात्तीर्थमेतद्धि तस्य शासनसङ्गता। गाथा निर्यास्यति क्षिप-महन्मतप्रभावतः // ततश्चातने घरे घटमध्याच पत्रिकाम् / कन्यका कर्षयामास गाथामेनां मनोरमाम् // " इकोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स / संसारसागराओ तारेइ नरं व नारिं वा // 1 // " पुनरन्यां गोथां च-"उजिंतसेलसिहरे दिक्खा नाणं निसीहिया जस्स / तं धम्मचकवदि अरिट्टनेमि नमसामि // 1 // " तत आमनृपो धार-सवेशसहितस्तदा / कृत्वा स्वं तीर्थमनाय नेमेः स्नाबार्चने व्यधात् / / आमभूमिपतिर्बप्प