________________ शत्रुञ्जय-कल्पवृत्ती धाप्याऽखिलं मुदा / समेत्य स्वपुरे राज्यं चकार न्यायनीरधिः॥ आमभूपो बहून् शत्रून् निजाज्ञां ग्राहयन् दृढम् / साधयामास भूयिष्ठ-विषयान् भुजलीलया। अन्यदो सूरिराड् व्याख्या-क्षणे रैवतपर्वतम् / वर्णयित्वा शिवासूनोराशीर्वादं जगावदः / / लावण्यामृतसारसारणिसमा सा भोगभूः स्नेहला, सा लक्ष्मीः स नवोद्वमस्तरुणिमा सा द्वारिका तज्नलम् वलं। ते गोविन्दशिवासमुद्रविजयाप्रायाः प्रियाः प्रेरका, यो जीवेषु कृपानिधिय॑धिते नोद्वाहः स नेमिः श्रिये // 1 // " मग्नैः कुटुम्बजम्बाले यैर्मिध्याकामजर्जरैः / नोज्जयन्ते नतो नेमिस्ते जीवन्तो मृताः पुनः // इत्यादि रैवतक्ष्माध्र-महिमानं गुरोर्मुखात् / श्रुत्वा भूमिपतिः प्राह हर्षात् पुरो गुरोरिति // रैवते नेमितीर्थेश-मवन्दित्वा मया गुरो ! / न भोक्तव्यमिति क्षोणी-पते चामे प्रजल्पिते / / गुरुः प्राहाभिग्रहो ह्येप दुःशको विद्यतेऽधुना। एवं जल्पति सूरीशे भूपो ललावभिग्रहम् / / ततः सङ्घयुतः सार्धं सूरिणा धरणीधवः। रैवतं प्रति यांस्तम्भ-तीर्थ पुर्यां समीयिवान् / / तदाऽतिक्षुधया भूपो मूच्छिते सति तत्क्षणात् / भीतः सङ्घोऽभवत् खिन्नो नृपमृत्युभयाद्यदा // तदा श्रीसूरिणा ध्याता कुष्माण्डी निर्जरीतमा / श्रीनेमिसेविकाऽभ्येत्य सचेतनं नृपं व्यधात् / / तत एकां शिलां स्फारां नेमिबिम्बसमन्विताम् / मुक्त्वा भूमिपतेरग्रे प्राहेति गुरुसाक्षिकम् // अहमम्वा सुरी यान्ती व्योम्नि साभिग्रहं नृपम् / विज्ञायेमां शिलामत्राऽऽनयं रैवतपर्वतात् // नेमिबिम्बनतेन त्वं पूरयाऽभिग्रहं त्विह / अतो नियमभङ्गस्ते भविष्यति न भूपते ! // युग्मम् // ततो भूमिपतिस्तत्र स्नानाद्युत्सवमर्हतः / कृत्वा पारणकं चक्रे प्रतिलाभ्य गुरूत्तमान् // अद्यापि प्रतिमा सैव स्तम्भतीर्थे पुरोत्तमे / उज्जयन्तावतारेति कृत्वा प्रपूज्यते जनैः // तत्रत्याम्बिकया देव्या प्रोक्तमेवं नृपाग्रतः / गच्छाऽग्रतो जिनं नेमिं नम रैवतपर्वते / / ततः शत्रुजये नत्वा जिनं रैवतभूधरे / गत्वाऽर्चित्वाऽऽदराद् भूपः स्वपुरी समुपेयिवान् / ततोऽन्वहं दद् दानमामक्षोणीपतिर्मुदा / धर्मं जैनं सदा चक्रे पालयन् पृथिवीं नयात् / / एकदाऽऽममहीपालो गत्वा गुर्वन्तिके मुदा / गुरूक्तानि कवित्वानि शुश्रावेति कृतादरम् / " पच्चूसगय वरुण मूलियाई उट्टीण ससिविहंगाइ धवलाई / गलंति निसालयाए नक्खताइं कुमुयाइं // 1 // अउ अ पउमरोयमरगय सेवलिया नहयलाउ उवरइ पाणहसिरि कंठझडव्व कंठिया कीररिच्छोली / / 2 // तूणीव मधुमासेऽस्मिन् सहकारद्रुममञ्जरी / इयमुद्भिन्नमुकुलै- ति न्यस्तशिलीमुखा / / कामस्य सम्बन्धः गुप्तः / / प्राप्त मदो मधुमासः प्रबला रुग् प्रियतमो विदूरस्थः / असतीयं सन्निहिता हा ! हतशीला सखो नियतम् / / मधुमास इति सम्बन्धः गुप्तः॥ इतो गोमण्डलपुरे श्राद्धो धाराभिधो धनी / त्रयोदशमितस्वर्ण-कोटिस्वाम्यभवत् क्रमात् / सोम-भीम-धनोनन्द पद्म-चन्द्र-वनाह्वयाः। सप्ताऽभवन् सुता वर्य-विनया वरसंवराः॥ श्रीशत्रुञ्जयमाहात्म्यं श्रुत्वा श्रीगुरुसन्निधौ / श्रीसङ्घ मेलयामास धारो यात्राकृतेऽन्यदा / / सप्तभिनन्दनयोद्धैः सप्तशतमितैस्तदा / त्रयोदशशतैश्चारु-सज्जबालैर्विमाननैः // शतद्वयतुरङ्गश्च भूरिभिश्च सुखासनैः / धर्मघोषगुरूत्तंसैः सार्धं धारोऽचलत्तदा / / विस्ताराद् वृषभं देवं नत्वाऽर्चित्वा च सङ्घयुग् / उज्जयन्तगिरेः पार्वे ययौ धारः सुधर्मविद् // तदोज्जयन्तभूमिधः पञ्चाशच्छरदो हठात् / आत्मीयो विहितो बौद्धैः राजाऽपि मदनाह्वयः // जित्वा बौद्धान् यशोभद्र-शिष्यो बलिभद्रकः / आत्मीयं कृतवाँस्तीर्थं गिरिनाराभिधं हठात् / / पञ्चाशच्छरदो यावद् दिगम्बरतपोधनाः / गिरिनारं व्यधुः स्वीयं तीर्थं नेमिजिनार्चनात् // तदा दिगम्बराः प्रोचुः धारः श्वेताम्बरो यदि / अस्मन्मतं श्रयेदिच्छा चटितुं च तदा गिरौ / / धाराको ज्ञापयामास यदि प्राणा व्रजन्ति मे। तथापि न मतं तेऽत्र श्रयाम्यहं दिगम्बर ! // अनत्वा नेमिनं