________________ आमभूप-तत्पुत्रदुन्दुक-भोज-बप्पभट्टिसूरिसम्बन्धः प्राहेति सूरिराट् ब्रह्म-पाते भवो गदितस्थितिः // कालञ्जरगिरौ वर्ये तपस्वी शालनामकः / एकान्तरादतश्चक्रे तपो वर्षाण्यनेकशः॥ वारत्रयं तपस्वो सो त्यक्त्वा तपः पुनः पुनः। गृह्णाति च भवे तस्मिन् मनोभङ्गं व्यधात् स च / / मृत्वाऽतोऽत्र पुरे भूप ! त्वमामोऽभूद्विचक्षणः / तद्भवीया जटास्तत्र विद्यन्तेऽथ तरोरधः।। तत्रस्थास्तज्जटा वीक्ष्य भूपो नत्वा गुरुं मुदा / जैन धर्मं विशेषेण कुरुते स्म शिवप्रदम् // गवाक्षस्थोऽन्यदा भूपो-ऽपश्यद्भिक्षाकृते मुनिम् / प्रविष्टं धनदावासे दान्तं कृशवपुष्टमम् / तदा तत्सदनस्वामि-पत्नी मन्मथपीडिता / समेत्य त्वरितं गेह-द्वारं दत्तवती दृढम् / / आलिङ्गय सा मुनेर्वक्षो यावत्तद्भोगमादरात् / मुनिर्नच्छति तां दोर्ध्या प्राक्षिपत् दूरतस्तदा / / स्वांहिभ्यां मुनिपादौ तु घटयन्त्याः स्त्रियास्तदा / प्रविष्टं नू पुरं साधोः क्रमेऽकस्मोद् विधेर्वशात् // दृष्ट्वा मुनिनितम्बिन्योश्चरित्रं मेदनीपतिः। विधायैकां समस्यां तु प्रददाविति सूरये-"कवाडमासज्ज वरांगणाए अभत्थिओ जुव्वणगव्वियाए"। सूरिस्तदेत्यपूरयत् ताम्- " न मन्निअं तेण जिइंदिएण सनेउरो पब्बइअस्स पाओ // " विदेशगतकान्तायाः स्त्रियाः सद्मनि भिक्षुके / भिक्षाहेतोः प्रविष्टे सा दातुमन्नं यदाऽनयत् / / तदन्नं भक्षितं चोर्ध्वं काकैत्रीनाभिमण्डले / मुनिर्ददौ दृशं सापि मुनेराननपङ्कजे // तयोर्मुनिस्त्रियोवृत्तं निरीक्ष्याऽऽममहीपतिः / समस्यां प्रोक्तवान् सूरे-रग्रेऽभ्येत्येति मोदितः // " भिक्खायरो पिच्छइ नाभिमंडलं तस्स वि सा पिच्छइ आणणांबुजं" सूरिः प्राहेति तदा-" दुण्हंपि मज्झे कवालचडुयट्ठियं अन्नं तु काकेहि विडालियं तया " श्रीआमेन जिनागार-चतुष्कं कारितं वरम् / मथुरागोपगिर्योहि मोढेरे तारके पुरे // तत्र श्रीवीरबिम्बानि बप्पभट्टिगुरूत्तमैः / प्रतिष्ठितानि विहिते महे श्रीओमभू भुजा // आमभूमिपतेः पुत्रो दुन्दुको वरलक्षणः / तैस्तैर्गुणैर्जगत्श्लाघ-नीयैः ख्यातोऽभवद् भृशम् // अन्यदा सिद्धशैलस्य माहात्म्य गुरुणोदितम् / श्रुत्वाऽऽमोऽभिग्रहं श्रीमद्-गुरूणां पुरतो ललौ // मया शत्रुजये श्रीमद्-युगोदिजिनपुङ्गवम् / नत्वैव जेमनीयं तु सङ्घयुक्तेन सद्गुरो ! // चचाल यावता भूमि-पतिरामः शुभाशयः / रुचिरे वासरे तावत् सङ्घ एवंविधोऽमिलत् // शतमेकं सुवर्णस्य वर्या देवालयास्तदा / सहस्राणि रथाः सप्त लक्षाण्यष्टौ तुरङ्गमाः / कोटीत्रयी मनुष्याणा-मोष्ट्राः सप्तशतानि तु / देवालया दारुमया शतत्रयप्रमिताः पुनः // शुभेऽहनि क्षमाधीश-श्चलन् शत्रुजयं प्रति / ग्रामे ग्रामे वितन्वान उत्सवं पुण्यमर्जयत् / चलतोऽध्वनि भूपस्य वपुः क्लान्तं दिनेऽष्टमे / यदा तदापि नैवात्ति गुर्वादिकथितेऽपि सः // भूपस्य दृढतां ज्ञात्वा कपर्दी सिद्धपर्वतम् / कृत्रिमं रचयामास भाल्लाढे विषमेऽध्वनि // तमारुह्य नृपः सङ्घ-पतिकृत्यमशेष तुःकं / कृत्वा पारणकञ्चक्रे श्रीसङ्घन समन्वितः // ततः कपर्दिना शैलं संहृतं क्षणवद्यदा / तदा वागभवद् व्योम्नि पूरितोऽभिग्रहोऽस्ति ते // ततः शत्रुञ्जये क्षोणी-धरतीर्थस्य शालिनः / अवतारं व्यधाद् भूपः प्रासादादिविधानतः॥ कारयित्वा नृपस्तत्र प्रासादं प्रथमार्हतः। बिम्ब प्रातिष्ठिपद् बप्प-भट्टिः श्रीमान् गुरूत्तमः // तत्र राजादनीस्वामि-पादुकोदि समं नृपः / कारयामास भूयिष्ठ-विभवव्ययतस्तदा // खिसरण्डाभिधे ग्रामे भालभूमिविभूषणे / प्रासादो विद्यते बिम्बं पादुकादियुतोऽधुना / / ततः शत्रुजये मुख्ये यात्रां कृत्वाऽतिविस्तरात् / भूपो गोपगिरौ चारूत्सव-पूर्व समीयिवान् // ततोsन्यदाऽऽमभूपालो भूरिश्रीसङ्घसंयुतः / शत्रुजये व्यधात् पूजां विस्तराद् वृषभप्रभोः // प्रासादं जर्जरं व निरीक्ष्याऽऽममहीपतिः / उद्धारं कारयामास भूरिकोदिधनव्ययात् / / तत आमनृपः सङ्घ परि