________________ शवजय-कल्पवृत्ती नीतं वपुरलसलसबाहु लक्ष्याः पुनातु // दधिमथनविलोलल्लोलगवेणिदम्भा-दयमदयमनङ्गो विश्वविश्वकजेता / भवपरिभवकोपात्त्यक्तबाणः कृपाणः, श्रममिव दिवसादौ व्यक्तशक्तिय॑नक्तिः // हलमगु बलः सैको नड्वान् हरस्य न लागलं, क्रमपरिमिता विष्णोभूमिर्न गौर्न च लाङ्गलम् / न भवति कृषिस्तेषां गावं द्वितीयमहो ! विना, जगति सकले नेदृग् दृष्टं दरिद्रकुटुम्बकम् / / कृष्णात्प्रार्थय मेदिनी धनपते ! बीजं बलेर्लाङ्गलं, प्रेतेशान्महिषं वृषस्य भवतः फालं त्रिशूलादपि / शक्ताहं तव भक्षदानकरणे स्कन्दोऽपि गोरक्षणे, दग्धाहं तव भिक्षया कुरुषि किं गोर्या वचः पातु वः / / बप्पभट्टिगुरोर्वाणी मत्वा ध्यान विसृज्य च / वाग्पतिः सम्मुखी भूत्वा सूरि प्रति जगावदः / / भो बप्पभट्टयो ! यूयं किमस्मत्पुरतोऽधुना / शृङ्गाररौद्रकाव्यानि पठताऽथ गुरुर्जगौ / / भवन्तः साङ्खयाः। यतः- साङ्ख्या निरीश्वराः केचित् वेचिदीश्वरदेवताः / सर्वेषामपि तेषां स्या-त्तत्त्वानां पञ्चविंशतिः / / ज्ञात्वा साङ्खयं भवन्तं तु शिवभक्तं च वाग्पते ! / तब रोच्यानि काव्यानि प्रोच्यन्तेऽत्र मयाऽधुना / / वाग्पतिः प्राह मरण-समये परमात्मनः / ध्यानमेव विलोक्येत सर्वेषां शिवहेतवे / / बप्पभट्टिजगौ तर्हि किं सुरा न हरादयः ? / भवन्ति मुक्तिदा. तारो मनुध्वे वाग्पते ! यतः॥ वाग्पतिः प्रोक्तवान् द्वेधा शिवोऽभिधीयते बुधैः / एकोह्यत्र सुखं दाता परः परत्र शं पुनः। वीतरागं स्मरन् योगी वीतरागत्वमश्नुते / सरागं ध्यायतस्तस्य सरागत्वं तु निश्चितम् / / येन येन हि भावेन युज्यते यत्र वाहकः / तेन तन्मयतां याति विश्वरूपो मणियथा / / बप्पभट्टिस्ततः प्राह भवतो वदनान्ननु / जिन एव भवेन्मुक्ति-दायकोऽन्यो न काहचित् / / मदेन मानेन मनोभवेन, क्रोधेन लोभेन च संमदेन / पराजितानां प्रसभं सुराणां, वृथैव साम्राज्यरमा न्यगादि / / जं दिट्ठी करुणातरंगिअपुडी एयरस सोम्मं मुहं, आयारो पसमायरो परियरो संतो पसन्ना तणू / तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो इमो, देवाणं अवराण दीसइ जओ नेयं सरूवं जए / / श्रुत्वेत्यादि वचः प्रोह वाग्पतिः श्रीगुरुं प्रति / स जिनो विद्यते कुत्र सूरिराह शिवेऽस्ति सः।। उक्तञ्च-"न स्वधूंनी न फणीन कपाल दाम, नेन्दोः कला न गिरिजा न जटा न भस्म / यत्रान्यदेवे नहि किश्चिदुपास्महे तद्, रूपं पुराणमुनि शीलितमीश्वरेऽस्य // 1 // " स्वरूपतो जिनो मुक्तौ मूर्त्तितस्तु जिनौकसि / निरागयोयोर्ध्यानात् मुक्तिरेव सतां भवेत् / / वाग्पतेः प्रोक्तवान् तर्हि प्रभो ! दर्शयतां जिनम् / गुरुरामविहारं तं नीत्वा पार्श्वमदीदृशत् / / रामादिचिह्नरिक्तं तं शान्तं दान्तं निरजनम् / दृष्ट्वा वाग्पतिराचष्ट देवः सत्योऽस्त्ययं जिनः / / जिनधर्मेऽनुरक्तं च ज्ञात्वा बप्पो गुरूत्तमः / प्राह देवगुरुश्रेयस्तत्त्वसूक्तानि भूरिशः / / वाग्पती रञ्जितस्त्यक्त्वा मिथ्यात्वं जिनशासनम् / अङ्गीकृत्याभवत् श्वेता-म्बरोऽस्तावीज् जिनं तथा / / मयनाहिसुरहिएण इमिणो किं किर फलं निडालेन / इच्छामि अहं जिणवरपणामकिणकलुसियं काउं / / 1" दोवि निहत्था धडहड बच्चइ को किर कस्स य पत्त भणिज्जइ / सारंभो सोरंभं पुज्जइ कद्दमु कद्दमेण किमु सुज्झइ / / 2 / / " आयुः प्रान्तेऽखिलां जीव-राशि क्षान्त्वा सुभावतः / स्मरन् पश्चनमस्कारान् वाग्पतिः स्वर्गमीयिवान् / / प्रबोध्य वाग्पतिं जैने धर्मे स्वर्गमित क्रमात् / गुरुभिरनुगा ज्ञात्वा भूपस्याने न्यवेदन // अङ्गीकार्याहतं धर्मं वाग्पति सूरिराट् यदा। अगाद् गोपगिरौ भूपस्तदोत्सवं नृपो व्यधात्॥ तदा राजा गुरुत्तंसं प्रणम्य भक्तिपूर्वकम् / तुष्टाव वर्यया वाण्या गम्भीरार्थपुरस्सरम् / / आलोकवन्तः सन्त्येव भूयांसो भास्करादयः / कलावानेव तु ग्राव-द्रावकर्मणि कर्मठः // एकदा भूभुजा पृष्टं हेतुः कोऽस्ति गुरो ! इह / येनान्तरान्तरो धर्मे तापसे जायते मनः // गुरुः पूर्वभवं राज्ञो ज्ञोत्या चालने दिने /