________________ 104 शत्रुञ्जय-कल्पवृत्ती ध्यादाश्मी घन्ती मुनीन् रुषा // भाव्यरिष्टं पुरे तत्र ज्ञात्वा केचन मानवाः / प्रयास्यन्त्यन्यतस्तत्र स्थास्यन्त्येव च केचन // मार्गयिष्यति कल्की स धनं जैनमुनीनपि / निषेत्स्यते बलात् कल्की लोकैर्गृहंस्तदा ततः // सप्ताहं जलदो वर्षन् प्लावयिष्यति तत्पुरम् / कल्की प्रातिपदः सूरिः कियान् लोकस्तदा पुनः // स्थास्यन्त्युच्चक्षितौ केचिन्मज्जन्ति सलिले तदा / केचनात्मवधं कृत्वा मरिष्यन्ति नरा स्त्रियः // युग्मम् // विघ्ने तस्मिन् निवृत्ते तु नन्दद्रव्येण भूपतिः / विधास्यन्ति पुरी नव्यां धनधान्यविराजिताम् // याति कल्किनि भूपीठे द्रम्मेण द्रोण एककः / लभिष्यते सुभिक्षत्वात् द्रव्यं स्तोकं भविष्यति / / धनलुब्धा महीपाला भीषणाः कुनयस्थिताः / कुशीलाः कुलनार्योऽपि ग्रामोः प्रेतवनोपमाः / निःकृपा गतजल्पाका हीनसत्त्वाः कुमानसाः / धर्मस्य निन्दका लोका भविष्यन्ति क्रमादमी // युग्मम् / / सुभिक्षं भावि पञ्चाश-दब्दानि सन्ततं ततः / वर्धिष्यन्ति जना धान्य-कुटुम्बैः सुभटैनपाः / / आसन्नमरणे नीत्वा लिङ्गिनो द्रविणं नृपः / साधून रोत्स्यति लक्ष्म्यर्थ वाटके कल्किभूपतिः // प्रातिपदादिसङ्घन कायोत्सर्गे कृते सति / सङ्घस्योपद्रवं ज्ञात्वा शक्रोऽगाद्विप्ररूपभृत् / / उक्तिप्रत्युक्तिभिः कल्की वार्यमाणोऽपि वत्रिणा। निवर्तिष्यति न यदा तदा तं स हनिष्यति / / आयुः सम्पूर्य वर्षाणां षडशीतिं स कल्किराट् / गतः श्वभ्रावनौ दुःखी. भविष्यति चिरम् / / दत्तं तन्नन्दनं तस्य राज्ये न्यस्यानुशिष्य च / धर्म जैनं गुरुं नत्वा शक्रः स्वर्ग गमिष्यति / / दत्तोऽन्यदा गुरूपान्ते गत्वा धर्मं जिनोदितम् / अश्रोषीदिति सस्नेहं सावधानः कृताञ्जलिः॥ कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्ण्यनीय, दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् / तप्यं शुद्धं स्वशक्त्या तप इह महती भावना भावनीया, श्राद्धानामेष धर्मों जिनपतिगदितः पूतनिर्वाण मार्गः // रम्य येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा / वेधं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्यो. तितम् / / आकण्यैतन्नृपः प्रौढः प्रासादान् कारयन् क्षितौ / सिद्धशैले जिनागार-मुद्धरिष्यति रैमयम् / / ग्रामे ग्रामे पुरे पुर्यां प्रासादान् कारयन्नृपः। अभिग्रहं ललावेवं गुरुणा पुरतोऽन्यदा // प्रासादस्य निष्पत्तैपनिकमादरात् / प्रगे प्रगे समायाति तदाऽयं मयका गुरोः / ततो दिने दिने सर्व प्रासोदस्यैककस्य तु / निष्पत्त्यामागतायां च भोक्ष्यति कल्किभूपसूः // सूरेः प्रातिपदस्यान्ते धर्मकर्म करन् सदा / कारयिष्यति सर्वज्ञ-प्रासादान् भूरिशो नृपः / अन्यदा श्रीगुरूपान्ते धर्म जीवदयामयम् / दत्तः शृण्वन्नदः श्रीमद्-गुर्वन्ते श्रोष्यति ध्रुवम् / / " अभयं सुपत्तदाणं अणुकंपा उचियकित्तिदाणं च / दोहि वि मुक्खो भणिओ तिन्नि भोगाइअं दिति // 1 // " सत्पात्रं महती श्रद्धा काले देयं यथोचितम् / धर्मसाधनसामग्री बहुपुण्यैरवाप्यते // श्रुत्वेति कल्किभूस्तत्र दानं ददद्यथेप्सितम् / अनृणां मेदिनी स्वीयां करिष्यति क्रमाद् ध्रुवम् / / एकदा कल्किसूभूपो यावन्मध्येसभं प्रगे। उपविष्टस्तदाऽभ्येत्य कविरेको वदिष्यति / / तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनो नराः सुकृतिनो वंशस्य ते भूषणम् / ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं, सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् / / तस्मै विपश्चिते हेम्न-लक्षद्वयं प्रमोदतः / दत्तो महीपतिः सद्यो ध्रुवं विश्राणयिष्यति // अन्येाः पुनरागत्य कविरेको मृदुस्वरः / काव्यमेकं जगौ चित्त-चमत्कारविधायकम् / / " वन्दे जन्म मनुष्यसम्भवमहं किं तद्विहीनं गुणैस्तानेव त्वरितं स्तुमः किमु समां लक्ष्मी विना तैर्गुणैः / तां लक्ष्मी समुपास्महे किमु तया दानादिमिर्वन्ध्यया दानं स्तौमि वृथैव भावरहितां भावो हि भद्रं ततः // 1 // " काव्यमे तत्