________________ बप्पभट्टिसूरिचरित्रम् " पियसंभरणपलुटुंतअंसुहारानिवायभीयाए // " एवं परस्परं बप्प-भट्टिभूमिपती सदा / प्रश्नोत्तरादि जल्पन्तौ निन्यतुः समयं बहु / अन्येधुरामभूपान्ते नत्वैको दूत ऊचिवान् / धर्मेण प्रेषितोऽत्राह-मागां तवान्तिकेऽधुना / / किमर्थमिति ? भूपोक्ते दूतः सादरमूचिवान् / धर्मभूपो मदास्येन त्वामेवं च व्यजिज्ञपत् / / छलेनाऽत्र त्वयाऽऽगत्य बप्पभट्टिगुरूत्तमः / तत्र नीतो यदा भक्ति मया न हि कृता तदा।। तेन मे दूयते चित्तं विना तं श्रीगुरूत्तमम् / अत्रैको वादिराड् वादं कत्तुं गौडः समागमत् / / विद्यामदेन सोऽत्यन्तं वादिवर्द्धनकुञ्जरः / तृणायापि न मन्येत त्रिजगत् पद्मया पुनः / प्रतिज्ञेति कृता तेन यद्यहं हारयामि तु / तदा कोटिसुवर्ण य दास्ये तुभ्यं नरेश्वर ! / / यदि जेष्याम्यहं मह्यं कोटिया त्वया नृप!। एवं वादी वदन् पुर्या माहात्म्यमनयत् क्षयम् / / तथा तेन विधातव्यं त्वयाऽत्राममहीपतिः / यथैति वादिनं जेतुं बप्पट्टिगुरूत्तमः / / तत्र लक्ष्मीपुरे धर्म-भूपामभूपती क्रमात् / प्रवादिवादिसंयुक्तौ समेतौ वादहेतवे / / वादं कुर्वाणयोस्तत्र वादिनि प्रतिवादिना / मासाः षट् प्रययुः कोऽपि जयं न लभते मनाग / / आमोऽवग बप्पभट्टयन्ते राज्यं सीदति मां विना / बप्पभट्टिर्जगौ घस्राः पञ्चाऽत्रैव प्रतीक्ष्यताम् / / ततः सरस्वती सम्य-गाराध्य सूरिणोदितम् / भो भारति ! कथं वादी जेष्यते साम्प्रतं मया? // अथाऽवग् भारती वत्साऽमुना प्रवादिनाऽऽदरात् / आराधिता ददेऽहं तु मन्त्रसारस्वतं तदा // [भारत्योक्त मतीनीह आराधिताऽमुना मुला ] मया तु गुटिकां दत्त्वा वादिनं जल्पितं हीति / गुटिकायां मुखस्थायां त्वं केनापि न जेष्यसि // वादिना कुर्वता दन्त-नकं तां गुटिकां वराम् / यदोऽऽस्यं घर्षयित्वाऽऽशु मुमुचे पावतो रहः // तदा प्रेष्यजनं स्वीयं बप्पभट्टिगुरूत्तमः / गुटिकां तां निजोपान्ते निनाय छन्नमन्यदा / / ततः प्रातः प्रजल्पन्तं वादिन गुटिकां विना / बप्पभट्रिर्जिगायाऽऽशु जयढक्काऽध्वनत् तदा / / राहग्रस्त इव श्वेत-रश्मिः खण्ड इवापितः। हिमव्याप्तो गतो म्लानिं धर्मवादीश्वरस्तदा / / बप्पभट्ट रोर्वादि-कुम्भिकेसरिनाम च / ददे भूपेन लोकश्च तस्यैव वादिनो जयात् // तत्र कोटीसुवर्णस्य हारयित्वा स वादिगट / हस्यमानो जनैः स्वीय-नगरे दीन ईयिवान् / / ताञ्च कोटी सुवर्णस्य धाममेदिनीपती / अर्हज्जीर्णालयोद्धारे व्ययति स्म प्रमोदतः॥बप्पभट्टैस्तदा देशे विदेशेऽपि दिशोदिशम् / जयढक्काध्वनन् वादि-पराभवश्रुतेः क्रमात् / तदाऽऽमो भूरिकुम्भ्यश्व-रथपत्त्योदि भूरिशः / धर्मोऽपि दत्तवान् सोऽपि भूपायाऽऽमाय हर्षतः / / मुत्कलाप्य ततो धर्म-मामः श्रीगुरुसंयुतः। एत्य गोपगिरौ वीरं जिनाधीशमवन्दत // उदारार्थमयैः काव्यैः स्तुवन् सूरीश्वरस्तदा / तुष्टाव श्रीजिनाधीशं वर्द्धमानं तदेति च / / शान्तो वेषः शमसुखफलाः श्रोत्ररम्या गिरस्ते, कान्तं रूप” मित्यादि काव्यमयं स्तोत्रं साधुभिः पठ्यते; तथापि, क्रमान्निजान्य. सिद्धान्त-सूक्तवरैर्गुरूत्तमः / मांसादिभक्षणत्याग-मग्राहयन्नरेश्वरम् // ततः सम्यक्त्वसंयुक्तां शिवदा द्वादशव्रतीम् / ग्राहयामास भूपालं बप्पभट्ठिर्गणाधिपः // अथ वोग्पतिनाऽन्ये-धुर्महाविजयनामकम् / काव्यं प्राकृतसन्दब्धं स्वस्याऽऽमाय प्रदर्शितम् / / काव्यं तद् वीक्ष्य रैलक्ष-मेकं भूपश्चमत्कृतः / कोशाददापयत् तस्मै न्यायवान् यतये मुदा / / यतः-" कियती पञ्चसहस्री कियती लक्षाश्च कोटिरपि कियतीः // औदार्योनतमनसा रत्नवती वसुमती कियती // 1 // " आमोऽन्यदा जगौ बप्प-भट्टेति विद्यया समः / कोऽप्यस्त्यद्य गुरूत्तंस आचष्ट भूपतिं प्रति // गोविन्दनन्नसूरीशौ मत्तोऽधिको तु विद्यया / सद्गुणे रक्षोण्यां मोढेरे स्तः पुरे वरे // ततः स्तोकबलो भूप आमो मोढेरपत्तने / गत्वा नन्नगुरुं नत्वा धम्मै भोतुमुपाविशत् / / शास्त्रं वात्स्यायनप्रोक्त-मुचरन्त गुरुं तदा / निशम्यावमन्येव पश्चादामः समीयिवान् / /