________________ शत्रुञ्जय-कल्पवृत्ती वन्दितुं न यदैत्यामस्तदा सूरिस्तमूचिवान् / कथं ते दृश्यते धर्मे प्रमादः साम्प्रतं नृप ! // राजाऽवग् नन्नसूरीश-मगमं वन्दितुं यदा / तदा स कामशास्त्रादि-व्याख्यायां वीक्षितो मया / / अतोऽध्यायि मया नन्न-सूरियों वर्णितस्त्वया / स यदीग् तदा सर्वे भविष्यन्तीदृशाः पराः / / सूरिजंगौ स सूरीशः पुण्यवानस्ति कोविद ! / केनापि हेतुना काम-शास्त्रार्थों जल्पितोऽस्ति च // पापद्वारेण कामादि-शास्त्रार्थः कथितो बुधैः / जायते स्वर्गकल्याण-सातसन्ततिहेतवे / / इत्यादियुक्तितो भूपं स्थिरं कृत्वा वृषे तदा / बप्पभट्टिगुरुनन्नो-पान्तेऽभ्येत्य जगावदः // श्रीपूज्यैरामभूपस्य पुरो रागमयी कथा / प्रोक्ता तेनाभवत्तस्य मनो धर्मे विसंस्थुलम् / / नन्नसूरिजंगौ पाप-द्वारे रागमयी कथा / मयोक्ताऽतः कथं भूपो विमनास्सु. कृतेऽभवत् ? // ततो द्वावपि गुरीशौ नन्नगोविन्दनामको / वर्णस्वरपरावर्तं कृत्वा गुटिकया स्थितौ / / ततो गोपगिरावेत्य नटवेषधरौ गुरू / आदिनाथस्य चरितं नाटकेन बबन्धतुः // यतः सूरीश्वरौ तौ तु नटान् वरतरांस्तदा / शिक्षयामासतुः सम्यग यथा ते तद्विदोऽभवन् / / तो सूरी आमभूपं तु नृत्य कर्तुं ययाचतुः। भूपेनावसरे दत्ते मिमिलुश्च समाजिकाः / / तो गुरू प्रथमं काम-परभूपनृणां कथाम् / जल्पन्तौ चेष्टितं तेषां हावभावादिलक्षणम् / दर्शयन्तौ च निःशेषा सभा भूपं च तन्मयम् / चक्रतुश्च तथा राजा-दयः सर्वे चमत्कृताः // युग्मम् / / क्षणाद् भरतचक्रीश-बाहुबल्योमहीशयोः / युद्धावतारणं साक्षात् पूर्ववत्तौ च चक्रतुः / / ततो बाहुबलेीक्षा-दानसम्बन्धमादितः / ज्ञानोत्पत्तिस्वरूपं च भरतस्यादिचक्रिणः // तथा तौ सूरिमुख्यौ तु दर्शयामासतुः भृशम् / यथा सभा सभा चित्र-लिखिते वाऽभवत् द्रुतम् / / इत्यादि तौ नटो सूरी दर्शयित्वा रसान्नव / तस्थतुर्यावता ताव-द्रकोटिमानयन्नृपः।। जगौ नृपो युवां स्वर्ण-कोटी लातं नयोत्तमौ। तावूचतुर्महीपाला-वयोः किं क्रियते श्रिया ? // राजाऽवग् रमया वर्य-भोजनाच्छादनादिभिः / जायते सुखवान् जीवो लातं श्रियं युवामिमाम् // युवां काविति भूपोक्ते स्वरूपं तौ तु तत्क्षणात् / प्रकटीकृत्य वैराग्य-कथां वक्तुं प्रवर्तितौ / नन्नसूरिवरं दृष्ट्वा राजा प्राह युवां कथम् ? / नटवेषधरौ जातौ नृत्यं च चक्रतुः कथम् ? / / नन्नसूरिर्जगो ब्राह्मी प्रत्यक्षाऽस्त्यावयोः खलु / रसा नवाऽवतार्यन्ते तेनावाभ्यां नरेश्वर ! / मोढेराह पुरे काम-मयी व्याख्या मया कृता / पापद्वारा च धम्मार्थं विश्लेषोऽभूत् तदा तव / / व्याख्याक्षणे तु कुर्वद्भि-र्व्याख्यानं विबुधैः सदा / रसा नवाऽवतार्यन्ते बोधाय भविनां खलु / / ज्ञात्वेति भूमिभुगामो नत्वा गुरुपदौ तदा / क्षमयामास सूरीशो सूरिभ्यां क्षमितश्च सः // बप्पभट्टिगुरुस्तत्रा-गत्य तौ सूरिशेखरौ / प्रणम्य कुशलोदन्तं पप्रच्छतुर्मिथस्तथा / / सूरिभ्यां सह ये नृत्यं नटाश्चक्रर्मनोहरम् / तेभ्यो नृपो नव स्वर्ण-लक्षान् दापितवान् किल / / क्षेत्रषु सप्तसु स्वर्ण-कोटी विश्राणिता तदा / गुरोरादेशतः क्षोणी-पतिना ऽऽमेन मोदतः // विहारं चक्रतुः सूरि-बप्पभट्टेरनुज्ञया / बप्पभट्टिगुरुस्तत्र तस्थौ भूमिधवाग्रहात् / / चण्डालपेटकान्तस्थां बालिकां किन्नरस्वराम् / गायन्तीं वीक्ष्य भूपोऽवग गुरोः पार्श्व समेत्य च / / वक्त्रं पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः, कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातमाः / वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा, तत् किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः / / जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो, दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति / विश्वप्रार्थ्यः सकलसुरभिद्रव्यदर्पापहारी, नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः // सूरिभिश्चिन्तितं भूमीपतेरस्य स्वचेतसि / विकारोऽजनि बुद्धचाश्च विपर्यासश्च सत्तमः / / यतः-भरा काचन भूरिरन्ध्रविग