________________ शत्रुञ्जय-कल्पवृत्ती युग // बप्पभट्टिगुरोर्लेखं नत्वा कृत्वा च मस्तके | उन्मुद्य वाचयामास स्वयमेव स्वचेतसि / / अध्यापितोऽसि पदवीमधिरोपितोऽसि, न किञ्चनापि गुरुवत्सल ! बप्पभट्टे ! / प्रायोपवेशनरथे विनिवेश्य येन, संप्रेषयस्यमरधाम नितान्तमस्मान् // ततो भूपतिमापृच्छय मोढेरकपुरे वरे / गत्वा गुरुपदाम्भोज बप्पभट्टिननाम च // गुरवोऽपि च तं शिष्यं गाढमालिङ्गय हर्पतः / प्रोचुवत्स ! मनोऽस्माकं मुदितं भवदागमोत् / / वत्स ! त्वं कारयाऽस्माक-माराधनपताकिकाम् / यया मे स्याद्गतिः स्वर्गे भूयास्त्वमनृणः पुनः // ततः कारितयोरा-राधनाचतुःशरणयोः / पुण्यानुमोदनपरः सिद्धसेनो गुरूत्तमः / / 1 // " स्मरन् पश्चनमस्कारान् तीर्थमाला नमन् हृदि / आयुःप्रान्ते ययौ स्वर्ग-लोकेऽसङ्ख्यसुखप्रदे / / युग्मम् / / गुरुस्वर्गगमोद्भुतं शोकमुत्तार्य चेतसः / विशेषाद्विदधे बप्प-भट्टिसूरिः शुभाः क्रियाः / / श्रीमद्गोविन्दसूरीश-नन्नसूरीशयोर्द्वयोः / गच्छभारं समाऽगात् स सूरिरामसन्निधौ / / गोष्ठी वितन्वतोबप्प-भट यामभूपयोस्तदा / सुभाषितादिभिः शश्वत् क्षणवद्याति वासरः // नर्त्तन्तीं नर्तकीं दृष्ट्वैकदा सूरिः सभान्तरे / पुस्तकाक्षरदत्ताक्ष-स्तस्थावर्थविलोकतः / / क्रमासूरिः पुरीनार्याः कञ्चुके शुकपिच्छले / ददाने लोचने भूपोऽपश्यन्नित्यपठन् हृदि // सिद्धंततंतपारंगयाणं जोगीण जोगजुत्ताणं / जइ ताणंपि मयच्छी जयंति ता तच्चिअ पमाणं // नर्तकी नरवेषान्तां रात्रावामनरेश्वरः / अप्रेषीत् सूरिवसतौ परीक्षाहेतवे निशि // विश्रामणां वितन्वत्यां तस्यां करम्य संस्पृशात् / ज्ञात्वा सूरिः स्त्रियं प्राह केना प्रैषि भामिनि ! // ब्रह्मव्रतनिविष्टेष्वस्मादृशेषु च साधुषु / बालोऽपि नहि चाल्येत वातैः कञ्चनशैलवत् // तयोक्तं तदेति / / राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् / सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् / / अपि च-प्रियादर्शनमेवाऽस्तु किमन्यदर्शनान्तरैः / प्राप्यते तेन निर्वाणं सरागेणापि चेतसा // 1 // " शुश्रुषार्थं तवेदानीं श्रीआमेन महीभुजा / प्रेषिताऽहं ततः सूरि-मुख्यो जगाद तां प्रति / / अस्माकं ज्ञानदृष्टीनां व्यामोहाय मनागपि / प्रगल्भन्ते मरुन्नारी-तुल्या मार्यः कदापि न / यतः- " मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् / रतिं करोतु को नाम सुधीर्व)गृहेष्विव // 1 // " निर्विकारं गुरुं दृष्ट्वा घनतोषा पणाङ्गना। प्रातर्नुपान्तिकेऽभ्येत्य नैशं वृत्तान्तमूचुषी // स्वामिस्तव गुरुर्वन-मयचेताः सुराद्रिवत् / न क्षोभ्यते मरुत्त्रोभि-रस्माभिः किमु चाल्यते ? / आजन्मशिक्षितापाया कूटादिरचनो खलु / अस्माभिस्ता इहास्माकं बभूवुनिःफला नृप ! // वेश्योपान्ते गुरोधर्म-स्थैर्यमाकर्ण्य भूपतिः / विस्मयोदयसम्पूर्णो ध्यातवानिति चेतसि // न्युञ्छने यामि वाक्यानां दृशोर्याम्यवतारणम् / बलिक्रिये तु सौहार्दा च्छ्रीगुरूणां पदोस्तथा / / धन्यास्त एव धवलायतलोचनानां, तारुण्यदर्पधनपीनपयोधराणाम् / क्षामोदरोपरि लसत्रिवलीलतानां, दृष्ट्वाऽऽकृति विकृतमेति मनो न येषाम् / / 1 / / " ध्यात्वेति भपतिः सरिं नत्वाऽवग मूढतो मया / परीक्षा भवतो वेश्या-समीपात् कारिता हहा ! / / प्रसद्य त्वं मयेदानी-मपराध क्षमस्व मे / मूढोऽहं यत् त्वयि स्वामिन् ! परीक्षा विदधेतराम् / / अन्येद्युभूपतिराम-पथे गच्छन् हलिप्रियाम् / एरण्डकबृहत्पत्र-समानस्तनविस्तराम् / / गृहपृष्ठौ वितन्वान-मेरण्डस्य दलानि तु / दृष्ट्वा कृत्वा च गाथार्द्धमित्यवक् सूरिसन्निधौ // युग्मम् / / " वइविवरनिग्गयदलो एरंडो साहइ व्व तरुणाण।" श्रुत्वैतत् सूरिराड् भूमि-पतेरग्रे जगावदः / / “इत्थ घरे हलियवधू इद्दहमित्तत्थणी वसई॥" समस्यां पूरितां सूरि-राज्ञा ज्ञात्वा नृपोऽतुषत् // वासावासेऽन्यदा यान्तां नारी प्रोषितभर्तृकाम् / सायं दीपकरा वक्र-ग्रीवां दृष्ट्वा नृपोऽवदत् // " दिज्जइ वंकग्गीवाइ दीवउ पहियजायाए / " सूरिः प्राह