________________ बप्पभट्टिसूरिचरित्रम् तेष्वागतेषु तत्राह गुरुरामाऽऽवजन्तु भोः / ततः सर्वे गुरुं नत्वो-पविष्टा गुरुसन्मुखाः // जगौ गुरुरमी नरेश्वर ! / धम्मः पप्रच्छ मन्त्रीशं कीदृगामोऽस्ति भूपतिः ? / मन्त्री प्रोवाच पत्राणि ददत् स्थगीधरोऽस्ति मे / याहक ताग समस्याम-भूप आकारतो नृप ! / / स्थगीधरो गुरुं नत्वा जग गोपगिरी द्रतम् / समेत्य भूपतिश्राद्धान् वन्दयध्वं निजागमात् / / गुरुः प्राह स्थगिस्तेऽत्र वागस्माभिः करिष्यते / धर्मलाभस्त्वया तस्य वक्तव्यो ज्ञेय एव च // अत्रान्तरे गुरुः प्राह भोः ! स्थगिस्ते करेऽधुना / किमस्ति ? स जगौ बीजउरा मे विद्यतेऽन्तिके / / क्षणार्द्धन गुरूत्तंसैः किं वदत्युत्तरे तदा / मुक्तमेकं मनोह्लाद-कारकं वावतारितम् / / " तत्ती सीअली मेलावा केहा, धण उत्तावलि पियमंदसिणेहाविरहिहिं माणुसुजं मरई तसु कवणी निहोरा, कन्नि पवित्तडी जणु जाणइ दोरा / / 1 // " इत्यादिगोष्ठिकायां तु वय॑न्त्यां गुरुपादयोः / आमः शनैर्विनिर्गत्य सङ्केतस्थानके ययो। वर्यवाहनिकाऽऽरूढ आमभूमिपतिश्वलन् / भूयिष्ठमार्गमुल्लङ्घय त्वरितं दूरतो ययौ / / इतो यामद्वयं याव-द्रसोऽपूर्वोऽवतारितः / ताहा श्रीगुरुभिः सङ्घस्तदाऽभूच्चित्रलेख्यवत् / / व्याख्यान्ते आमभृत्याग्रे धर्मः प्राह भवत्पतिः / एकदाऽनैति कर्त्तव्यं तथा यथा नृपानुगाः! / आयात एव ज्ञातव्यो भवताऽत्र स भूमिभुग / प्रोक्त्वा ते चलिता आमपृष्ठौ आमानुगा द्रुतम् / / द्वितीयेऽह्नि प्रगे सूरि-मुक्तलापयितुं नृपम् / गत्वा जगावहं गोप-गिरौ याम्यामसन्निधौ / / अस्माकं.धर्मलाभोऽस्तु तवाऽतो धर्म ऊचिवान् / का गतिस्ते प्रतिज्ञाया आमस्याऽऽकारणं विना // यतः-“सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः / सकृत् कन्या प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् / / 1 / / " आचायो जगदुः पूणो प्रतिज्ञा मम साम्प्रतम् / राजाऽऽचष्ट कथं पूणों प्रतिज्ञा ते गुरूत्तम ! // सूरिर्जगौ गते घस्र व्याख्यानावसरे प्रगे। आम भूपानुगा एत्या-वन्दन्त मा यदादरात् // तदाऽऽमोऽपि नृपो नन्तुं समागान्मम भूपते ! / मया चोचे छलादाम! समागच्छाऽत्र तिष्ठ च / / स एवाममहीपालो ज्ञातव्यो भवता नृप ! / स्थगिरूपधरेणाम-नृपेणाऽऽकारितोऽस्म्यहम् / / प्रोक्तं बीजउरा दो रा आमस्थगिसमोऽस्ति च / इत्यादि वचनान्यासन् मम तन्मन्त्रिणस्तदा / इत्यादि बहुशो जल्पैस्त्वयाऽऽमो नृप ईक्षितः।न ज्ञातो भवताऽऽह्वातु-मागतो मामिहापि सः।। संशये नृपतिर्यावत पतितो गणिकैकिका। आगत्याऽऽहागमद् भूप आमो नन्तुं गुरूत्तमम् / / आमेन गच्छता पश्चात् त्वरितं मम हस्ततः। अङ्गदो रुचिरो प्रेषि भक्त्यै तव महीपते ! // अर्थिभ्यः कङ्कणद्वन्द्वं दत्तमामेन गच्छता / यत्तत् कस्यचिदास्यात्तु ज्ञातं मां महीभूजा / / आमं यातं पुरे स्वीये मत्वा धर्ममहीपतिः। शोचन् जगौ मया धिग्नो ज्ञातः सुहृदिहागतः / / बप्पभटया-मयोश्चारु चातुर्य जगदद्भुतम् / ज्ञात्वा धर्मो गुरोः पादौ ननामाऽतीवभक्तितः बलात्पर्यवसायाऽथ धर्म भूपं गुरूत्तमः / चलन् मार्गेऽमिलत् कस्मिन् ग्रामे आमस्य भूपतेः / / एकः पुलिन्द्रको नीरादायशाय मध्ये जलं पिवन् / आस्येन छगवद् दृष्ट आमेन भू भुजा क्वचित् / / आमः सूरीश्वरोपान्ते गाथार्द्धमूचिवानिति / " पसु जिम पुलिंदो पय पिवइ पंथिय कवण कारणिण / / " ततोऽम्बुपो नरो राज्ञा-ऽऽकार्य पृष्टो जगौ तदा / गुरुणा पूरिता सत्या समस्या मेदिनीपतेः / / इत्यादि भूरिशः प्रश्नप्रतिप्रश्नादि भूपतिः / कुर्वाणो गुरुणा सार्दू गोपालगिरिमीयिवान् // पताकातोरणोन्मञ्च-मञ्चादिक विधानतः / भूपो गुरुं पुरीमध्ये निनायोत्सवपूर्वकम् / / बप्पभट्टिगुरुस्तत्र तिष्ठन् धर्मकथादिभिः। रञ्जयामास भूपालं चेतोऽन्येषां च धीमताम् / / इतो वार्द्धकभावेन श्रीसिद्धसेनसूरयः / असमर्था गृहीतुं त्वभूवन्ननशनं हृदि / / बप्पभट्टिविनेयस्याऽऽकारणार्थं यतिद्वयम् / प्रेषितं गुरुणा चागात् समीपे गुरुलेख