________________ 88 शत्रुजय-कल्पवृत्ती गोपगिरौ जयति जिनराजः॥१॥" प्रातरुत्थाय भूपालो गजारूढः सुसेवकः। चैत्ये स्वकारिते वीरं नत्वाऽतो वन्दते गुरुम् / / मिथ्यादृशां तदा दृष्टयः पूर्यन्ते सेन्धवेन च / सम्यगदृशां तु पीयूषै-प्रिंयन्ते चैत्यवीक्षणात्।। प्रातर्निवेश्य कल्याणा सने स्वस्य गुरुत्तमम् / आमोऽशृणोद्यदा धर्मं तदा केषु द्विजन्मसु // द्विजा एत्य गृहे भूमि-पतेरग्रेऽवदन्निति / अमीषां श्वेतवस्त्राणां स्वर्णासनं न युज्यते / कुत्सनीया अमी भिक्षाभोजिनः शूद्रजातयः / दीयतेऽस्योपवेशाया-तोऽधुनाऽन्यदासनम् || एवं प्रोक्त द्विजैः सूरेरुपवेशाय भूपतिः / लघीयो विष्टरं प्रेष्य मौलं कोशगतं व्यधात् / / तस्मिन् सिंहासने सूरि-रुपविश्य दिनोदये / सूरीश्वरोऽपठत् श्लोक-मेकं नरपतेः पुरः / / “मर्दय मानमतङ्गगजदएँ, विनयशरीरविनाशनसर्पम् / क्षीणो दर्पाद्दशवदनोऽपि, यस्य न तुल्यो भुवने कोऽपि / / 1 / / " श्रुत्वैतद् गुरुचित्तस्थं ज्ञात्वा होणो महीपतिः / मौलं सिंहासनं सद्योऽप्रेषयद् गुरवे तदा / / गुरोश्चरणयोर्भक्त्या लगित्वाऽऽममहीपतिः / श्रीगुरुं क्षम यामास मनोवाक्काययोगतः / / गुरुः प्राह द्विजाः स्वीय-जातिगर्वितमानसाः। तृणाय मन्वते नैव जातीरन्याः कदाचन / / ब्राह्मणो ब्रह्मचर्येण क्षत्रियाः शस्त्रपाणयः / कृषिकर्मकरा वैश्याः शूद्राः प्रेषण कारकाः / / अधीत्य चतुरो वेदान् साङ्गोपाङ्गान् सलक्षणान् / शूद्रात् प्रतिग्रहं कृत्वा खरो भवति वाडयः / / खरो द्वादश जन्मानि षष्टि जन्मानि शूकरः। श्वानः सप्तति जन्मानि इत्येवं मनुरब्रवीत् / / शूद्रगेहाद् द्विजा लान्ति प्रतिग्रहं यतः सदा / ततो न वणिजः शूद्राः किन्तु वैश्या नराधिप ! // यदा यो यादृशं कर्म कुर्यात् स तादृशो भवेत् / कर्मतो जायते जातिः शुभो वाऽप्यशुभा पुनः // कुत्सितं कर्म कुर्वाणा दृश्यन्ते साम्प्रतं द्विजाः / अतः शूद्राः प्रजल्पन्ते ब्राह्मणा अपरे पुनः // तदा कोटी सुवर्णस्य गुरुभ्यो मेदिनीभुजा / दत्ता ते जगृहे नैव निरीहत्वाद् गुरूत्तमैः // ततो जीर्णजिनागारो-द्धारे रेकोटिरेकिका / व्ययिता भू भुजा सङ्घ-युक्तेन गुरुवाक्यतः / / अन्यदान्तःपुरे पत्नी प्रम्लानवदनाम्बुजाम् / दृष्ट्वा गुरोः पुरो भूपो गाथार्धमूचिवानिति / / "अन्जवि सा परितप्पइ कमलमुही अत्तणो पमाएणं / " निशम्येमां समस्यां तु बप्पभट्टिजगावदः / " पढमविबुद्धेण तए जीसे पच्छाइयं अंगं // 1 // " समस्यां निजचित्तस्थां सहसा गुरुपूरिताम् / ज्ञात्वा चमत्कृतो राजा ववन्दे भक्तितो गुरुम् / / पदे पदेऽन्यदा मन्दं मन्दं यान्ती प्रियां पथि / दृष्ट्वा गाथार्धमुर्वीशो जगादेति गुरोः पुरः / " बाला चंकमंती पए पए कीस कुणइ मुहभंगं / " ततः सूरिः प्रत्युत्तरं ददौ-" नूणं रमणपएसे मेहलिया छिवइ नह पंती / / श्रुत्वैवं भूपतिः काल-मुखो दध्यौ स्वयं हृदि / अमी किं गुरवो मेऽन्तः-पुरे हि कृतविप्लवाः / / ततो भूपाशयं मत्वेङ्गितेन ध्यातवान् गुरुः / अहो ! विद्यागुणोऽप्येष दोषतां मे गतोऽधुना / / यतः" जलधेरपि कलोलाश्चापलानि कपेरपि / शक्यन्ते यत्नतो रोद्धं न पुनः प्रभुचेतसः / / 1 // " रात्री सङ्घमनापृच्छय राजद्वारकपाटके / काव्यत्रयं लिखित्वाशु नगर्या निर्ययो गुरुः // तथाहि-" यामः स्वस्ति तवाऽस्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता, वर्तिव्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः। श्रीमस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः // 1 // मैवं मंस्था स्थितिपदमहं मत्त एवाम्बुलाभो मय्यायत्तं जठरभरणं मत् कृपा सन् कृपा वा / स्थास्यन्ते ते परिभवमपि प्राप्यते हेमसन नैकस्यार्थे विमलसरसो निर्गता राजहंसाः // 2 // अस्मान् विचित्रवपुषश्चिरपृष्ठलग्नान् , किं वा विमुञ्चसि विभो ! यदि वा विमुञ्च / हा हन्त ! केकिवर ! हानिरियं तवैव, भूपालमौलिषु पुनर्भविता स्थितिर्नः // 3 // " विहरन् भूतले सूरि-दिनैः कतिपयैः क्रमात् /