________________ बप्पभट्टिमरिचरित्रम् नगर्या लक्षणावत्या-मुद्याने समवासरत् // तत्र पुर्या नृपो धम्मों न्यायी तस्य च संसदि / कविराजः कविकाव्य-पङ्क्तिं प्राह नृप्राग्रतः / / सूरिं तत्रागतं ज्ञात्वा भूपः कविसमन्वितः / आनिनाय पुरीमध्ये प्रवेशोत्सवपूर्वकम् / / भूपदत्ते गृहे तुङ्गे स्थितं सूरि निरन्तरम् / नत्वा श्रुत्वा कवित्वानि धर्मश्च बू भुजे सुखम् / / राजताः कवयोऽनेके जिताश्च सूरिणा तदा / सेवन्ति तत्पदो स्यन्ति सन्देहं चिरकालजम् / / युक्तोऽसि भुवनभारे मा नम्रां कन्धरां वितनु शेष ! / त्वय्येकस्मिन् दुःखिनि भवन्ति भुवनानि सुखितानि / / 1 / / " किं तेन हेमगिरिणा रजताऽद्रिणा वा, यस्याश्रयेण तरवस्तरवस्त एव / मन्यामहे मलयमेव यदाश्रयेण, कोरण्टनिम्बकुटजा अपि चन्दनानि ||2|| सज्जनस्य हृदयं नवनीतं गीतमत्र कविभिन हि तावत् / अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् / / 3 // " इतो गोपगिरावाम-भूपोऽप्रेक्ष्य गुरुं निजम् / काव्यत्रयं पुरद्वारे दृष्ट्वा खिन्नोऽभवन्नृपः / / तथाहि-" यामः स्वस्ति तवास्त्विति / / " वृक्षे समेत्य सन्ध्यायामुषित्वा रजनी वयः / उड्डीयोडोय गच्छन्ति स्वेच्छितां ककुभं किल / / वर्षाकालं समायान्तं वीक्ष्य सितच्छदाः खलु / गच्छन्ति मानसेऽभीष्टे सरसीति नरेश्वर ! // काव्यार्थावगमाद्राजाक्षराण्येक्ष्य गुरोस्तदा / दध्यौ विमुच्य मां कस्मात् कारणादीयिवान् गुरुः / / अन्येाभूपतिर्बाह्यो-द्याने कृष्णभुजङ्गमम् / मुखे धृत्वा गृहे नीत्वा वस्त्रेणाच्छाद्य मुक्तवान् / कृत्वा पवयं भूपः कविभ्योऽर्पितवानिदम् / " शस्त्रं शास्त्रं कृषिविद्या अन्यो यो येन जीवति" // समस्येयं न केनापि पूरिता भूपचिन्तिता / यदा तदाऽस्मरद् बप्प-भट्टि सूरीश्वरं गुरुम् / / ततश्चावीवदद्भपः पटहो मन्त्रिपार्वतः / मम हस्वां समस्यां यः पूरयिष्यति मानवः / / तस्मै रैदङ्ककान् लक्षं ददाम्यादरपूर्वकम् / ततो हातकृता केना-गत्य सा पूरिता त्विति / / " सुगृहीतं हि कर्त्तव्यं कृष्णसर्पमुखं यथा " आकार्य भू भुजा पृष्टो द्यूतकारः क्षणात्तदा / सत्यं वद समस्येयं पूरितो केन कितव ! / / दातकारो जगौ स्वामिन् ! श्रीलक्षणावती पुरी। अगामहमपृच्छं च समस्यार्थं गुरोः पुरः / / समस्या पूरिता बप्प-भट्टिना गुरुणा त्वियम् / ततो हृष्टो नृपस्तस्मै स्वप्रोक्तं दत्तवाँस्तदो // राजाऽऽचष्ट सभायां तु श्रीबप्पभट्टिसूरिणा / समस्या पूरिता तेन तस्य तुल्योऽस्ति कोऽपि न / / अन्यदा नगरोद्योने न्यग्रोधद्रोरधः स्थितः / ददर्शाऽऽमनृपः पान्थं मृतं शाखाविलम्बितम् / / श्रवन्तं विग्रुषां व्यूह करपत्रकमेककम् / गाथार्द्धं लिखितं ग्राणि ददर्शत्यवनीपतिः // " तइया मह निग्गमणे पियाइ थोरंसुएहि जं रुणं / " तत् समस्यापदद्वन्द्वं पप्रच्छ कव्यन्तिके नृपः / / न केनापि यदाऽपूरि समस्या नृपचिन्तिता / तदाऽस्मार्षीन्महीपालो बप्पभट्टि गुरुत्तमम् // आह चेति-वेश्यानामिव विद्यानां मुखं कैः फैन चुम्बितम् / हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा / / प्रतिपत् चन्द्रं सुरभी नकुलो नकुलीं पयश्च कलहंसः। चित्रकवल्ली पक्षी सूक्ष्मं धर्मं सुधीर्वेत्ति / / ध्यात्वेति भू भुजा द्यूत-कारः स एव चालितः / उपसूरि समस्याया अर्थं ज्ञातुं समीयिवान् / / स्वागमे कारणं प्रोक्ते द्यूतकारेण तत् क्षणात् / बापभटिरुवाचेति समस्यार्थं तदग्रतः // "करवत्तय बिंदु निवाडणमिहेण तं अज्ज संभरिअं॥" दातकारः समेत्यावग् समस्यापूरणं गुरोः / यावत्तावन्नृपो दृष्टोऽनंसीत्तं चेतसा गुरुम् // तत आह्वयितुं सूरिं वाग्मिनः सचिवा वराः / भूभुजा प्रेषिता बप्प-भट्टिसूर्यन्तिके ययुः / / गुरुं नत्वाऽऽमभूपेन प्रेषिता वयकं त्विह / जल्पन्तस्ते तु विज्ञप्ति प्रददुः सूरये तदा / / " न गङ्गां गाङ्गेयं सुयुवतिकपोलस्थलगतं, नवा शुक्तिं मुक्तामणिरुरसिजस्पर्शरसिकः / न कोटीरारूढः स्मरति च सवित्री मणिचय-स्ततो 12