________________ 87 आमभूपकृतशत्रुञ्जयोचारसम्बन्धः कियत्यपि गते काले यशोवर्मनृपे मृते / मन्त्रिभिस्तत्पदे सूनू-रामनामा निवेशितः // गुणैरुतुङ्गता याति नोच्चैरासनसंस्थितः। प्रासादशिखरस्थोऽपि काकः किं गरुडायते ? // आमो राज्ये निविष्टः सन् बप्पट्टि मुनिं वरम् / मुश्चते न क्षणं चित्ताजैनो जिनमिवानिशम् || "आरम्भगुर्वी क्षयिणी क्रमेण, ह्रस्वा पुरा वृद्धिमती तु पश्चात् / दिनस्य पूर्वार्द्धपरार्द्धभिन्ना, छायेव मैत्री खलसज्जनानाम् / / 1 // " लक्षद्वयी तुरङ्गाणां चतुर्दशशतप्रमाः / स्यन्दना हस्तिनश्चैव-मेका कोटिः पदातयः / / श्रीआमस्य महीशम्य बप्पट्टि मुनि विना / पलालपूलकप्रायः सर्वं राज्यं विराजते / प्रधानपुरुषानाऽऽमो बप्पट्टि मुनि बुधम् / आह्वातुं प्रेषयामास ते च तत्र गता जगुः / / बप्पभट्टिमुने ! विद्वन् ! तव वन्दनमन्वहम् / आमो वाञ्छति तेन त्वं तत्रैत्य तं प्रमोदयं / / बप्पट्टिर्जगौ श्रीमद्-गुर्वादेशं विना मया / तत्राऽऽगन्तुं न शक्येत गुर्वायत्तो यतो यतिः। ततस्तैरामभूपोक्तेः प्रोक्तं गुरोः पुरस्तदा / गुरुणा प्रेषितो बप्प-भट्टिस्तत्रामसन्निधौ // आमस्तस्य मुनेः पुर्या प्रवेशोत्सवमद्धतम् / कुर्वन् लक्षत्रयं रैणां व्ययति स्म प्रमोदतः / / बप्पभट्टिमुनेनत्वा पादावाचष्ट भूपतिः / अर्द्धराज्यं प्रसद्य त्वं गृहाणानुगृहाण माम् / / मुनिनोक्तं किमस्माकं राज्येन क्रियते मम / निर्ग्रन्थाः स्युर्यतः सर्व-सावद्यवर्जकाः सदा // अनेकयोनिसम्पाता-नन्तपापविधायिनी / अभिमानफला चेयं राज्यश्रीः सा विनश्वरी / / ततोऽतिरञ्जितो राजा मुनि नत्वा जगावदः / त्वं धन्यवान् पुण्यवांस्त्वं यतस्ते स्यान्मतिर्वरा / / ततो नृपः प्रगे नन्तुं मुनिं यातो जगावदः / उपाविशाऽ. ऽसने ह्यस्मिन् प्रसद्य मयि साम्प्रतम् / / मुनिपाश्र्वस्थिता वाचंयमाः प्रोचुस्तदेति तम् / न कल्पते विना सूरि-पदं विष्टर आसितुम् / / तत आमोऽनुगान् प्रेष्य बप्पभट्टेच्नेर्गुरुम् / स्वपुर्यामानयामास नानोत्सवपुरस्सरम् // उपदेशं गुरोः श्रुत्वा भूपश्चमत्कृतो जगौ। भगवन् ! बप्पभट्टेस्तं देहि सूरिपदं द्रुतम् / / योग्यं शिष्यं पदस्याशु ज्ञात्वा श्रीमद्गुरूत्तमैः / देयं सूरिपदं सद्यो वाञ्छद्भिर्हितमात्मनः / / सूरिः प्राह महीपाल ! यद्येवं ते रुचिहदि / तदा सूरिपदे बप्प-भट्टिश्च स्थापयिष्यते / / ततो विलोक्य शकुन-श्रेणीमुदयकारिणीम् / गुरुमिर्मानितं सूरेः पदं तस्य मुनेच्दा // यदा सूरिपदं बप्प-भट्टये गुरुणा ददे / तदा महीधवो रैणां लक्षत्रितयमव्ययत् / / सूरिपदक्षणे सूरिः शिष्याङ्गे कमलां स्वयम् / साक्षात् कनीमिवालोक्य रहः प्राहेति तं प्रति / / वत्स ! ते राजसत्कारो महान भावी नृपालये / दुःशकः खजयस्तेऽस्ति ब्रह्म पाल्यमतस्त्वया / / यतः-'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः / त्वं ब्रह्मचर्यावनतः प्रतिष्ठां लभिष्यसेऽमुत्र परत्र शिष्य ! // 1 // " विक्रमार्काद्भवश्रेयोमितेष्वव्देषु सूरिराट् / ददौ सूरिपदं बप्प-भट्टे चैत्राष्टमीदिने / / विहारं सूरिराट् कुर्वन्नन्यदा स महीभुजा / आकारितो ययौ गोपगिरौ श्रीबप्प-भट्रिकः / / महामहे महीशेन कार्यमाणे पुरान्तरे / बप्पभट्टिः पुरीमध्ये समागात् साधुसेवितः / / वन्दित्वा भूपतावग्रे निविष्टे सति संसदि / सूरीशो देशनां चक्रे भवाम्भोनिधितारिणीम् // श्रीरियं प्रायशः पुंसा-मुपकारैककारणम् / तामुपकुर्वते ये तु रत्नसूस्तैरसौ रसा // “जिणभवण-बिब-पुत्थय-संघसरूवेसु सत्तखित्तीए / वविअं धणंपि जायइ सिवफलयमहो ! अणंतगुणं // श्रुत्वा गुरुवचो भूपः श्रीवीरजिनमन्दिरम् / एकाधिकशतोच्छ्रायं कारयामास रैव्ययात् / / अष्टादशसुगाङ्गेय-भारनिर्मितमद्भतम् / वीरबिम्बं नृपस्तत्र सुष्ठूत्सवं न्यवीविशत् / / सपादलक्षरैटङ्का चैत्ये चादिममण्डपे / तत्र लग्ना महीशस्य क्रमात कारयतश्च तत् / / यतः-“ यस्तिष्ठति वरवेश्मनि सार्दाभिर्द्रविणकोटिभिस्तिमृभिः / निर्मापिते च राज्ञा