________________ शत्रुञ्जय-कल्पवृत्ती कविकर्म मर्म न पुनर्वागडिण्डिमाडम्बरः / / इत्यन्ये कवयः सूरि-राजं तुष्टुवुरादरात् / वेश्यैका विदुषी स्तौति गुरुं न स्वगिरा क्वचित् // ततो राज्ञोदितं सर्वे वयं तुष्टा स्तुमो गुरुम् / किमियं गणिकाऽस्तोषी-न कचिद् गुणसागरम् / / गणिकेयं न मां स्तौति मत्वेति सूरिपुङ्गवः / ध्याने तथास्थितोऽयन्तं यथा मृत्युगतोऽभवत् // पवनञ्जयसामर्थ्यात् शबवत्संस्थितं गुरुम् / जम्पानकाधिरूढं तं शिष्या अकारयन् यदि / / यानमुत्पाट थायान्तस्ते शिष्याः शिताननास्तदा / जगुर्गुरुर्मू तोऽस्माकं साम्प्रतं कर्मयोगतः // आकण्यतत्तदा वेश्या रुदती सुदतीसरं / पादलिप्तकसूरेस्तु स्तुतिमेवं प्रचक्रमे / “सीसं कहवि न फुर्ट जमस्स पालित्तयं हरंतस्स / जस्स मुहनिज्झराओ तरंगलोलानई बूढा // 1 // " एवं स्तुते गुरौ पण्यस्त्रियोत्तस्थौ गुरुयंदा / तदाऽवग गणिकाऽजीवः कथं मृतोऽपि साम्प्रतम् // सूरिः प्राह भवतस्तुत्या सुधया कर्णसङ्गया / जीवितोऽहमिदानीं तु पण्यनारि ! शुभाशये // ततो महोत्सवेऽत्यन्तं क्रियमाणे नृपादिभिः। स्वकीयवसतावागात पादलिप्तकसरिराट // सातवाहनभूपालः सोऽपि शत्रञ्जयाचले। सूरिणाऽऽकारितो यात्रां भूरिसङ्घसमन्वितः / / मुरण्डभूपतिः शत्रु-अये यात्रां सुविस्तरात् / गुरुणा पादलिप्तेन कारितो भूरिसङ्घयुग // पादलिप्तगुरुः शत्रु-जये गत्वा शिवप्रदे / गृहीत्वाऽनशनं सूरि- पुङ्ग वस्तस्थिवाँस्तदा / द्वात्रिंशदुपवासान्ते पादलिप्तकसूरिराट् / ईशाने शक्रसदृशो बभूव भासुरातिः // नागार्जुनोऽपि सर्वज्ञ-धर्मं कृत्वा गुरूदितम् / जगाम त्रिदशावासे गत्वा शत्रुञ्जयाचले // 159 / / इति पादलिप्तोद्धारकथा / आमभूपसम्बन्ध उच्यते; तथाहि-कान्यकुञामिषे देशे गोपालगिरिपर्वते / गोपालाबपुरे भूपो यशोवर्माभिधोऽभवत् / तस्य पल्या यशोदेव्या कुक्षिभूरामनन्दनः / अभूत् तम्य पिता जन्मोत्सवं चक्रेऽतिविस्तरात् / / वर्धमानः क्रमाद् दानं भूरि दत्तेऽर्थिने सदा / ततः स शिक्षित: पित्रा कुपितेनेति कर्कशम् // रे ! पुत्रैवं व्ययन् लक्ष्मी कोशं रिक्तं करिष्यसि / दानं प्रदीयतेऽर्थिभ्यो मितं स्वहितमिच्छता // पित्रेति हक्कितः पुत्रो निर्गत्य नगराद्रहः / मोढेरकपुरोद्याने ययौ देवकुले वरे // सिद्धसेन. गुरोः शिष्यो बप्पभट्टयभिधो यतिः / विहरन्नन्यदा देव-गेहे स समुपागमत् // प्रशस्त्यर्थे महार्थे तु यतिना कथिते सति / आमोऽतिमुदितः साधो-श्चरणौ भक्तितोऽनमत्। यतिनोक्तं कुतोऽत्र त्व-मागाः को तेऽभिधा पुनः ? / ततः खटिकयाऽऽलेख्य स्वनामादि जगौ स च / / यतः-“महाजनाचारपरम्परेदृशी, स्वनामनामाऽऽददते न साधवः / असौ पुमानेव ततोऽति बुद्धिमान् , भविष्यत्यग्रे जगतीमनोहरः // 1 // " दध्यौ स संयतः पूर्व यो मात्रा सह कानने / दृष्टोऽस्माभियशोवर्म-भूपतेस्तनयोऽनघः॥ यत्र वृक्षे स्थितो बाल-स्तस्य छायाऽनमन्नहि / ततोऽस्मद्गुरुमिनीतो भूपान्ते जननीयुतः // भविष्यति महानेष इत्युक्त्वा नृपतेः पुरः / बालोऽयं स्थापितो मोत्रा युतो जनकसन्निधौ / / सम्भाव्यते स एवायं यशोवर्मनृपाङ्गजः / आकृया ज्ञायते ह्येष भूपपुत्रो विचक्षणः // बप्पभट्टिर्जगौ किं त्वं यशोवर्ममहीपतेः। पुत्र आमाभिधः पूर्व दृष्टो स कानने वरे // साम्प्रतं वत्स ! शुद्धात्मा निर्गतः कथमेककः 1 / स प्राह धिक्कृतः पित्रा निरगां दूरनिवृति // बप्पभट्टिरवक् तिष्ठ त्वमत्र पठ सन्ततम् / तत आमः पठन् सर्व-विद्यास्वजनि कोविदः / / बप्पभट्टयन्तिके पुत्रं ज्ञातशास्त्रं विचक्षणम् / ज्ञात्वा कस्यचिदास्यात् तु निनाय निजसन्निधौ //