________________ যাহতিশীৱাথা वरश्रियि // श्रुत्वैतच्च तदा नागा-र्जुनः कान्तीपुरे रहः / यत्नेन रक्ष्यमाणं त-द्विम्बं चापहरत् क्षणात् / / सेटीनद्यास्तटे मुक्त्वा तद्विम्बं कुसुमैवरैः / पूजयित्वा प्रभोर रससिद्धिममण्डयत् / / धर्म धर्म रसं पार्श्व-प्रभोई गगोचरे तदा / नागार्जुनो व्यधात् स्वर्ण-सिद्धिं पूर्णा मनोहराम् // सेटीसझनदीकूले श्रीपार्श्वदृष्टिगोचरे / रसे स्तम्भमवापाऽतो-ऽजनि स्तम्भनक पुरम् / / तत्र स्तम्भनके नाम्ना पुरे स्तम्भनकाभिधम् / प्रासादं कारयामास नागार्जुनो धनव्ययात् / / तत्र श्रीपार्श्वनाथस्य तद्विम्बं सुप्रभावभृत / तस्मिन् जिनालये नागा-र्जुनोऽतिष्ठिपदञ्जसो // तत उक्तञ्च -" स्तम्भनस्थमहं स्तौमि तां पाश्र्वप्रतिमां तथा / पूर्वी यर्यथाख्याति नानास्थाननिवासिनी // 1 // " एकोदशाऽब्दलक्षाणि वरुणस्त्वामपूजयत् / नवाहराधिकान् सप्त-मासान् रामस्तमार्चयत् / / अशीत्यव्दसहस्राणि तक्षकेनापि पूजितः / सौधर्मसुरराजेन चर्चयित्वा चिरं नतः / / अद्यापि वासुदेवाय द्वारवत्यां जिनोत्तमः / ततः सागरतः कान्त्यां विंशत्यब्दशतानि च // पद्मावया ततोऽपूजि पालितार्यनिदेशतः / आनीतः सेटिकानद्या नागार्जुनेन योगिना / / स्वामिस्ते पुरस्तेन रसस्तम्भो विनिर्ममे / स्तम्भनाख्यं ततस्तीर्थ सञ्जातं जगतितले / / नवाङ्गवृत्तिकारण त्वार्येणाभयसूरिणा / नवाङ्गदायको नाथ ! त्वं पुनः प्रकटीकृतः / / दुष्टैर्लेच्छभटर्देशे गूर्जरोख्ये परिप्लुते / मङ्गलत्वाग्निचन्द्राब्दे स्तम्भतीर्थमवातर(:)। प्रातः समुत्थाय जिनाधिनाथं यः स्तोत्रमेतत्पठति प्रवीणः / रोगोरगारिग्रहसिंहशङ्कां मुक्त्वा यशःश्रीः तिलकायते सः / ततः शत्रुञ्जयं गत्वा पादलिप्तकसूरियुग / विस्तरात् स्नात्रपूजादि नागार्जुनो व्यधात्तमाम् // प्रासादं जर्जरं दृष्ट्वा नागार्जुनस्तदादरात् / उद्दधार गुरोर्नाम ददौ कुर्वन् महोत्सवम् / उद्धारो विदधे पाद-लिप्तेन गुरुणा किल / शत्रुञ्जये इति ख्याति व्यस्तारयत् स नागभूः / / पादलिप्तकसङ्घ च पुरं नागार्जुनस्ततः / वासयित्वा गुरोर्नाम्ना जिनागारमचीकरत् // तत्र पार्वजिनेशस्य बिम्बं प्रस्थाप्य सूत्सवम् / नागार्जुनोऽर्जयामास पुण्यं मुक्तिगमोचितम् // पादलिप्तकसूरीशो बोधयन् मनुजान् बहून् / प्रतिष्ठानपुरोद्याने मनोज्ञे समवासरत् / / तत्राऽऽसन्न प्रदेशेऽस्ति नदी गोदावरी वरा / नार्यङ्गकेसरप्राज्य-करतूर्यादिजलप्लुता || तत्पुरं पाति भूपालः सातवाहन इद्धधीः / योद्धानां विदुषां मुख्यो दानशौण्डो नयी धनी / / तस्य संसदि कश्चिन्ना समागत्य जगाविदम् / पादलिप्तगुरुः सर्व-विद्यावानोगतस्त्विह // ततः सर्वैरपि बुधैः सम्भूयैकत्र तत्क्षणात् / स्त्यानसर्पिभृतं कच्चो-लकं स्वानुगपाणिना // प्रेषितं सन्मुखं श्रीमद्-गुरूणां सन्निधौ ध्रुवम् / आचार्यैतमध्ये तु क्षिप्त का सूचिका दृढम् // कच्चोलकं तथाऽवस्थं पश्चाच्छ्रीमद्गुरूत्तमैः / प्रेषितं भूपतेः पार्श्व ततो राजा जगावदः / / स्त्यानसर्पिभृते कच्चो-लके सूची गुरूत्तमैः / क्षिप्ता तस्य च को भावो जल्पतां विबुधा ! इह / / बुधाः प्रोचुर्गुरूत्तंसै-पितं वोऽधुना खलु / स्त्यानसर्पिभृतामत्र-मिव ज्ञैः पूरितं पुरम् / / प्रविष्टा सूचिका स्त्यान-सर्पिमध्ये यथाधुनो / तथाऽहं भवतः पुर्या ज्ञपूर्णायां विशाम्यहम् // ततः पण्डितयुग् राजा गुरोः सन्मुखमीयिवान् / तुष्टाव गुरुपादाब्जं पुनर्विपुलया गिरा // गुरवो नगरीमध्ये समेता धर्मदेशनाम् / ददुस्तथा यथा राजा भक्तोऽजनि गुरौ भृशम् // निर्वाणकलिका प्रश्नप्रकाशप्रमुखाणि च / शास्त्राणि रचयामास चमत्कारीणि चेतसाम् / / नवां तरङ्गलोलाख्यां चम्पू विरच्य सूरिराट् / व्याचचक्षे महीशस्य पुरतः संसदि स्फुटम् // चम्पूकाव्यार्थमाकर्ण्य तुष्टोऽतीव महीपतिः / कवीन्द्र इति नामाऽदात् पादलिप्तगुरोर्यथा // शाणोत्तीर्णमिवोज्ज्वलद्युतिपदं बन्धोर्द्धनारीश्वरः श्लाघालअनजासिको विवि लतोद्भिन्नेव चार्थोद्गतिः / ईषच्चूर्णितचन्द्रमण्डलगलत्पीयूषडयो रसस्तत्किञ्चित्