________________ शत्रुञ्जय-कल्पवृत्ती भिभ्रमद्भिर्वीक्षितो भुवि // प्रभुणा सह कुर्वत्सु तेषु गोष्ठी प्रवादिषु / एको वादी गुरुं नत्वा प्राहेत्युच्चैःस्वरं स्फुटम् // " पालित्तय कहसु फुडं सयलं महिमंडलं भमंतेण / दिट्ठो सुआ व कत्थवि चंदणरससीयलो अग्गी // 1 // " गुरुराह तदेति-" अयसाभिओगसंदूमिअस्स पुरिसस्स सुद्धहिययस्स / होइ वहंतस्स फुडं चंदणरससीयलो अगी // 1 // " तुष्टास्ते वचसा सूरेः सुष्ठूचुः श्रीगुरुं प्रति / साक्षादेवगुरुभूमा-ववतीर्णोऽसि सूरिराट // इतश्चार्यखपुटेन तापिता ये द्विजादयः / ते बलाद् ग्राहिता दीक्षा केचिद्विद्याम्बुराशिना // तेषां द्विजन्मनां स्वीय-पाटलीपुरसंस्थिताः / द्विजा जैनयतीन् पूर्ववैरादुपद्रवन्ति हि // श्रुत्वोदन्तममुं पाद-लिप्ताचार्यों जनाननोत् / नभसा पाटलीपुत्रे (पुरे)ऽभ्येय जगावदः / / रे ! द्विटहन्तरि मय्येव द्विजा जैनमतच्छिदः / मद्वाकचपेटयाध्वस्ता गमिष्यथ यमालयम् / / जर्जरापि हि यष्टिः स्यात् स्थालीभञ्जनहेतवे / यूयं जैनमतं हन्तु-कामाः स्थ सन्ततं मुधा। सूरिणा हकिताः केचि-नेमुर्नष्टाश्च केचन। मूछिताः केचिदेव स्युः केचित् कम्पितवक्षसः / / तत्र सार्वमतोद्योतं कृत्वा श्रीपादलिप्तकः / ययौ भृगुपुरोद्याने सुत्रताहत्पवित्रिते // तत्राचार्यखपुटस्य सम्प्रदायात् कलाः कलाः / तथाऽग्राहीद् यथा जातः सूरिर्गुरुसमानधीः / / इतो ढङ्कगिरौ शत्रु-जयशृङ्गे मनोहरे / रेणसिंहस्य पुत्र्यासी-ड्रोपोलाह्या महीपतेः // रूपलावण्यसम्पूर्णा तां कन्यां पश्यतस्तदा / वासुकेर्नागराजस्या-नुरागोऽजनि तत्क्षणात् / / वासुकेः सेवमानस्य तां कन्यां रूपशालिनीम् / नागार्जुनाभिधः पुत्रो रूपलावण्यशोभभृत् // सर्वासामौषधीनां तु फलमूलदलादिकम् / अभोजि नन्दनः स्नेहात् पित्रा वासुकिनाऽहिना / औषधीनां प्रभावेण स महासिद्धिभिर्युतः। सिद्धपुरुष इत्याख्यां ख्याति प्रापाs. खिले जने / / पृथिव्यां व्यचरत् सोत-घाहनस्य महीपतेः / कलागुरुरभून् नागा-र्जुनो वासुकिनन्दनः / / नागार्जुनो वियद्गामि-विद्यार्थ पालितानके / पादलिप्तं गुरुं शश्वत् सेवते स्म सदादरात् / / भोजनावसरेऽन्येाः पादप्रलेपयोगतः / व्योम्न्युत्पत्य गतः सूरि-र्नागार्जुने प्रपश्यति // अष्टापदादितीर्थानि नत्वा स्वं स्थानमागतम् / सूरि व्योम्नः स विज्ञाय नागार्जुनश्चमत्कृतः। एवं दिने दिने सूरिं गच्छन्तं गगनाध्वना / वीक्ष्य नागार्जुनो भक्तिं चकार गुरुपादयोः // प्रक्षालयन् गुरोः पादौ नागार्जुनोऽनुवासरम् / जज्ञौ सप्तोत्तरशत-मौषधीनां तदाभिधाम् / गुरोः पदाम्भसो गन्धा-दौषधीनां स मानवः / सप्तोत्तरशतं जज्ञौ नामस्थानादिभित् क्रमात् / / नीत्वा तानौषधोन् घर्ष घर्ष पादावलेपनम् / कृत्वोत्पत्याम्बरे भूमौ पपात नागनन्दनः।। उत्पतन् भूरिशा व्योम्नि नियतश्च क्षितौ पुनः। जगजर्जरितोऽभूत्(स)तदा नागार्जुनो भृशम् / / व्योमोत्पतनवृत्तान्तं तदा नागार्जुनान्तिकात् / श्रुत्वा सम्यग गुरुश्चित्तेऽतीवाऽजनि चमत्कृतः // विनयेन तदा तस्य (यदा तेन) गुरुः पृष्टो जगावदः / षष्ठितन्दुलनीरेण निखिला औषधीः स्फुटम् / / वर्तयित्वा व(घ)नले दत्त्वा पदोस्तले पुनः / हिण्डसे व्योम्नि सारि-रिव नागार्जुन ! त्वकम् / / गुरूदितं विधिं कृत्वा गच्छन्नागार्जुनोऽन्यदा / शुश्रावेति गुरूपान्ते स्वर्गसिद्धिकरं वचः / / गुरूक्तविधिना कृत्वा रससिद्धि वरे कृते / पिण्डं कर्तुं न शक्नोति नागार्जुनो मनागपि // ततो गुरुपदोपान्ते रसबन्धं निशम्य सः / वीक्ष्यते पार्श्व-बिम्बं तु सुप्रभावं वरे पुरे // श्रुत्वा कान्तीपुरे पार्व-बिम्बं वरप्रभावभृत् / वासुके पादलिप्तस्य मुखानागार्जुनोऽगोत् // द्वारवत्यां पुरा पार्श्व-बिम्बं वरप्रभावभृत् / पूजितं हरिणाऽब्दानां पुष्पैः सप्तशती मुदा // दग्धायां द्वारवत्यां तु तद्विम्ब जलधौ तदा / स्थितं सम्पुटमध्यस्थं वर्षाणि शतशः पुनः ( च सहस्रशः ) // कान्तीनगरवास्तव्य-धनेन श्रेष्ठिनाऽन्यदा / प्राप्य तद्विम्बमानीतं. कान्तीपुर्या