________________ पादलितोद्धारकथा भव्यजनवात-प्रबोधाय सुसाधुयुग // धर्मोपदेशतस्तत्र बहवो भव्यमानवाः / लेमिरे गुरुणा श्राद्ध-धर्म सम्यक्त्वशालिनम् / मुरण्डो भूपतिस्तत्र खण्डिताऽरातिमण्डलः / शीरोा तीव्रया व्याप्तः षण्मासावधि सन्ततम् / / मन्त्रतन्त्रौषधैर्यन्त्रै-स्तवेत्तृभिर्जनघनैः / व्यरमत् सा न भूपस्य तस्य दुष्कर्मयोगतः / / विशेषविदुरान् सूरी-नागतान् पादलिप्तकान् / श्रुत्वाऽऽकारयितुं ताँश्च प्रैषि मन्त्री महीभुजो // तत्र गत्वा गुरुं नत्वा मन्त्री कृताञ्जलिर्जगौ। भगवन् ! राजराजस्य मुरण्डस्य महीपतेः / निवर्त्यतां शिरोतिः श्राग मन्त्रतन्त्राभियोगतः / सञ्चीयतां यशो धर्मो ततः स्यान्निवृतीन्दिरा / / ततो राजकुले गत्वा सूरीशो मन्त्रशक्तितः / अपाहरत् क्षणाद् भूमि-पतेः शिरोतिवेदना // उक्तञ्च-"जह जह पएसिणिं जाणुअम्मि पालत्तउ भमाडेइ / तह तह से सिरवियणा पणस्सइ मुरंडरायस्स / / 1 // " प्रीतो राजा ततो नत्वो-त्थाय गुरुपदद्वयीम् / प्राहाऽद्याहं कृतार्थोऽस्मि त्वत्प्रसन्नविलोचनात् / / पादलिप्तकसूरीणां प्रसोदान् मेदिनीपतिः / नगर्यां कारयामास स्थाने स्थाने महोत्सवम // सूरीश्वरयशो विश्वे विस्तार्य की दिना / स्तौति स्म श्रीगुरूत्तंस-मेव सद्भक्तिभावितः // “चेतः शान्ततरं वचः समधरं दृष्टिः प्रसन्नोज्ज्वला, शक्तिः शान्तियुता श्रुतं गतमदं श्रीर्दीनदैन्यापहा / रूपं शीलश्रितं मतिः श्रितनया स्वामित्वमुत्सेकतानिर्मुक्तं प्रकटान्यहो! नव सुधाकुण्डान्यमन्युत्तमे // 1 // " ततो मुरण्डभूपाल-स्त्यक्त्वा मिथ्यात्वमजसो। पादलिप्तकसूर्यन्ते जैनधर्म प्रपन्नवान् / / मुरण्डो भूधवोऽन्येा-गुरुपार्वे जगाविति / विनयो विद्यते राज-कुले सर्वोत्तमः खलु // गुरुः प्राह गुरुकुले विनयो विद्यते वरः / ततो गुरुर्जगौ राजन् ! यस्ते भक्तोऽनुगोऽस्ति हि / स एव प्रेष्यतां गङ्गा-प्रवाहं वीक्षितुं किल // पूर्वाशागामिनी गङ्गां पश्चिमाशाप्रवाहिनीम / विद्धि प्रेक्ष्यानगं भक्तं मरण्डावनिपाऽधना // प्रेषयिष्याम्यहं शिष्यं स्वर्गकागतिचित्कते / नास्यतेऽतो विनीतत्वं स्वस्वसेवकयोः क्रमात // त्रिभिः। गङ्गाविलोकनकृते प्रेषिता भू भुजाऽनुगाः। यत्र तत्र भ्रमित्वैत्य प्रोचर्भभिपतेः परः // आबाला अपि गोपाला जानते निखिला इति / पूर्वाशावाहिनी गडा समस्तीति किमीक्ष्यते / / गुरुभिः प्रहितौ साधू गत्वा गङ्गाजलान्तिके / स्थापयित्वा ध्वजं वायु-गतीक्षाषशतस्तदा / पूर्व दिग्गामिनी गङ्गां ज्ञात्वा सम्यग् निरीक्षणात् / गुर्वन्ते जल्पतः स्म स्व-र्नदी पूर्वाभिवाहिनी।। सत्त्वं न ज्ञायतेऽस्माभि-र्जानन्ति गुरवः पुनः / गुरूदितं विधातव्यं शिष्यर्दुष्करमप्यहो। यतः- "मिणगोणसंगुलीहिं गणेह वा दन्तचक्कलाई से / इच्छंति भाणिऊणं कज्जं तु तमेव जाणंति // 1 // कारणविउ कयाइ सेयं कायं वयंति आयरिया / तं तह सदहियव्वं भवियव्वं कारणेण तहिं // 2 // " गुरुशिष्यस्वभृत्यानां ज्ञात्वा विनयकारणम् / भूपः प्राह विनीतत्वं दृष्टं गुरुकुले मया // यत उक्तम्" निवपुच्छिएण गुरुणा भणिओ गङ्गा कओमुही वहइ / संपाइअवं सीसो जह तह सव्वत्थ कायव्वं // 1 // " ज्ञात्वा गुर्वनुगान् शिष्टान् विनीतान्मेदिनीपतिः / अनुमेने वृषं जैनं विशेषाच्छ्रीगुरुं नमन् / अन्यदा पाटलीपुत्रात् लाटान् यातो गुरूत्तमाः / व्याख्यानं विदधे श्राद्ध-कर्णसातप्रदं दृढम् // ततो गोचरचर्यार्थं गतेषु साधुषु क्रमात् / चिक्रीड बालकैः सार्द्ध शालामध्ये स सूरिराट् / / अतोऽकस्मात् समायातान् श्रोद्धान् वीक्ष्य स सूरिराट् / संवृत्याकारमहाय तस्थिवान् विष्टरे स्वयम् // गतेषु श्रावकेष्वेव गत्वाऽपवरकान्तरे / पुनः खेलति सूरीशः समेतास्तत्र वादिनः / / निरीक्ष्य विजनं तत्र कूकुडुकुरवे तदा / कृतं वादिभिः सूरि-ाउं शब्दं व्यधात्तमाम् / / म्याउमोतुरवं श्रुत्वा सूरिणा विहितं तदा / ज्ञात्वेति वादिनः सूरेः पादौ नत्वाऽवदन्निति // प्रत्युत्पन्नमतेः सूरे-जमुख्यबालभारति ! / त्वत्तुल्यः कोऽपि नोऽस्मा