________________ शत्रुञ्जय-कल्पवृत्ती कोशलाढे पुरे भूपो विजयो धर्मनायकः / अभूतस्याऽभवन् मन्त्री नयविक्रमसागरः / / फुल्ल नाम्नाऽभवच्छेष्ठी जैनः प्राज्ञो वदान्यकः / तस्यासीद् गेहिनी वर्या प्रतिमाणा सुशीलभाग / / निष्पुत्रत्वेन सा खेदं दधाना पुत्रहेतवे / पप्रच्छ भूरिशो लोकान् दायं दायं धनं बहु / / प्रतिमाणाऽन्यदा देवीं वैरोटयां भक्तिपूर्वकम् / तथाऽऽरराध सद्यः सा प्रत्यक्षाऽभूज्जगाद च / / वत्से ! किमर्थमत्राहं स्मृता कार्य निजं वद ? / प्रतिमीणा जगौ पुत्रो विलोक्यते ममाधुना / / वैरोटययोदितं वत्से ! वंशे विद्याधराभिधे / अस्ति श्रीकालिकाचार्यः सर्वविद्याब्धिपारगः / / तस्मिन् विद्याधरे गच्छे श्रीआर्यनागहस्तिकः / आचार्योऽन्यो वराऽऽचारः समस्तीहागतोऽधुना / / सूरेः पादोदकं तस्य त्वं चेत् पिबसि साम्प्रतम् / तदा ते चिन्तितं चिन्ता-धिकं भवति निश्चितम् // ततः प्रमुदितो गत्वा बलाद् गुरोः पदोदकम् / शिष्यपाणिस्थितात् पात्रात् पपौ सद्भक्तिभाविता / / ततो नत्वा गुरुपादौ श्रेष्ठिपत्नी जगाविदम् / वैरोट यावचनोत् पादो-दकं पीतं मया तव // गुरवो जगदुर्मत्तो दशहस्तान्तरस्थिता / अस्मत्पदोदकं पीत-वती त्वं धर्मशालिनि ! / / ततस्ते प्रथमः पुत्रो दशयोजनसंस्थितः। महान् विद्याब्धि-पारीणो भविष्यति न संशयः // पश्चादन्ये वराः पुत्रा भवितोरो नव क्रमात् / श्रेष्ठिपत्नी जगौ पुत्र आद्यस्तुभ्यं प्रदास्यते / / गुरूक्ते गदिते पत्युः पुरस्तया तदादरात् / श्रेष्ठी हृष्टोऽगदत् सत्यं गुरूक्तं श्राग् भविष्यति / / प्राप्ते काले शुभे घस्र श्रेष्ठिन्यसूत नन्दनम् / नागेन्द्र स्वप्नरोचिष्णु वर्यलक्षणलक्षितम् // पित्रा जन्मोत्सवं कृत्वा सूनोर्नागेन्द्रनाम च / ददे ततोऽपुषत् पुष्टिं शरीरावयवैर्गुणैः // अष्टमे वत्सरे सूरी-इवरैः स दीक्षितः शिशुः / मुक्तः पाठाय सोमस्य मुनेः पार्श्व महामतिः॥ बाल्येऽपि लक्षणच्छन्दो-ऽलङ्कारकवितादिकम् / शास्त्रं भूरि पपाठार्थ-सूत्राभ्यां क्षुल्लकः स च // ततः स क्षुल्लकः श्रीमत्-कालिकाचार्यसन्निधौ। पठन् विशेषशास्त्राणि विनयं कुरुते गुरोः / / विहृत्याम्भोऽन्यदाऽऽगत्य गुरुणा प्रेरितः किल / क्षुल्ल आलोचयामास गाथयेति मनोज्ञया / / " अवं तंबच्छीए अपुप्फियं पुष्फदंतपंतीए / नवसालिकंजियं नववहूइ कुडएण मे दिन्नं / / 1 // " शिशोरास्यान्निशम्येमां गाथां चमत्करी स्फुटम् / पलित्तउ ददौ नाम कालिकाचार्य आदरात् / / शृङ्गारगर्भभणितिभणनात् श्रवणात्तथा / प्रदीप्त इति ते नाम विनेय ! करवाण्यहम् // नागेन्द्रक्षुल्लकः प्राह ममैकां मातृकां प्रभो!। नाम्नि वर्द्धय विधाय त्वं प्रसादं मयि साम्प्रतम् // यथा पालित्तउनाम्ना भूयासमहमत्र तु / भोवार्थों विद्यतेऽतो मे नाम्नि त्वया निवेदिते // अन्तरिक्षगमोपाय-भूतां विद्यां मनोरमाम् / पादलेपाभिधां मह्यं देह्यतः स्यां वियद्गमी / / पादलिप्तक इत्याह्न क्षुल्लस्य तस्य तत् क्षणात् / दत्त्वा वियद्गमा विद्या दत्तवान् गुरुराट् तथा // बालोऽपि कुरुते पाद-लिप्तकः सन्ततं तपः / न च क्वापि प्रमादं तु संयमे तनुतेतराम् / / दशवत्सरदेशीयः क्षुल्लकः पादलिप्तकः / स्थापितः सूरिणा सूरि-पदे सूत्सवपूर्वकम् // लघीयानपि सूरीशः स सशिष्ययतः सदा / बोधयामास भयिष्ठ-श्राद्धान् धर्मे जिनोदिते / / शत्र-जयोज्जयन्ताष्टा-पदार्बुदगिरिष्वहो ! / सम्मेतशिखरे देवान वन्दित्वा विधिपूर्वकम् / इयं पञ्चतीर्थी-"अद्रावयम्मि उसभो सिद्धिगओ वासुपुज्ज चंपाए / पावाए वद्धमाणो अरिटुनेमि य उजिते / / 5 // अवसेसा तित्थयरा जाइजरामरणबंधणविमुक्को / सम्मेयसेलसिहरे वीस सुपरिनिव्वुए वंदे // 2 // " समेत्य स्थानके स्वीये पादलिप्तकसूरिराट् / ओहारं रसरिक्तं तु भुङ्क्ते प्रायस्तपस्तपन् / / यतः- " यद्दरं यद्दराराध्यं यच दूरे व्यवस्थितम् / तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् // तपसा तस्य सूरेस्तु अनेकाः सिद्धयो वराः / बभूवुः स यथा ख्यातो यातः सर्वत्र भूतले / एकदा विहरन् सूरिः पाटलीपुत्रपत्तने / ययौ