________________ सातवाहननृपोद्धारसम्बन्धः भञ्जितो न च / तदा बभञ्ज तेषां तु विवादं सात एव हि // यस्य कुम्भे भवेद्धेम तस्याशु कनकं समम् / यस्य मृत्स्ना घटेऽस्तीति क्षेत्राणि सन्ति तस्य च // यस्य कुम्भे बुसं धान्यं सर्वं तस्याशु निश्चितम् / यस्यास्थीनि घटे तस्य द्वयधिचतुःक्रमादयः / / भग्ने तेषां विवादे तु ख्यातिस्तस्याऽभवजने / क्रमात् प्रतिष्ठानपुरे स बालोऽभून्महीपतिः / / मृत्स्नामयान् तुरङ्गादीन् कारं कारं स भूपतिः / साधयामास विषयान् बहून् स्वभुजलीलयो / / हंसवत्सौ यथा पुत्रौ जातौ वत्सलकारको / तथाऽमू वृत्ततो ज्ञेयं सर्वमस्य महीपतेः / / गोदानदीतटेऽन्येधु-र्यावच्छातः समीयिवान् / तावन्निर्गस्य पानीया-न्मीनो हास्यं व्यधात्तमम् // राजाऽऽचष्ट कथं मीन! त्वयो हास्यं विधीयते / मीन आह रमापुर्यां सोमभीमौ सहोदरौ / अभूतां निःस्वताभाजौ काष्ठान्यानीय काननात् / विक्रीय तौ स्वनिर्वाहं कुर्वाते प्रतिवासरम् / / युग्मम् / / तदा काष्ठाय यातेन सक्तवो भवतो वने / साधोर्विश्राणिता भावा-न्मासक्षपणपारणे // तेनैव दानपुण्येन राजा त्वमभवोऽत्र हि / तेन दानं वितीर्येत सत्यर्थे प्राणिनाऽऽदरात् // राजाऽवक् तप का चिन्ता मदीया विद्यते झष ! / मीनः प्राह त्वया पूर्व-भवे दानं ददे यदा / / तदाऽनुमोदितं दामं त्वदत्ते साधवे मया / अतोऽहं निर्जरो भूत्वा ज्ञप्तये ते समागमम् / / राजाऽऽचष्टे न मे हेम तादृग् लक्ष्मीः समस्ति हि / देवोऽवग विद्यते नद्या अस्मिन् स्थाने हृदान्तिके / रसो हेमकरोऽस्त्येव तं गृहाण महीपते ! / प्राग्भवस्नेहतस्तुभ्यं मयाऽत्रैय निवेदितम् / युग्मम् / / ततो रसान्नृपो हेम विधाय प्रचुरं तदा / अर्थिभ्यो ददते दानं यथेष्टं हर्षपूर्वकम् / / एकदा नगरोद्याने श्रीमत्कालिकसूरयः / यदा जग्मुस्तदा राजा वन्दितुं समुपागमत् / / ततः श्रीकालिकाचार्याः कुर्वाणा धर्मदेशनाम् / शत्रुजयस्य माहात्म्य प्रोचुरेवं नृपाग्रतः // यतः-" श्रोशत्रुजये तीर्थ यात्रां सङ्घसमन्वितः / चकार तस्य गीर्वाण-शिवश्रीन हि दुर्लभा / वस्त्रान्नजलदानेन गुरोः शत्रुञ्जये गिरौ / तद्भक्त्याऽत्र परत्रेह जायन्ते सर्वसम्पदः / / शत्रुञ्जयाभिधे तीर्थे प्रासोदान् प्रतिमाश्च ये / कारयन्ति हि तत्पुण्यं ज्ञानिनो यदि जानते // आदिसार्वादि-बिम्बानि मणिरत्नैश्च हेमभिः / रूप्यैः काष्ठेदृषद्भिर्वा मृदा वा भावशुद्धितः / / एकाक्गुष्ठादि सन् सप्त-शतागुष्ठावधि प्रभोः / यः कोरयति बिम्बानि मुक्तिश्रीस्तस्य वश्यगा // युग्मम् / / एकागुलमितं बिम्ब निर्मापयति योऽर्हताम् / एकातपत्रसाम्राज्यं लभते स भवान्तरे // श्रुत्वेति सातभूपालो भूरिसङ्घजनान्वितः / चचाल सिद्धभूमिधे यात्रा कत्तुं शुभाशयः / / सधे हेममया देवा-लयाः षष्टिमिता वराः / शतं काष्ठमया श्राद्ध-कुटुम्बा लक्षसम्मिताः / एकोनशतलक्षाणि श्राद्धानां धर्मिणां तदा / आचार्याः शतसङ्ख्याश्च चेलुनन्तुं जिनेश्वरम् / / गत्वा शत्रुजये स्नात्र-पूजादि पुण्यमद्भुतम् / निःशेष चक्रिवान् भूपः श्रीसङ्घजनसंयुतः। प्रासादं पतितं किञ्चिद् दृष्ट्वा सातमहीपतिः। उद्दधे भूरिपद्माया व्ययाचिरवासरे // ततो रैवतके तीर्थे गत्वा नेमिजिनप्रभोः / स्नात्राद्युत्सवमुर्वीश-श्चक्रे सङ्घसमन्वितः।। क्रमान्निजपुरेऽभ्येत्य सातवाहनसज्ञिकम् / द्वासप्ततिलसदेव-कुलिकाढयं जिनालयम् // कारयित्वा युगादीशं मूलनाथमतिष्ठिपत् / ततो जिनाधिपान् देव-कुलिकासु जनाधिपः / सातवाहनभूपालः प्रासादानां शतत्रयीम् / स्वदेशे परदेशे चा-ऽचीकरद् गगनाध्वगाम् / / 59 / / इति सातवाहननृपोद्धारसम्बन्धः //